33171: कृत्याश्च

Padacheda: कृत्याः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affixes called कृत्य also come after a root when the sense to be indicated is that of ‘necessity’ or ‘obligation’.

Vasu English Translation

The affixes called कृत्य also come after a root when the sense to be indicated is that of ‘necessity’ or ‘obligation’. Thus भवता खलु अवश्यं कटः कर्त्तव्यः, करणीयः, कार्यः or कृत्यः ‘you ought to make the mat’; भवता शतं दातव्यं, देयं, &c, ‘you ought to pay a hundred’.

Q.– Where is the necessity of this aphorism ? The kritya affixes, being enjoined universally without any limitation would, of course, come under these special circumstances also.

A.– They would be excluded by the special affix णिनि of the last sutra, which comes especially with the force of ‘necessity’ and ‘obligation’.

Q.– Not so, for णिनि comes in denoting the ‘agent’ (कर्ता), while kritya denotes the ‘action’ (भाव) and the ‘object’ (कर्म); so their scope being different, how can one supersede the other ?

A.– Well, to remove this objection, some say, that kritya words like भव्य, गेय &c. (3.4.68) which especially refer to the agent, are the proper examples to be given under this aphorism; and not examples of kritya-formed words in general.

Kashika

आवश्यकाधमर्ण्ययोरिति वर्तते। कृत्यसंज्ञकाश्च प्रत्यया आवश्यकाधमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति। भवता खल्ववश्यं कटः कर्तव्यः। अवश्यं करणीयः। अवश्यं कार्यः। अवश्यं कृत्यः। आधमर्ण्ये — भवता शतं दातव्यम्। सहस्रं देयम्। किमर्थमिदम्, यावता सामान्येन विहिता अस्मिन्नपि विषये भविष्यन्ति? विशेषविहितेन णिनिना बाध्येरन्। कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः? तत्र केचिदाहुः — भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इहोदाहरणमिति॥

Siddhanta Kaumudi

आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥

Padamanjari

भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उतराथेः ॥

Nyaas

किमर्थम्ित्यादि चोद्यम्। `विशेषविहितेन`इति परीहारः।`कर्तरि`इत्यादिना परीहारविघटनञ्च। `केचित्ित्यादिना परकीयमतेन परोहारसमर्थनम्। `भव्यगेयम्िति। `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते (शा।प।85) इति भव्यगेयादयः शब्दा अवयवभूतेषु कृत्येष्विह वर्तन्ते। `कर्त्तृवाचिनः`इति। भव्यगेयादिसूत्रेणैषां पक्षे कर्तरि निपातनात्। योगविभाग उत्तरार्थः॥

Prakriyasarvasvam

णिनिः कृत्याश्च तयोरर्थयोरेव स्युः । आवश्यके—वेदोऽध्येतव्यः । ऋणवत्त्व- माधमर्ण्यम् । शतं दातव्यमनेन । <karika>योग्याद्यर्थं विना कृत्याः कर्ममात्रेऽपि सन्त्यमी । ज्ञानेन मृज्यमानं हि ज्ञानमृज्यं मुनेर्मनः ॥ ५३ ॥</karika> इति ।

Sutra Prayogas

  • वध्यो (भट्टिकाव्यम्): कृत्याश्च इति वचनात् लङ्।

  • द्रष्टुं (भट्टिकाव्यम्): आवश्यके कृत्याश्च इति द्रष्टुं प्रतिष्ठस्व गच्छ।