33176: स्मोत्तरे लङ् च¶
Padacheda: स्मोत्तरे | S | 7 | 1 |
लङ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘स्म’ यस्मात् परः अस्ति तादृशस्य माङ् अव्ययस्य विषये लुङ्लकारस्य लङ्लकारस्य वा प्रयोगः भवति ।
‘स्म’ तथा ‘माङ्’ एते द्वे अव्यये स्तः । माङ्-अव्ययस्य प्रयोगः निषेधार्थम् भवति, तथा ‘स्म’ इत्यस्य प्रयोगः ‘किल / खलु / सत्यम् / निश्चयेन’ अस्मिन् अर्थे भवति । माङ्-अव्ययस्य उपस्थितौ धातोः माङि लुङ् (3.3.175) इत्यनेन केवलं लुङ्-लकारः एव विधीयते । परन्तु, अस्मात् माङ्-अव्ययात् अनन्तरम् ‘स्म’ अव्ययमस्ति चेत् लङ्लकारस्यापि प्रयोगः भवितुमर्हति । यथा - मा स्म गमः / मा स्म गच्छः । मा स्म कार्षीत् / मा स्म करोत् । ज्ञातव्यम् - न माङ्योगे (6.4.74) इत्यनेन माङ्-अव्यवस्य उपस्थितौ धातोः अडागमः / आडागमः न विधीयते ।
Sutrartha (English)¶
When माङ् is followed by स्म, the verb लुङ्लकार or लङ्लकार is used.
Vasu English Summary¶
When the word मान is followed by स्म the affix लङ् (Imperfect Tense) as well as लुङ् (Aorist) may be used after a verbal root.
Vasu English Translation¶
When the word मान is followed by स्म the affix लङ् (Imperfect Tense) as well as लुङ् (Aorist) may be used after a verbal root. By च we introduce लुङ् into the aphorism. Thus मास्म करोत् or कार्षीत् ‘let him not make’; मास्म हरत् or हार्षीत् ‘let him not take’.
Kashika¶
स्मशब्दोत्तरे माङ्युपपदे धातोर्लङ् प्रत्ययो भवति, चकाराल्लुङ् च। मा स्म करोत्। मा स्म कार्षीत्। मा स्म हरत्। मा स्म हार्षीत्॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः॥
Siddhanta Kaumudi¶
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥
Laghu Siddhanta Kaumudi¶
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥
Balamanorama¶
स्मोत्तरे लङ् च - स्मोत्तरे लङ् च । चकारान्माङि लुङित्यनुकृष्यते ।स्मे त्यव्ययमुत्तरं यस्मादिति विग्रहः । तदाह -स्मोत्तरे माङिति । अयमपि सर्वलकारापवादः ।
Nyaas¶
स्मशब्द उत्तरमधिकं यस्य माङः स तथोक्तः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्यतृतीयः पादः
Prakriyasarvasvam¶
स्मशब्दयुक्ते माङि लुङ् लङ् च स्यात् । लस्तिप् । भू ति । इलोपः । भू त् ।
Sutra Prayogas¶
वधीत् (किरातार्जुनीयम्): स्मोत्तरे लङ् च इति लुङ्।
भवत् (किरातार्जुनीयम्): स्मोत्तरे लङ् च इति लङ्।
मा स्म भज्यथाः (शिशुपालवधम्): मोत्तरे लङ् च इति लङ्।
मा स्म भैषीस्त्वयाऽद्यैव (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति चकारात् लुङ् ।
मा स्म (भट्टिकाव्यम्): स्मोत्तरे लड् च इति चकारात् लुङ्।
मा स्म (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति चकाराल्लुङ् ।
मा स्म क्रंस्था (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति चकाराल्लुङ् ।
निगृह्णाः (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति वर्तमाने लङ्।
प्ररुदितं (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति लङ्।
तिष्ठत (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति लङ्।
व्यतिक्रामो (भट्टिकाव्यम्): स्मोत्तरे लङ् च इति लङ्।