61068: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्¶
Padacheda: हल्-ङि-आब्भ्यः | S | 5 | 3 |
दीर्घात् | S | 5 | 1 |
सु-ति-सि | S | 1 | 1 |
अपृक्तम् | S | 1 | 1 |
हल् | S | 1 | 1 |
Sutrartha¶
हलन्तात्, दीर्घात् ङ्यन्तात्, दीर्घात् आबन्तात् च परस्य सुँ-ति-सि-प्रत्ययानाम् अपृक्तः हल् लुप्यते ।
हलन्तात्, दीर्घ-ङ्यन्त-शब्दात् तथा च दीर्घ-आबन्त-शब्दात् विहितस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य, प्रथमपुरुषैकचवनस्य तिप्-प्रत्ययस्य, तथा च मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य अपृक्त-अवस्थायाम् लोपः भवति । इत्युक्ते —
हलन्तात्, दीर्घ-ङ्यन्तात्, दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य इत्संज्ञक-उकारस्य लोपे कृते यः अपृक्तः “स्” इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।
हलन्तात् विहितस्य ति-प्रत्ययस्य इकारस्य इतश्च (3.4.100) इत्यनेन लोपे कृते यः अपृक्तः “त्” इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।
हलन्तात् विहितस्य सि-प्रत्ययस्य इकारस्य इतश्च (3.4.100) इत्यनेन लोपे कृते यः अपृक्तः “स्” इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।
<note>**अपृक्त एकाल् प्रत्ययः** (1.2.41) इत्यनेन सूत्रेण एकवर्णात्मकस्य प्रत्ययस्य “अपृक्तः” इति संज्ञा भवति । </note> क्रमेण उदाहरणानि एतानि — 1. हलन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः — “राजन्”-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् अपृक्तसकारस्य प्रकृतसूत्रेण लोपः भवति —
राजन् + सुँ [**स्वौजस्..** (4.1.2) इति सुँ-प्रत्ययः]
→ राजन् + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ राजान् + स् [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति सर्वनामस्थानप्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः भवति ।]
→ राजान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सकारस्य लोपः]
→ राजा [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति पदान्तनकारस्य लोपः]
अस्यां प्रक्रियायाम् अपृक्त-सकारस्य संयोगान्तस्य लोपः (8.2.23) इत्यनेन लोपः न सम्भवति, यतः तादृशे लोपे कृते तस्य असिद्धत्वात् नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यस्य कृते पदान्ते नकारः नैव विधीयेत, येन नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारलोपः अपि नैव सम्भवेत् । 2. दीर्घ-ङ्यन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः — स्त्रीप्रत्ययप्रकरणे पाठिताः “ङीप् / ङीष् / ङीन्” एते त्रयः प्रत्ययाः साकल्येन ङ्यन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (ईकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, “नदी” इति शब्दः “नद” शब्दात् ङीप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति —
नदी + सुँ [**स्वौजस्..** (4.1.2) इति सुँ-प्रत्ययः]
→ नदी [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः]
ये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः न सन्ति, तेषां विषये इदं सूत्रं न प्रवर्तते । यथा, “लक्ष्मी” इति शब्दः ङ्यन्तः नास्ति, अतः अस्य प्रथमैकवचनस्य रूपे सुँलोपः न जायते, अतश्च “लक्ष्मीः” इत्येव रूपं सिद्ध्यति । एतादृशाः आहत्य सप्त शब्दाः संस्कृतभाषायाम् सामान्यरूपेण प्रयुज्यन्ते । तेषाम् सङ्कलनम् एकस्यां कारिकायां कृतम् अस्ति — <karika> अवी-तन्त्री-तरी-लक्ष्मी-ह्री-श्री-धीनाम् उणादिषु । सप्तानाम् अपि शब्दानां सुँलोपो न कदाचन ॥ </karika> ये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः सन्ति परन्तु दीर्घान्ताः न सन्ति, तेषां विषये अपि इदं सूत्रं न प्रवर्तते । यथा, “कौशाम्बाः निर्गतः” इत्यस्मिन् अर्थे <!निरादयः क्रान्ताद्यर्थे पञ्चम्या!> इत्यनेन वार्त्तिकेन पञ्चमीतत्पुरुषसमासः भवति, येन “निष्कौशाम्बिः” इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि ङीप्-प्रत्ययः अन्ते विद्यते, तथापि गोस्त्रियोरुपसर्जनस्य (1.2.48) इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः इकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः “निष्कौशाम्बि”-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन “निष्कौशाम्बिः” इत्येव रूपं सिद्ध्यति । 3. दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः — स्त्रीप्रत्ययप्रकरणे पाठिताः “टाप् / डाप् / चाप्” एते त्रयः प्रत्ययाः साकल्येन आबन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (आकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, “बाला” इति शब्दः “बाल”-शब्दात् टाप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति —
बाला + सुँ [**स्वौजस्..** (4.1.2) इति सुँ-प्रत्ययः]
→ बाला [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः]
सर्वेऽपि आकारान्त-स्त्रीलिङ्ग-शब्दाः आबन्ताः एव सन्ति, अतः तेभ्यः सर्वेभ्यः विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रे लोपः क्रियते । ब>आकारान्तपुंलिङ्गशब्दाः आबन्ताः न सन्ति, अतः तेषाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते</b>, अतः एतेषाम् प्रथमैकवचनस्य रूपे सुँलोपः न भवति । यथा “विश्वपा”-शब्दस्य प्रथमैकवचनस्य रूपे सुँ-प्रत्ययस्य सकारस्य विसर्गादेशे कृते “विश्वपाः” इति रूपं सिद्ध्यति । यत्र आबन्तशब्दस्य अन्ते दीर्घः स्वरः न विद्यते, तत्र अपि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, “अतिक्रान्तः खट्वाम्” इत्यस्मिन् अर्थे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इत्यनेन द्वितीयातत्पुरुषसमासे कृते “अतिखट्वः” इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि टाप्-प्रत्ययः अन्ते विद्यते, तथापि गोस्त्रियोरुपसर्जनस्य (1.2.48) इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः अकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः “अतिखट्व”-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन “अतिखट्वः” इत्येव रूपं सिद्ध्यति । 3. हलन्तात् विहितस्य ति-प्रत्ययस्य अपृक्त-तकारस्य लोपः — ङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययस्य इकारस्य इतश्च (3.4.100) इत्यनेन लोपे कृते यः “त्”-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि बहुषु स्थलेषु संयोगान्तस्य लोपः (8.2.23) इत्यनेन अपि सम्भवति, तथापि रेफात्-परस्य अपृक्त-तकारस्य लोपार्थम् प्रकृतसूत्रम् आवश्यकम् वर्तते, यतः रेफात् परस्य तकारस्य संयोगान्तस्य लोपः (8.2.23) इत्यनेन प्राप्तः लोपः रात्सस्य (8.2.24) इत्यनेन निषिध्यते । यथा, भृञ्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धेः प्रक्रिया इयम् —
डुभृञ् (धारणपोषणयोः, जुहोत्यादिः, (3.6))
→ भृ [इत्संज्ञालोपः]
→ भृ + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्]
→ अट् + भृ + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + भृ + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]
→ अ + भृ + त् [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ + भृ + शप् + त् [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ अ + भृ + ० + त् [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इति शप्-प्रत्ययस्य श्लुः (लोपः) ।]
→ अ + भृ भृ + त् [**श्लौ** (6.1.10) इति द्वित्वम् । **द्विर्वचनेऽचि** (1.1.59) इत्यनेन इदम् अजादेशात् पूर्वं भवति ।]
→ अ + भृ + भर् + त् [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति अङ्गस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ अ + भिर् + भर् + त् [**भृञामित्** (7.4.76) इति अभ्यासस्य ईकारादेशः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ अ + भि + भर् + त् [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः शिष्यते ।]
→ अ + भि + भर् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति हलन्तात् विहितस्य अपृक्त-ति-प्रत्ययस्य लोपः । अत्र **संयोगान्तस्य लोपः** (8.2.23) इत्यनेन लोपः नैव सम्भवति, **रात्सस्य** (8.2.24) इति नियमात् ।]
→ अ + भि + भः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ अबिभः [**अभ्यासे चर्च** (8.4.54) इति जश्त्वम् ]
ङ्यन्तात् आबन्तात् च तिप्-प्रत्ययः नैव सम्भवति, अतः तयोः अत्र उदाहरणानि अपि न वर्तन्ते । 3. हलन्तात् विहितस्य सि-प्रत्ययस्य अपृक्त-तकारस्य लोपः — ङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य इकारस्य इतश्च (3.4.100) इत्यनेन लोपे कृते यः “स्”-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि सर्वत्र एव संयोगान्तस्य लोपः (8.2.23) इत्यनेन सम्भवति, तथापि तादृशः कृतः सकारलोपः सन्धिकार्यार्थम् असिद्धः भवति, अतः ततः इष्टानि सन्धिकार्याणि न प्रवर्तन्ते । अतएव अपृक्त-सकारस्य अपि प्रकृतसूत्रे ग्रहणम् कृतम् अस्ति । यथा, “भिद्”-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपात् इत्यस्मात् अनन्तरम् “अत्र” इति शब्दः विद्यते चेत् प्रक्रियायाम् प्रकृतसूत्रेण लोपे कृते एव सन्धिकार्यम् सम्भवति —
भिदिँर् (विदारणे, रुधादिः, (7.2))
→ भिद् [ <!इँर इत्संज्ञा वाच्या!> इति इँर्-इत्यस्य लोपः]
→ भिद् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्]
→ अट् + भिद् + लङ् + अत्र [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः । अग्रे सन्धिकार्यार्थम् '"अत्र"' इति शब्दः अपि स्थापितः अस्ति ]
→ अ + भिद् + सि + अत्र [**तिप्तस्झि...** (3.4.78) इत्यनेन मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ अ + भिद् + स् + अत्र [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ + भि श्नम् द् + स् + अत्र [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम् । **मिदचोऽन्त्यात्परः** (1.1.47) इति सः अन्त्यात् अचः परः विधीयते ।]
→ अ + भि न द् + स् [इत्संज्ञालोपः]
→ अ + भि न द् + ० + अत्र [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति हल्-वर्णात् परस्य अपृक्त-सि-प्रत्ययस्य लोपः]
→ अ + भि न रुँ + अत्र [**दश्च** (8.2.75) इति दकारस्य रुँत्वम् ]
→ अ + भि न र् + अत्र [उकारस्य इत्संज्ञा, लोपः]
→ अ + भि न उ + अत्र [**हशि च** (6.1.114) इति उत्वम् । **दश्च** (8.2.75) इति सूत्रेण कृतम् रुँत्वम् निर्देशसामर्थ्यात् उत्वस्य कृते सिद्धम् अस्ति । परन्तु यदि पूर्वस्मिन् सोपाने **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यस्य स्थाने **संयोगान्तस्य लोपः** (8.2.23) इति सूत्रेण सकारलोपः क्रियते, तर्हि सः सकारलोपः उत्वस्य कृते असिद्धः स्यात् अतः अत्र रेफात् परम् सकारम् एव दृष्ट्वा उत्वं नैव प्रवर्तेत ! अतः पूर्वस्मिन् सोपाने सकारलोपार्थम् **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्येव सूत्रम् प्रयोक्तव्यम् ।]
→ अ + भिनो + अत्र [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
→ अभिनोऽत्र [**एङः पदान्तादति** (6.1.109) इति पूर्वरूपैकादेशः]
प्रकृतसूत्रे अपृक्तशब्दात् अनन्तरम् ‘हल्’ ग्रहणस्य प्रयोजनम्
प्रकृतसूत्रेण सुँ/ति/सि-प्रत्ययस्य अपृक्तस्य हल्-वर्णस्य लोपः उच्यते । एतद् हल्ग्रहणम् णल्-प्रत्ययस्य अकारस्य लोपनिषेधार्थम् अस्ति । यदि अस्मिन् सूत्रे “हल्” इति शब्दः नैव विद्येत, तर्हि लिट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययस्य “णल्”-आदेशे कृते, इत्संज्ञालोपात् अनन्तरम् तस्य “अ” इति रूपस्य अपृक्तत्वे सिद्धे “पपाठ” इत्यादिषु स्थलेषु प्रकृतसूत्रेण अस्य अकारस्य अपि अनिष्टः लोपः भवेत् । तस्य बाधनार्थम् एव प्रकृतसूत्रे अपृक्तशब्दस्य “हल्” इति विशेष्यम् विशिष्टरूपेण निर्दिष्टम् अस्ति ।
Sutrartha (English)¶
The सुँ, ति, or सि प्रत्यय, when present as a single letter, is removed when attached to - (1) a word ending in a हल् letter, or (2) A दीर्घ word ending in the ङीप् / ङीष् / ङीन् / चाप् / टाप् / डाप् प्रत्यय.
Vasu English Summary¶
After a consonant there is the elision of the nominative affix स् and the tense-affix ति and सि (when reduced to the form of त् and स् ) being consonants; and so also after the long vowels ई and आ of the feminine (affix ङी and आप् ), there is the elision of the nominative affix स्।
Vasu English Translation¶
After a consonant there is the elision of the nominative affix स् and the tense-affix ति and सि (when reduced to the form of त् and स् ) being consonants; and so also after the long vowels ई and आ of the feminine (affix ङी and आप् ), there is the elision of the nominative affix स्। The sutra translated literally means :- After a word ending in a consonant, or ङी, or आप् when a long vowel, the affixes सु, ति and सि when reduced to a single consonant affix (अपृक्तं हल्) are elided. But ति and सि are elided only after a consonant and hence we have translated it as above. As examples of the elision of सु after a consonant:- राजन् + स् = राजान् (6.4.8) + ० = राजा, तक्षा, उखास्रत्, पर्णध्वत् ॥ After a ङी :- कुमारी, गौरी, शार्ङ्गरवी ॥ After आप् :- खट्वा, बहुराजा, कारीषगन्धा ॥ The elision of ति and सि takes place only after consonants :-as, अबिभर्भवान् (भृ + लङ् + तिप् = अ + भृ + श्लु + त् = अ + भृ + भृ + त् (6.1.10) = अ + भर् + भृ + त् (7.4.66) and (1.1.51) = अ + बि + भर् + त् (7.4.60) = अ + ब + भृ + त् (8.4.54) = अ + बि + भृ + त् (7.4.76) = अ + बि + भर् + त् (7.3.84) = अबिभर् + त् = अबिभर् ॥ So also अजागर् भवान् ॥ In both these cases त् of the Imperfect has been elided. The स् is elided in the following:- अभिनोऽत्र, अच्छिनोऽत्र ॥ (भिद् + लङ् + सिप् ॥ The द् is changed into र् by (8.2.75) and स् is elided by this rule).
Why do we say “after a consonant, or a feminine affix ई and आ”? Observe ग्रामणीः, सेनानीः ॥ Why do we say “after a long vowelled feminine affix”? Observe निष्कौशाम्बिः, अतिखट्वः, where the feminine affixes have been shortened. Why do we say “when followed by सु, ति and सि”? Observe अभैत्सीत् ॥ The सि being read along with ति, does not include सिच्, but refers to सिप् only. Why do we say ‘when reduced to a single letter’? Observe भिनत्ति, छिनत्ति ॥ Why do we say ‘the consonant is elided’? Observe बिभेद, चिच्छेद ॥ Here the aprikta affix अ of the Perfect is not elided : though it being the substitute of ति is like ति, and ought to have been elided, had the word हल् not been used in the sutra.
Why has the elision of स् (सु), त् (तिप्) and स् (सिप्) been ordained after consonants, as they would of themselves have been dropped by (8.2.23), being the finals of a compound consonant? Then the forms राजा, तक्षा could not be evolved. As राजन् + स् = राजान् + स् (6.4.8) = राजान्स् and by eliding स् by Rule (8.2.23), the form would have become राजान्, and the final न् could not have been elided by (8.2.7); for it is a maxim enunciated in the very opening of the Second chapter of the 8th Book, that in the last three chapters of that Book (2nd, 3rd and 4th Books), a subsequent rule is as if it had not taken effect, so far as any preceding rule is concerned; therefore, the rule (8.2.7) ordaining the elision of न्, does not find scope, since (8.2.23) (ordaining elision of स्) is considered as if it had not taken effect. So also in the case of उखास्रत् and पर्णध्वत् ॥ उखा + स्रन्ग् + क्विप् (3.2.76) = उखा + स्रस् (the nasal being elided by (6.4.24)); now add सु, we have उखास्रस् + स् = उखास्रस्स; elide the final स् not by this rule, but by (8.2.23), we have उखास्रस्, here we cannot change the स् into द् by (8.2.72) for स् is not final in a pada, for Rule (8.2.23) is considered as not to have taken effect. So also in the case of अभिनोऽत्र ॥ The word अभिनः is 2nd. Person singular of the Imperfect of भिद् of Rudhadi class. Thus भिद् + लङ् + सिप् = अ + भिद् + श्नम् + स् = अ + भिनद् + स् = अभिनर् + स् (द changed to र् by (8.2.75)) = अभिनर्स् ॥ If we elide the final स् of the conjunct by (8.2.23), then in अभिनर् + अत्र, the र् would not be changed into उ to form अभिनोऽत्र by (6.1.113) since the elision of स् is considered as to have not taken effect when applying this rule. So also in अबिभर् भवान्, by Rule (8.2.24), there would be no lopa even, for संयोगान्तलोप rule is restricted by रात्सस्य (8.2.24), i. e. स् only and no other consonant is elided after र्, therefore there will be no elision of त् in अबिभर्त् by (8.2.23).
Bhashya¶
हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (2505) (वार्तिकावतरणभाष्यम्) यदि पुनरयमपृक्तलोपः संयोगान्तलोपो विज्ञायेत । किं कृतं भवति ? द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं न कर्तव्यं भवति ॥ (6085 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - हलन्तादपृक्तलोपः संयोगान्तलोपश्चेन्नलोपाभावो यथा पचन्निति - हलन्तादपृक्तलोपः संयोगान्तलोपश्चेन्नलोपाभावः - राजा, तक्षा । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न प्राप्नोति । यथा - पचन् - इति । तद्यथा - पचन्, यजन् - इत्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति ॥ (वार्तिकोक्तप्रयोजनान्यथासिद्धबोधकभाष्यम्) नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - सिद्धः संयोगान्तलोपो नलोपे - इति, यदयं न ङिसंबुद्ध्योः (8.2.8) इति संबुद्धौ प्रतिषेधं शास्ति । इहापि तर्हि प्राप्नोति - पचन्, यजन् । तुल्यजातीयस्य ज्ञापकं भवति । कश्च तुल्यजातीयः ? यः संबुद्धावनन्तरः ॥ (6086 सूत्रप्रयोजनवार्तिकम् ॥ 2 ॥) - वस्वादिषु दत्वं संयोगादिलोपबलीयस्त्वात् - वस्वादिषु दत्वं च न सिध्यति । उखास्रत्, पर्णध्वत् । किं कारणम् ? संयोगादिलोपबलीयस्त्वात् । संयोगान्तलोपात्संयोगादिलोपो बलीयानिति ॥ (6087 संयोगादिलोपबलीयस्त्वबोधकवार्तिकम् ॥ 3 ॥) - यथा कूटतडिति - तद्यथा - कूटतट्, काष्ठतट् - इत्यत्र संयोगान्तलोपात्संयोगादिलोपो बलीयान् भवति ॥ ननु च दत्वे कृते न भविष्यति । असिद्धं दत्वम्, तस्यासिद्धत्वात् प्राप्नोति । सिद्धकाण्डे पठितं वस्वादिषु दत्वं सौ दीर्घत्व इति । तत्रसौ दीर्घत्वग्रहणं न करिष्यते । वस्वादिषु दत्वं सिद्धमित्येव ॥ एवमप्यपदान्तत्वान्न प्राप्नोति । अथ सावपि पदं भवति । राजा, तक्षा - नलोपे कृते विभक्तेः श्रवणं प्राप्नोति । सैषोभयतस्पाशा रज्जुर्भवति ॥ (6088 एकदेश्युपसंख्यानवार्तिकम् ॥ 4 ॥) - रात्तलोपो नियमवचनात् - रात्तस्य लोपो वक्तव्यः । अबिभर्भवान्, अजागर्भवान् । किं पुनः कारणं न सिध्यति ? नियमवचनात् । रात्सस्य (8.2.24) इत्येतस्मान्नियमान्न प्राप्नोति ॥ नैष दोषः । रात्सस्य इत्यत्र तकारोऽपि निर्दिश्यते । यद्येवम्, कीर्तयतेरप्रत्ययः - कीः इति प्राप्नोति, कीर्त् इति चेष्यते । यथा लक्षणमप्रयुक्ते ॥ (6089 उपसंख्यानवार्तिकम् ॥ 5 ॥) - रोरुत्वं च - रोश्चोत्त्वं वक्तव्यम् । अभिनोऽत्र, अच्छिनोऽत्र । संयोगान्तलोपस्यासिद्धत्वात् । अतोऽति इत्युत्वं न प्राप्नोति ॥ (6090 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 6 ॥) - न वा संयोगान्तलोपस्योत्वे सिद्धत्वात् - न वा वक्तव्यम् । किं कारणम् । संयोगान्तलोपस्योत्त्वे सिद्धत्वात् । संयोगान्तलोप उत्त्वे सिद्धो भवति ॥ (6091 आनर्थक्ये दृष्टान्तवार्तिकम् ॥ 7 ॥) - यथा हरिवो मेदिनमिति - तद्यथा - हरिवो मेदिनं त्वा - इत्यत्र संयोगान्तलोप उत्वे सिद्धो भवति ॥ (सूत्रप्रयोजने सिद्धान्तभाष्यम्) स एव तर्हि दोषः - सैषोभयतस्पाशेति । तस्मादशक्यो हलपृक्तलोपः संयोगान्तलोपो विज्ञातुम् । न चेद्विज्ञायते, द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं कर्तव्यमेव ॥
Kashika¶
लोप इति वर्तते। तदिह लौकिकेनार्थेनार्थवत् कर्मसाधनं द्रष्टव्यम्। लुप्यत इति लोपः। हलन्ताद् ङ्यन्तादाबन्तात् च दीर्घात् परं सु ति सि इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः — राजा। तक्षा। उखास्रत्। पर्णध्वत्। ङ्यन्तात् — कुमारी। गौरी। शार्ङ्गरवी। आबन्तात् — खट्वा। बहुराजा। कारीषगन्ध्या। हलन्तादेव तिलोपः सिलोपश्च। तत्र तिलोपस्तावत् — अबिभर्भवान्। भृञो लङि तिपि श्लौ भृञामित् (७.४.७६) इत्यभ्यासस्येत्त्वम्। अजागर्भवान्। सिलोपः — अभिनोऽत्र। अच्छिनोऽत्र। दस्य रेफः। हल्ङ्याब्भ्य इति किम् ? ग्रामणीः। सेनानीः। दीर्घादिति किम् ? निष्कौशाम्बिः। अतिखट्वः। सुतिसीति किम् ? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात् सिचो ग्रहणं नास्ति। अपृक्त मिति किम्? भिनत्ति। छिनत्ति। हलिति किम् ? बिभेद। चिच्छेद। अथ किमर्थं हलन्तात् सुतिसीनां लोपो विधीयते, संयोगान्तलोपेनैव सिद्धम्? न सिध्यति। राजा तक्षेत्यत्र संयोगान्तलोपस्यासिद्धत्वाद् नलोपो न स्यात्। उखास्रत्, पर्णध्वदित्यत्रापदान्तत्वाद् दत्वं च न स्यात्। अभिनोऽत्रेत्यत्र अतो रोरप्लुतादप्लुते (६.१.११३) इत्युत्त्वं न स्यात्। अबिभर्भवानित्यत्र तु **रात् सस्य**(८.२.२४) इति नियमात् लोप एव न स्यात्।
संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति।
रात् तु ते नैव लोपः स्याद् धलस्तस्माद् विधीयते॥
Siddhanta Kaumudi¶
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥
Laghu Siddhanta Kaumudi¶
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥
Balamanorama¶
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् - हल्ङ्याब्भ्यो । हल् च ङीच आप् चेति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ङ्यापोरेव दीर्घादिति विशेषणं, न तुहलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । ‘हल्ङ्याब्भ्य’ इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया, प्रत्ययग्रहणपरिभा,या च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घङ्याबन्ताच्च परमिति लब्धम् । ‘सुतिसि’ इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । ‘लोपोः व्योः’ इत्यतो लोप इत्यनुवर्तते । तच्चेह कर्मसाधनमाश्रीयते । लुप्यते इति लोपः । क्रमणि घञ् । तदाह — हलन्तात्परमित्यादिना । हल्ङ्याब्भ्यः किमिति । ‘राम’ इत्यादावदीर्घान्तत्वान्नदोष इति प्रश्नः । ग्रामणीरिति । ग्रमां नयतीति विग्रहः ।णीञ् प्रापणे॑ ।सत्सूद्विषे॑त्यादिना क्विप् ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । हल्ङ्याबन्तत्वाऽभावान्न सुलोपः । दीर्घात्किमिति । ङ्यापोर्दीर्घत्वाऽव्यभिचारात्किमर्थं दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासः । ‘गोस्त्रियोः’ इति ह्रस्वत्वम् । अत्र ह्रापोह्र्यस्वत्वान्न सुलोपः । अभैत्सीदिति । भिदेर्लुङि सिच् । अत्र तकारात्परस्य सकारस्य लोपो न, सुतिस्यन्यतमत्वाऽभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह — तिपेति । तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात्सिचो ग्रहणं नेत्यर्थः । विभर्तीति । अत्र तीति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवो हल्, तथापि तस्य नाऽपृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टः सकारस्त कारश्च सुतिसीत्यनेन गृह्रते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव विभर्तीत्यत्र लोपाऽभावासिद्धेरपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति — हल् किमिति । बिभेदेति । भिदेर्लिट् तिप् णल् । णलोऽकारस्य हल्त्वाऽभावान्न लोपः । प्रथमहल् किमिति । राजन् स् इति स्थिते उपधादीर्घे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्नः । नन्विदं राजेति कथं प्रत्युदाहरणं, संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह — नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः ।अभिनोऽत्रे॑त्यत्र उत्वमादिशब्दार्थः । भिदेर्लङि सिप् ।इतश्चे ॑तीकरलोपः ।सिपि धातो रूर्वे॑ति रुत्वम् । सलोपः । अत्रअतोरोरप्लुता॑दित्युत्वं न स्यात् । कुत इत्यत आह — संयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित्पुस्तकेषुदीर्घात्किमित्यारभ्य संदर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । सखेति । सुलोपे सति ‘न लोपः’ इति नकारलोपः । नचेहसु॑माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपो न संभवति, संनिपातपरिभाषाविरोधादिति वाच्#ं, ‘स्वतन्त्रः कर्ता’ इत्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्येसन्निपातपरिभाषाया अप्रवृत्तेरित्याहुः । हे सखे इति । ‘अनङ् सौ’ इत्यत्र असम्बुद्धावित्यनुवृत्तेरनङभावे ह्वस्वस्य गुणेएङ्ह्रस्वा॑दिति सुलोपे रूपम् ।
Tattvabodhini¶
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् - हल्ङ्याब्भ्यो ।दीर्घा॑दित्येतन्ङ्यापोरेव विशेषणं न तु हलोऽसंभावदित्याहदीर्घौ याविति । परमिति । न त्विदंयः॒॑स॑ इत्यादावतिव्याप्तेः ।कर्ता॒॑सखे॑त्यादावव्याप्तेश्च । यद्यपि त्यदाद्यत्वविधौविभक्ता॑वित्यस्य विषयसप्तमीत्वे स्वीकृतेया॑से॑ त्यादौ नोक्तदोषः, सुविभक्तेराबन्ताद्विहितत्वस्य संभवात् । तथा अनङ्विधौ सावित्यस्य विषयसप्तमीत्वेकर्ता॒॑सखे॑त्यादावपि न दोषः, हलन्ताद्विहितस्य सोः सम्भवात्तथापिबहुश्रेयसो त्यत्राऽव्यप्तिप्रसङ्ग इथि भावः । हलिति । तस्य सुतिसीत्येवंरूत्वमेकादेशविकृतन्यायेन बोध्यम् । लुप्यत इति । यद्यपीहलोपो व्योर्वली॑त्यतोलोप॑ इत्यनुवर्तते, तच्च तत्र भावसाधनं, तथापीह कर्मसाधनं,ह॑लिति प्रथमान्तेन सामानाधिकरण्यादिति भावः । निष्कौशाम्बिः । अतिखट्व इति । प्रादिसमासेगोस्त्रियो॑रिति ह्रस्वः नन्विह समस्तस्य ङ्यबन्तत्वं नास्ति, न च स्त्रीप्रत्यये तदादिनियमो नास्तीति वाच्यम्, अनुपर्जने हि तथा, इह तूपसर्जनत्वात्तदादिनियमोऽस्त्येव । अन्यथाअतिकारीषगन्ध्यापुत्र॑इत्यत्र ष्यडन्तपूर्वपदलक्षणसंप्रसारणप्रसङ्गात् । सत्यम् । तथाप्युत्तरपदस्य ङ्याबन्तत्वेन सोस्ततः परत्वाऽनपायाद्दीर्घग्रहणाऽभावे सुलोपः स्यादेव । नहीदं ङ्याब्ग्रहणं विहितविशेषणमित्यधुनैवोक्तम् । स्यादेतत् । गङ्गामात्मन इच्छति गङ्गीति । ततः क्किपि अल्लोप चगङ्गीः॑ । इह ईकारस्य स्थानिवद्भावेनाप्त्वाद्दीर्घत्वाच्चाऽतिव्याप्तिः । नचाऽल्लोपस्य स्थानिवत्त्वात्सोरापः परत्वं नेति शङ्क्यम् ।॒क्कौ लुप्तं न स्थानिव॑दिति निषेधादिति चैन्मैवम्, ङी-ई आ-आबिति पश्लिष्य दीर्घग्रहणस्य प्रत्याख्यातत्वेन प्रकृते आकाररूपस्य आपोऽभावादुक्तातिप्रसङ्गाऽभावात् । निष्कौशाम्बीयतेः क्किपि तुनिष्कौशाम्वी॑ति भवत्येव, ईकाररूपङीबन्तत्वेन सुलोपप्रवृत्तेः । अपृक्तं किं बिभर्तीति । इदं च पत्र्यदाहरणं चित्यं, विशिष्टस्याऽहल्वात् ।सुतिसीनां ह॑लिति क्लिष्टं व्याख्यायाऽतिप्रसङ्गापादमस्यानुचितत्वात् । यत्तु व्याचख्युः — ॒सुरां॑ सुनोतीति सुरासुत्, तमाचष्टे सुरासयति, ततः किप् — सुराः । सुरासौ ।सुरासः । इह सुनोतेरवयवस्य सस्य लोपं व्यवर्तयितुमप्टक्तग्रहण॑मिति । तदपि चिन्त्यम् । परस्परसाहचर्येण सुतुसीनां विभक्तिनामेव ग्रहणात् । अन्यथा सिचो लोपापत्तेरुक्तत्वात् । प्रत्ययाऽप्रत्याययोः प्रत्ययस्यैव ग्रहणाच्च । यत्तुतित्स्वरित॑मिति सूत्रे कैयटेनोक्तं-॒न क्वचिदियं परिभाषा भाष्यवातिककाराभ्यामाश्रिते॑-ति, तद्रभसात् ।॒अङ्गस्ये॑ति सूत्रे भाष्यादौ तस्याः पठितत्वात्स स्वयमपि तत्र व्याख्यातत्वाच्च । संयोगान्तलोपस्यासिद्धत्वादिति.ननु संयोगान्तलोपो नाऽसिद्धः,न ङिसंबुज्द्यो॑रिति सूत्रे संबुद्धिग्रहणाज्ज्ञापकात् । न चैवंगोमा॑नित्यादावपि नलोपापत्तिः, ज्ञापकस्य विशेषविषयत्वात् । यत्र हि नकारविभक्त्योरानन्तर्यं तत्रैव सिद्धत्वं, व्याख्यानात् । यत्त्वाहुः-॒हे ब्राहृआन्निति नपुंसकार्थत्वान्नैतज्ज्ञापक॑मिति, तन्न, लुका लुप्ते प्रत्ययलक्षणाऽभावात् ।संबुद्धौ वा नपुंसकाना॑ मित्यस्यावश्यकत्वाच्च । समबुद्धिग्रहणस्य नपुंसकविषयत्वाऽसंभवेनोक्तज्ञापकस्य सुस्थत्वात् । तस्मान्नलोपो न प्रयोजनमिति चेदिह तर्हिअभिनोऽत्रे॑त्यत्र रोरुत्वं न स्यात् । सिपिदश्चे॑ति रुत्वे विभक्तिसकारस्य संयोगान्तलोपे तस्याऽसिद्धात्वात् । तथाअबिभर्भवान्॒अजागर्भवा॑नित्यत्र तिलोपो न स्यात्,रात्सस्ये॑ति नियमात् ।तदुक्तम्-॒संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति । रात्तु कतैर्नैव लोपः स्याद्धलस्तस्माद्विधीयते॑इतिष नलोपादिरित्यादिशब्देनोत्त्वं सङ्गृह्रते । अत्रेदमवधेयम्-ङ्याब्ग्रहणं सोर#एव विशेषणं न तु तिस्योः, व्याख्यानात्, तेन मालेवाचरत्-अमलात् । गङ्गेवाचरत्-अगङ्गादित्यत्र नातिप्रसङ्गः । तथा चहलन्तात्परं सुतिसीत्येतदपृक्तं हल्लुप्यते, दीर्घौ यौ ङ्यपौ तदन्तात्परंसु॑ इत्येतदपृक्तं हल्लुप्यते॑इति वाक्यार्थोऽत्र पर्यवसन्नः । यत्तु व्याचख्युः-ङ्याब्भ्यां तिस्योरसंभव एवेति, तत्रङ्यन्तादसंभव॑इति सत्यम् । आबन्तात्तु आचारक्किबन्ताल्लङस्तिप्सिपौ स्त एव ।अगङ्गात्॒अगङ्गा इति यथा । न च शपा व्यवधानम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणात् । न च स्थानिवद्भावः, अपूर्वविधित्वात् । अन्ये त्वाहुः — ङ्याब्ग्रहणमसंभवादेव तिस्योर्विशेषणं न भवतीति यदुक्तं तत्सम्यगेव । नच अगङ्गादगङ्गा इत्यत्र संभवोऽस्तीत्युक्तमिति वाच्यं, तत्र स्थानिभूतस्य शपः पूर्वस्मान्निमित्तभूतादापः परयोस्तिस्योर्लोपे कर्तब्ये स्थानिवद्भावेन शपा व्यवधानात्तिस्योलौपस्याऽप्रसक्तेः । न च फलाऽभावात्पञ्चमीसमासपक्षे न स्वीक्रियत इत्यपि वाच्यं, तत्प्रयोजनस्य प्रागेव प्रदर्शितत्वादिति । सखेति । समानं ख्यायते जनैरितिसखा॑ ।ङिच्च॑यलोप॑ इति चानुवर्तमानेसमाने ख्यः स चोदात्तः॑इति ख्या इत्यस्मादिण्, समानशब्दस्योदात्तः, सभावश्च । न चेह सुविभक्तिसंनियोगेन सखिशब्दस्यानङि कृते संनिपाकपरिभाषायाहल्ङ्या॑बिति सुलोपो न भवतीति शङ्क्यम्,स्वतन्त्रः कर्ते॑त्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्ये तत्परिभाषाया अप्रवृत्तेः ।
Padamanjari¶
दीर्घग्रहणं सम्भवव्यभिचाराभ्यां ङ्भापोरेव विशेषणम्। ङ्याब्ग्रहणं च सोविशेषणम्। हलपृक्तग्रहणं च तिस्योः। सुतिसीति त्रीणि पदानि। तदिहेत्यादि। प्रकृतस्य लोपशब्दस्य शास्त्रीयस्य भावसाधनस्य सुतिसीति प्रथमान्तेन सम्बन्धाभवादिति भावः। अपर आह-इल्ङ्याब्भ्यःऽ इति पञ्चम्या सुतिसीत्यादिकायाः प्रथमायाः षष्ठ।लं प्रकल्पितायां शास्त्रीयेऽपि लापशब्दे न दोष इति। अभिनोऽत्रेति। भिदर्लङ् इसिलोपः,’दश्च’ इति दकारस्य रूत्वम्, तस्य ठतो रोरप्लुतादप्लुतेऽ इत्युत्वम्, श्नमोऽकारेण ठाद्गुणःऽ, ठेङः पदान्तादतिऽ इति पूर्वरूपम्। निष्कौशाम्बिरति। ननु च प्रत्ययग्रहणपरिभाषया तदादिग्रहणादेवात्र न भविष्यति, इहापि तर्हि न स्यात् -परमकुमारी, परमखट्वेकि?’स्त्रीप्रत्यये चानुपसर्जने न’ इति तदादिनियमाबावाद्भविष्यति। निष्कौशाम्बिरित्यादौ उपसर्जनत्वाद्भवत्येव तदादिनियमः ? एवं तर्हि एतज्ज्ञापयति -अर्द्धपिप्पलीत्यादौ ठेकविभक्ति चऽ इत्युपसर्जनत्वे सत्यपि लोपो भवति। नात्रोपसर्जनं पिप्लली; एकविभक्तावषष्ठ।ल्न्तमिति वचनात्। अत एव’गोस्त्रियोरुपर्जनस्य’ इति ह्रस्वत्वं न भवति। मा भूच्छास्त्रीयमुपसर्जनम्, अप्रधानं तावद्भवत्येव -बह्व्यः श्रेयस्योऽस्य बहुश्रेयसीति? शास्त्रीयमप्युसर्जनत्वमस्ति, ठीयसश्चऽ इति कपः प्रतिषेधः, ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इति ह्रस्वाभावः। अपर आह -ठ्निष्कौशाम्बिरित्यादौ समुदायस्य ङ्याबन्तत्वेऽपि यदत्र ङ्याबन्तं कौशाम्ब्यादि, ततः परस्य सोर्लोपः प्राप्नोति दीर्घग्रहणाद्व्यावर्ततेऽ इति। ननु च विहितविशेषणं विज्ञायते -ङ्याबन्ताद्विहितस्येति? नैवं शक्यम्; या, सा, केत्यादौ न स्यात्, न ह्यत्र टाबन्तात्सुब्विहितः। मा भूदेवम्, हलन्ताद्विहित इत्येवं भविष्यिति। यद्येवम्, यः, सः, क इत्यत्रापि स्यात्, कर्ता हर्तेत्यादौ चन स्यात्, न ह्यत्र हलन्तात् त्सुर्विहित इति ? अतोऽन्यस्मादपि विहितस्य हल्ङ्याब्भ्योऽनन्तस्य लोप इत्यास्थेयम्। एवं च निष्कौशाम्ब्यादावपि लोपः प्राप्नो दीर्घग्रहणेन व्यावर्तनीयः। तिपा सहचरितस्येति। तिपा तिशब्देन साहचर्यात्सहापि तिङ् एव ग्रहणमित्यर्थः। अथ किमर्थमित्यादि।’ङ्यापोर्दीर्घात्सुः’ इत्येव वक्तव्यमिति चोद्यार्थः। न लोपो न स्यादिति। ननु च’न ङसिम्बुद्धयोः’ इति कज्ञापकान्नलोपे कर्तव्ये संयोगान्तलोपरः सिद्ध एव भविष्यति? न; पचन्नित्यादावपि प्रसङ्गात्। नकारसंबुद्धयोरानन्तर्ते प्रतिषेधो विज्ञायमानस्तुल्यजातीये नकारविभक्तयोरानन्तर्य एव संयोगान्तलोपस्य सिद्धत्वं ज्ञापयति। पचन्नित्यादौ तु तकारेण व्यवहितत्वाद् ज्ञापकाभावाल्लोपाभावः? -इत्याशङ्क्य दोषान्तरमाह -उखास्रत्, पर्णघ्वदिति। दत्वमिति। न स्यादित्यनुषङ्गः। उखास्रससु इति स्थिते संयोगान्तलोपमपवादत्वाद्बाधित्वा’स्कोः संयोगाद्योः’ इति प्रकृतिसकारस्य लोपे श्रूयमाणः सकारो न वस्वादिसम्बन्धीति’वसुस्रंसु’ इति दत्वं न स्यात्। न च संयोगादिलोपं बाधित्वा पूर्वमेव प्रकृतिसकारस्य दत्वं लभ्यते; अपदान्तत्वात्। न हि सौ श्रूयमाणे पूर्वस्य पदसंज्ञाऽस्ति; ठसर्वनामस्थानेऽ इति प्रतिषेधात्। अथापिसावपि पदत्वमिति पक्षाश्रयेण स्यात्पदत्वम्? एवमपि दत्वस्यासिद्धत्वात्पूर्वंसंयोगादिलोप एव स्यात्। ननु च वस्वादीनां दत्वं सौ दीर्घत्वे सिद्धमिति वक्ष्यति तत्र, सौ दीर्घग्रहणं न करिष्यते वस्वादीनां दत्वमित्येव, ततश्च पूर्वमेव दत्वं भविष्यति? एवमपि राजा, तक्षेत्यादौ सावपि पदत्वे सति संयोगान्तलोपस्यासिद्धत्वात्पूर्वं नलोपे सति असंयोगान्तत्वात्सोर्लोपो न स्यात्। तस्मात्सुष्ठूअक्तम् -दत्वं न स्यादिति। उत्वमिति। न स्यादित्यनुषङ्गः। स एव हेतुः - संयोगान्तलोपस्यासिद्धत्वादिति। उत्वमिति। न स्यादित्युनुषङ्गः। स एव हेतुः - संयोगान्तलोपस्यासिद्धत्वादिति। एतच्च’संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः’ - इत्येतदनाश्रित्योक्तम्। तदाश्रयणे तु -हरिवो मेदिनीमित्यादिवत्सिद्धम्। रात्सस्येति नियमाल्लोप एव न स्यादिति। ननु रात्सस्यऽ इति द्वितकारकनिर्द्देशाक्तकारस्यापि प्रश्लेषाद्रेफादुतरस्य च तकारस्यापि लोपो विधास्यते? यद्येवम्, कीर्तयतेः क्विपि’कीः’ इति स्यात्, यथान्यासे तु कीर्दिति भवति। तदेवं सिग्रहणमेकं न कर्तव्यम्, अन्यत्सर्वं कर्तव्यमिति स्थितम्। संयोगान्तस्य लोपे हीत्यादि। संग्रहश्लोकः। हिशब्दो हेतौ, नलोपादीत्यादिशब्देन दत्वोत्वयोर्गहणम्। ये तु संयोगान्तलोपवादिनस्तेषां रेपादुतरस्य तकारस्य अबिभर्भवानित्यत्र नैव लोपः स्यात्, तस्माद्धल उतरेषां सुतिसीनां लोपो विधीयते ॥
Nyaas¶
यदि लोप इति इहानुवर्तमानं शास्त्रीयेणार्थेनैवार्थवत्? स्यात् तदा तेन हलित्यस्य प्रथमान्तस्य सामानाधिकरण्येन सम्बन्धो नोपपद्यते। शास्त्रीयस्य हि लोपशब्दस्यार्थः - दर्शनाभावः=आदर्शनम्, न च हलदर्शनं भवति। न च हल्ङ्याब्भ्यः इति पञ्चमी हलिति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति। सामर्थ्याद्वा हलित्यस्य षष्ठन्ततया विपरिणामो भविष्यति, अतः षष्ठन्तस्य लोपशब्देन सम्बन्धो भवष्यतीति शक्यं प्रकल्पयितुम्; अकृतार्थत्वात्? प्रथमायाः षष्ठीभावस्यानुपपत्तेरित्येतदालोच्याह -तदिह इत्यादि। लुप्यत इति लोपः। कर्मणि घञ्। एतेन लौकिकार्थेनार्थवत्त्वं लोपशब्दस्य दर्शयति। लुप्यत इति निरुध्यत इत्यर्थः। लौकिकेनार्थेनार्थवता कर्मसाधनेन लोपशब्देन हलित्येतस्य विशेषणविशेष्यबाव उपपद्यते। लोपशब्देन हि लुप्यमानं वर्णमात्रमुच्यते। ` सुतिस्यपृक्तं हल्` इति। अनेन च तदेव विशिष्यते। दीर्घात् इति। एतच्च ङ्यापोरेव विशेषणम्; सम्भवाव्यभिचारात्, न तु हलन्तस्य; असम्भवात्। उखारुआत्; पर्णध्वत्? इति। `रुआन्सु ध्वन्सु अधःपतने;, (धातुपाठः-754,755) उखायां रुआंसते पर्णानि ध्वंसत इति क्विप्? `अनिदिताम् (8.4.55) चर्त्वम् -तकारः। कुमारी ति। वयसि प्रथमे (4.1.20) इति ङीष्। गौरी इति। षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्। शाङ्र्गरवी इति। शार्ङ्गरवाद्यञो ङीन् (4.1.73) इति डाप्। कारीषगन्ध्या इति। `यङ्श्चाप् (4.1.74) । हलन्तादेव तिलोपः सिलोपश्च इति। ननु ङ्याबन्तादित्येकारेण दर्शयति, न हि ङ्याबन्तात्? परौ तिसी सम्भवतः, धातोरेव परस्य लकारस्य तयोर्विधानात्। अबिभर्भवान् इति। गुणे रपरत्वे च कृते तिलोपः। अजागर्भवान् इति। जाग्रोऽविचिण्णल्ङित्सु (7.3.85) इति गुणः। भवानित्यनुप्रयोगस्तिशब्दाभिव्यक्तये। अभिनः इति। भिदेर्लङ् दश्च (8.2.75) इति रुत्वम्, अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्त्वम्, इनमोऽकारेण सह आद्? गुणः, (6.1.84) **एङः पदान्तादति** (6.1.109) इति पूर्वरूपत्वम्। `ग्रामणीः इति। ग्रामं नयतीति सत्सूद्विष (3.2.61) इत्यादिना क्विप्। निष्कौशाम्बिः इति निर्गतः कौशाम्ब्या इति प्रादिसमासः, गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वम्। अतिखटवः इति। खट्वामतिक्रान्त इति पूर्ववत्? समासे कृते ह्रस्वः। अभैत्सीत् इति। वदव्रज (7.2.3) इति वृद्धिः, अपृक्त इट्। ननु सीति सामान्येन निदशात्? सिचोऽपि गरहणम्, अतो न युक्तमिदं प्रत्युदाहरणम्? अत आह -तिसहचरितस्य इत्यादि। तिङ्तिशब्देन साहचर्यात्? तिङ् एव सेग्र्रहणम्, न सिचेति किमत्रायुक्तम्। बिभेद इति। णलोऽकारोऽत्र भवत्यपृकतः, न तु हल्? इति नासौ लुप्यते। संयोगान्तलोपेनैव सिद्धम् इति। राजेत्यादिकमुदाहरणमिति शेषः। कथं पुनर्न सिध्यति? इत्यत आह -राजा, तक्षा इत्यादि। यथा पचन्नित्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति; तथा राजा, तक्षेत्यादावपि न स्यात्। संयोगान्तलोपासिद्धत्वं चात्र पारम्पर्येण हेतुः। तस्मिन्? सति हि सौ परतः पूर्वस्य पदसंज्ञा न भवति; असर्वनामस्थाने (1.4.17) इति प्रतिषेधात्। तस्यां चासत्यां पदस्येत्युच्यमानो नलोपो न स्यात्, नलोपे चासति राजेत्यादिकं रूपं न सिध्येत्। दत्वम् इति। न स्यादिति प्रकृतेन सम्बन्धनीयम्। दत्वमपि हि संयोगान्तलोपस्यासिद्धत्वादसत्यां पदसंज्ञायां न स्यात्। अथ वा -संयोगान्तलोपोऽत्र न प्रवर्तत एव, तस्य स्कोःसंयोगाद्योरन्ते च (8.2.29) इति संयोगादिलोपोऽपवादभूत इति स एव स्यात्, यथा -काष्ठं तक्ष्णोतीति काष्ठतङित्यत्र। तस्मश्च सति विभक्तिसकारस्य रुत्वविसर्गौ स्यातामिति कुतो दत्त्वम्! उत्त्वम् इति। न स्यादित्यपेक्षते, एतदपि संयोगान्तलोपस्यासिद्धत्वात्। अलब्धपदव्यपदेशस्य न स्यात्। रात्सस्य (8.2.24) इति नियमात् इति। संयोगान्तस्य लोपः (8.2.23) इत्यनेनैव सिद्धेः। रात्सस्य (8.2.24) इति नियमात् इति। संयोगान्तस्य लोपः (8.2.23) इत्यनेनैव सिद्धेः। रात्सस्य (8.2.24) इति नियमार्थमिदम् -रात्सस्यैव लोपो यथा स्यात्, नान्यस्येति। ततश्चाबिभर्भवानित्यत्र तकारस्य लोप एव न स्यात्। तस्मात्? संयोगान्तलोपेन न सिध्यतीति हलन्ताल्लोप उच्यते। अस्यैवार्थस्य सुखोपग्रहणार्थं संयोगान्तस्यलोपे हि इत्यादि। सङ्ग्रहश्लोकस्योपन्यासः। हिशब्दो हेतौ। यस्मात्? संयोगान्तलोप आश्रीयमाणे नलोपादिकं कार्यं न सिध्यतीति। किञ्च -ते=तव, भवतः संयोगान्तलोपवादिनः रात्तु रेफात्तु परस्य तकारस्याबिभर्भवानजगर्भवानित्यत्र नैव लोपः स्यात्। तस्माद्वलन्तात्? सुतिसीनां लोपो विधीयते॥
Praudhamanorama¶
लुप्यत इति। यद्यपीह ‘लोपो व्योः’ इत्यतो लोप इत्यनुवर्तते। तच्च तत्र भावसाधनं तथाऽपीह कर्मसाधनं हलिति प्रथमान्तेन सामानाधिकरण्यादिति भावः। दीर्घग्रहणं किम्? अतिखट्वः, निष्कौशाम्बिः। ननु इह समस्तस्य ङ्याबन्तत्वं नास्ति। न च ‘स्त्रीप्रत्यये तदादिनियमो नास्ति’ इति वाच्यम्। अनुपसर्जने हि तथा। इह तूपसर्जनत्वात् तदादिनियमोऽस्त्येव। सत्यम्। तथाऽपि उत्तरपदस्य ङ्याबन्तत्वेन सोस्ततः परत्वानपायात्। न हीदं विहितविशेषणमित्यवोचाम। अत एव ‘बहुश्रेयसी’ इत्यत्र सुलोपः। स्यादेतत्। गङ्गीयतेः क्विप्। गङ्गीः। इहेकारस्य स्थानिवद्भावेनाप्त्वाद्दीर्घत्वाच्चातिव्याप्तिरिति चेत्? सत्यम्, ङी ई, आ आप् इति प्रश्लिष्य दीर्घग्रहणस्य प्रत्याख्यानान्न कश्चिद्दोषः। सुतिसीति किम्? भेत्ता। तासेस्तकारस्य लोपो मा भूत्। न चैवमपि ‘अभैत्सीत्’ इत्यादौ सिचो लोपापत्तिः। सुतिभ्यां साहचर्येण विभक्तेरेव ग्रहणात्। अपृक्तं किम्? भिनत्ति, छनत्तीति प्रत्युदाहरन्ति। तच्चिन्त्यम्, विशिष्टस्याहल्त्वात्। सुतिसीनां हलिति क्लिष्टं व्याख्यायातिप्रसङ्गापादनस्यानुचितत्वात्। यदप्याहुः—सुरां सुनोतीति सुरासुत्, तमाचष्टे सुरासयति, ततः क्विप्, सुराः, सुरासौ, सुरासः। इह सुनोतेरवयवस्य सस्य लोपं व्यावर्तयितुं अपृक्तग्रहणमिति। तदपि न, परस्परसाहचर्येण सुतिसीनां विभक्तीनामेव ग्रहणात्। अन्यथा सिचो लोपापत्तेरुक्तत्वात्। प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणाच्च। हल् किम्? बिभेद। ननु प्रथमहल्ग्रहणं व्यर्थम्। हलन्तात्परेषां संयोगान्तलोपसम्भवात्। अत्राहुः— संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति। रात्तु तेर्नैव लोपः स्याद्धलस्तस्माद्विधीयते॥ तथा हि, सखेत्यत्र नलोपो न स्यात्, संयोगान्तलोपस्यासिद्धत्वात्। स्यादेतत्। संयेगान्तलोपो नासिध्दः ‘न ङिसम्बुध्योः’ इति सूत्रे सम्बुध्दिग्रहणाज्ज्ञापकात्। न चैवं गोमानित्यदावपि नलोपापत्तिः। ज्ञापकस्य विशेषविषयत्वात् ‘यत्र हि नकारविभक्त्योरानन्तर्यन्तत्रैव सिद्धत्वम्’, व्याख्यानात्। यत्त्वाहुः— हे ब्रह्मन्निति नपुंसकार्थत्वाद् नैतज्ज्ञापकमिति। तन्न, लुका लुप्ते प्रत्ययलक्षणाभावेन ‘संबुद्धौ वा नपुंसकानाम्—’ इत्यस्यावश्यकतया च सम्बुध्दिग्रहणस्य नपुंसकविषयत्वासम्भवेनोक्तज्ञापकस्य सुस्थत्वात्। तस्मान्नलोपो न प्रयोजनमिति चेत्? इह तर्हि अभिनोऽत्रेत्यत्र रोरुत्वं न स्यात्। तदिदमुक्तं नलोपादिरिति। तथा ‘अबिभर्भवान्’ इत्यत्र तिलोपो न स्यात् ‘रात्सस्य’ इति नियमात्। अत्रेदमवधेयम्। ङ्याब्ग्रहणं सोरेव विशेषणं न तु तिस्योः, व्याख्यानात्। अस्मिन्नेव सूत्रे ‘द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं न कर्तव्यं भवति’ इति भाष्यं चेह प्रमाणम्। यदि हि ङ्याब्ग्रहणं तिस्योरपि विशेषणं तर्हि कथं तिस्योर्ग्रहणस्याकर्तव्यतां ब्रूयात्। यत्तु ङ्याब्भ्यां तिस्योरसम्भव एवेति। तत्र ङ्यन्तादसम्भव इति सत्यम्। आबन्तात्तु आचारक्विबन्ताल्लङः तिप्सिपौ स्त एव। अगङ्गात्, अगङ्गाः इति यथा। न च शपा व्यवधानम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणात्। न च स्थानिवद्भावः, अपूर्वविधित्वात्। अत्रायं निष्कर्षः। ङ्यापः सोरित्येव सूत्रमुचितम्। न च सुराः सुरासौ इत्यादौ धातोः सकारेऽतिप्रसङ्गः। ङ्याब्भ्यां साहचर्यात्, ‘प्रत्ययाप्रत्यययोः’ इति परिभाषाया च प्रत्ययस्यैव सोर्ग्रहणात्। राजेत्यादौ नलोपस्तु ‘न ङिसम्बुद्ध्योः’ इति ज्ञापकेन साधित एव। किं चाभिनोऽत्रेति उत्वमपि सूपपादम्। ‘संयोगान्तलोपो रोरुत्वे’ इति सिद्धकाण्डे पाठात्। हरिवो मेदिनं त्वेति यथा। अबिभर्भवान् इत्यत्रापि न दोषः। ‘रात्सस्य’ इत्यत्र तकारस्यापि प्रश्लेषेण त्सस्येति च्छेदात्। ननु उखास्रदित्यादौ संयोगादिलोपः स्यादिति चेत्? न, दत्वे कृते तदप्राप्तेः। असिध्दं दत्वमिति चेत्? न, सिद्धकाण्डे ‘वस्वादिषु दत्वम्’ इति पाठात्। नन्वपदान्तत्वाद् दत्वं न स्यादिति चेत्? न। सावपि पदं भवतीति पक्षाश्रयणात्। तद्बीजन्तु ‘असर्वनामस्थाने यचि’ इति च्छित्वा यजादौ सर्वनामस्थाने पदं नेति व्याख्यानम्। न चैवं राजेत्यादौ नलोपे कृते सो रुत्वविसर्गौ स्यातामिति वाच्यम्। ‘इतोऽत् सर्वनामस्थाने’ इति सिद्धे ‘पथिमथि’ इत्याकारविधानेन प्रथमं सुलोपस्य ज्ञापनात्। ननु नैतज्ज्ञापकं, संबुद्धौ चरितार्थत्वात्। हे पन्थाः, मन्थाः, ऋभुक्षाः। तत्र हि दीर्घः ‘असंबुद्धौ’ इति पर्युदस्तः, नलोपश्च निषिद्ध इति चेत्? एवं तर्हि नलोपात् प्राक् संयोगान्तलोप इत्यर्थे ‘न ङिसंबुद्ध्योः’ इति सूत्रमेव ज्ञापकमस्तु। तथा हि—‘ङिसंबुध्योः’ इति षष्ठी न तु सप्तमी, ङेर्लुका लुप्ततया प्रत्ययलक्षणाभावात्, ङ्यन्तस्य च प्रातिपदिकस्येति सामानाधिकरण्येनान्वयः। न च प्रथमं संयोगान्तलोपं विना सम्बुद्ध्यन्तप्रातिपदिकं लभ्यते । तस्मान्ङ्यापः सोरिति न्यासे न किञ्चिद् बाधकम्। यदि तु ‘वस्वादिषु दत्वम्’ इति वार्तिकं प्रत्याख्यायते। अधातुग्रहणेनैवोखास्रदित्यादौ दीर्घाभावसिध्देः। तर्हि हल्ङ्यापः सोरिति सूत्रमस्तु। यत्तु यथाश्रुतं सूत्रं प्राचा व्यख्यातम्— ङ्यन्तादाबन्ताद् दीर्घाच्चेति। तन्न, ङ्यापौ हि दीर्घौ, न तदन्तमपि। न च दीर्घाद् ङ्यन्तादित्यादेर्दीर्घो यो ङी तदन्तादित्यादिरर्थो लभ्यते। दीर्घात् इति पञ्चम्या अनन्वयात्। समासे उपसर्जनयोर्ङ्यापोर्विशेषणायोगात्। उक्तं हि भाष्ये—‘सविशेषणानां वृत्तिर्न’ ‘वृत्तस्य च विशेषणयोगो न’ इति। एतेन अनदीसंज्ञं ह्रस्वम् इउवर्णान्तमित्यपि प्राचो वृत्तिः प्रत्युक्ता।
Prakriyasarvasvam¶
हलन्ताद् दीर्घरूपङ्याबन्ताच्च परं सु ति सि इत्येतदपृक्तं हल्लुप्यते । इति सुलोपः । प्रातिपदिकान्तत्वान्नलोपः । सखा । सखि औ ॥
Sutra Prayogas¶
वितन्त्रीरिव (कुमारसम्भवम्): हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इति सुलोपः न।
प्रत्यहन् (शिशुपालवधम्): हल्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इति तिपो हलो लोपः।