Sutras 161 - 176¶
- 33161: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
- 33162: लोट् च
- 33163: प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च
- 33164: लिङ् चोर्ध्वमौहूर्तिके
- 33165: स्मे लोट्
- 33166: अधीष्टे च
- 33167: कालसमयवेलासु तुमुन्
- 33168: लिङ् यदि
- 33169: अर्हे कृत्यतृचश्च
- 33170: आवश्यकाधमर्ण्ययोर्णिनिः
- 33171: कृत्याश्च
- 33172: शकि लिङ् च
- 33173: आशिषि लिङ्लोटौ
- 33174: क्तिच्क्तौ च संज्ञायाम्
- 33175: माङि लुङ्
- 33176: स्मोत्तरे लङ् च