33163: प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च

Padacheda: प्रैष-अतिसर्ग-प्राप्तकालेषु | S | 7 | 3 |

कृत्याः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affixes called कृत्य and the affix लोट् (Imperative) come also after verbs, in the sense of direction, granting permission and proper (particular) time.

Vasu English Translation

The affixes called कृत्य and the affix लोट् (Imperative) come also after verbs, in the sense of direction, granting permission and proper (particular) time. The word प्रैष means ‘direction’; अतिसर्गः means ‘permission to do as one likes’; प्राप्तकालः means ‘arrival of appropriate occasion or time for the doing of an action’. The force of च is to introduce the word लोट् into this aphorism. Thus भवता कटः करणीयः, कर्तव्यः, or कृत्यः or कार्यः ‘you must, (may, or it is proper time for you to) make the mat’.

So instead of the Passive Potential Participles, for such the Kritya affix (3.1.95) &c)) may properly be called; we may have the Imperative also. Thus करोतु कटं ‘you must (may or it is the appropriate time to) make the mat’.

It might be asked ‘Why the kritya affixes are enjoined to come with the force of direction, permission &c’. They have been ordained most generically to come in denoting action in the Abstract (भाव) and object (कर्म) and a fortiori they will come in denoting the senses of direction, permission & c; for the latter are but a species of action. If you say that लोट् being ordained in these special senses, will (on the principle, that an apavada or special rule excludes an utsarga or general rule within the jurisdiction of such special rule) exclude kritya affixes; we would reply, that kritya affixes will not be excluded, for the rule of non-uniform affixes (3.1.94) will apply’.

To this objection we answer ‘the special mention of the word kritya in this sutra, indicates the existence of the following maxim :–

‘The rule of non-uniform affixes (3.1.94) does not necessarily apply in all cases after sutra (3.3.94) treating of primary affixes by which feminine nouns are formed’.

Q.– What is the difference between the words विधि and प्रैष ? Some say विधि means a precept enjoining something for the first time; while प्रैष means mere ‘direction’.

Bhashya

प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च (1148) (588 कृत्यलिङ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 2 आ.18 ) (आक्षेपभाष्यम्) किमर्थं प्रैषादिष्वर्थेषु कृत्या विधीयन्ते, न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति, अन्यत्र च॥ (5020 वार्तिकम्॥ 1 ॥) - प्रैषादिषु कृत्यानां वचनं नियमार्थम्- (भाष्यम्) प्रैषादिषु कृत्यानां वचनं क्रियेत॥ किं प्रयोजनम्? नियमार्थम्। नियमार्थोयमारम्भः। प्रैषादिष्वेव कृत्या यथा स्युरिति॥ (5021 वार्तिकम्॥ 2 ॥) - प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम्- (भाष्यम्) प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टं प्राप्नोति। न हि प्रैषादिष्वर्थेष्वेव कृत्या इष्यन्ते। किं तर्हि? अविशेषेण। बुसोपेन्ध्यं तृणोपेन्ध्यम्। घनघात्यम्॥ (5022 वार्तिकम्॥ 3 ॥) - विध्यर्थं तु स्त्रियाः प्रागिति वचनात्- (भाष्यम्) विध्यर्थे तु प्रैषादिषु कृत्यानां वचनम्। अयं प्रैषादिष्वर्थेषु लङि्वधीयते स विशेषविहितः सामान्यविहितान् कृत्यान्बाधेत्॥ (कृत्यसाधकभाष्यम्) वासरूपेण कृत्या अपि भविष्यन्ति॥ (कृत्यबाधकभाष्यम्) न स्युः। किं कारणम्? स्त्रियाः प्रागिति वचनात्। प्राक् स्त्रियां वाऽसरूपः॥ प्रैषातिसर्ग॥ 163 ॥

Kashika

प्रेषणं प्रैषः। कामचाराभ्यनुज्ञानमतिसर्गः। निमित्तभूतस्य कालस्यावसरः प्राप्तकालता। एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्यया भवन्ति, चकाराल्लोट् च। भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः। लोट् खल्वपि — करोतु कटं भवानिह प्रेषितः, भवानति — सृष्टः, भवतः प्राप्तकालः कटकरणे। किमर्थं प्रैषादिषु कृत्या विधीयन्ते, न सामान्येन भावकर्मणोर्विहिता एव, ते प्रैषादिष्वन्यत्र च भविष्यन्ति? विशेषविहितेनानेन लोटा बाध्यन्ते। वासरूपविधिना भविष्यन्ति? एवं तर्हि ज्ञापयति — स्त्र्यधिकारात् परेण वासरूपविधिर्नावश्यं भवतीति। विधिप्रैषयोः को विशेषः? केचिदाहुः — अज्ञातज्ञापनं विधिः, प्रेषणं प्रैष इति॥

Siddhanta Kaumudi

प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥

Balamanorama

प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च - प्रैषातिसर्ग ।लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः । प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति — भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोटमुदाहरति — भवान्यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया चलोट् चे॑त्यनेनैव सिद्धेरित्यत आह — वकारेणेति । प्राप्तकाले यथा — गुरुणा भोक्तव्यम् । गुरुर्भुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः ।प्राप्तकाले च कृत्याश्चे॑त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अतः प्रैषादिग्रहणम् ।

Tattvabodhini

प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च - प्रैषतिसर्ग । प्रैषो विधिरिति । विधिग्रहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः । लोटोऽनुकर्षणमिति ।लोट् चे॑ति योगस्येदमेव प्रयोजनम् । एकयोगत्वे तु लिङोऽप्यनुकर्षणं स्यात् । प्राप्तकालार्थमिति । प्रैषतिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः ।

Padamanjari

कृत्य इति ।’विभाषा कृवृषोः’ इति क्यप् । भवान् हि प्रेषित इत्यादिर्वाक्यशेषः सर्वेष्वेवोदाहरणेषु योज्यः । न सामान्येनेति । भावकर्मणोरित्युपलक्षणम्; भव्यगेयादीनां कर्तर्यपि भावात् । एवं तर्ह्येतज्ज्ञापयतीति ।’प्रैषादिष्वेव कृत्या भवन्ति नान्यत्र’ इति नियमार्थं चैतन्न भवति, अनिष्टत्वात् । अन्यत्रापिकृत्यादृश्यन्ते - तृणेनशोष्यम्, बुधेन बोध्यमिति, अग्निस्तोकं तृणेन दीपनीय इति । वस्तुस्वरूपकथनमेतत्, न त्वत्र प्रैषादिप्रतीतिः । अधिकारात्परेणेति । एनपा योगे पञ्चमी मृग्या । नावश्यमिति । क्वचिद्भवति, क्वचिन्नेत्यर्थः । को विशेष इति । विधिः प्रेरणमिति पूर्वत्र व्याख्यातत्वात् नास्त्येव भेद इति प्रश्नः । यद्यविशेषः, कथं द्वन्द्वनिर्देश इति चेत् ? शब्दरूपस्याभिधेयत्वात् ।’को विशेषः’ इति कोऽनयोः शब्दयोविशेषोऽभिधेय इत्यर्थः । केचिदिति । एवमामन्त्रणातिसर्गयोरपि विशेषो ज्ञेयः । केचिदिति वचनादपरेऽनयोर्विसेषं नेच्छन्तीत्युक्तं भवति । तेषामपि प्रैषातिसर्गग्रहणं कर्तव्यमेव, तत्रैव कृत्या यथा स्युरिति ।’प्राप्तकाले च’ इति ह्युक्ते निमन्त्रणादावपि कृत्याः स्युः । चकारेण लोडप्यनुकर्षणीयः - प्राप्तकाले यथा स्यादिति ॥

Nyaas

कार्यः इति। ऋहलोण्र्यत् (3.1.124) इति ण्यत्। कृत्यः इति। विभाषा कृवृषोः (3.1.120) इति क्यप्।किमर्थमिदम् इत्यादि द्वेष्यम्। विशेषविहित इत्यादि परीहारः। कृत्या हि सामान्येन विहिताः। लोट् तु प्रैषादिनार्थविशेषेण। अतस्तेन विशेषविहितेन कृत्याः प्रैषादिविषये बाध्येरन्निति पुनर्विधीयते। वासरूप`इत्यादीना परीहारं विघटयति। `एवं तर्हि इत्यादिना प्रेषादिषु कृत्यविधानस्य ज्ञापकत्वं दर्शयति। ननु चाऽसति प्रयोजने ज्ञापकं भवति, इह चास्ति प्रयोजनम्, किं तत्? प्रैषादि येन नियमेन कृत्या भवन्ति, नान्यत्रेति? नैतत्; अनिष्टत्वात्। अन्यत्रापि हि कृत्या दृश्यन्ते - तृणेन शोष्यम्, बुधेन बोध्यमिति। तच्च नियमे सति न सिध्येत्, न ह्यत्र प्रैषादयो गम्यन्ते। तस्मान्नेह नियमोऽभीष्टः, न चानिर्दिष्टार्था प्रकॢप्तिः शास्त्रे युक्ता (भो।प।सू।107)। ततो युक्तं ज्ञापकमेव;कृत्यविधानस्यावश्यम्भावात्। अवश्यंग्रहणेन न क्वचिदपि भवतीति दर्शयति। एतच्च स्त्रधिकारात् परेणापि वासरूपविधिः क्वचित् स्वरितत्वप्रतिज्ञानाल्लभ्यते। तेन कालादिषूपपदेषु वासरूपविधिना ल्युडपि भवति - कालो भोजनस्येति। यदि तु सर्वथा वासरूपविधिर्न स्यात् तदा कालसमयवेलासु तुमुन् (3.3.167) इति तुमुन्नेव नित्यं स्यात्। `केचिदाहुःर`इति वचनादपरे त्वेतयोर्विशेषं नेच्छन्तीत्युक्तं भवति॥

Prakriyasarvasvam

लोट् च कृत्याश्च प्रैषाद्यर्थेषु स्युः । <karika>ज्ञातस्य स्मारणं प्रैषः कार्यं पूर्वोदितं त्वया । इष्टानुज्ञातिसर्गः स्यात् कर्तव्यं भवतैव तत् ॥ ५१ ॥ कालाख्यानं प्राप्तकाल उत्थातव्यं सखे ! त्वया । मीमांसकैर्विधौ चोक्तं लक्ष्यस्त्वावश्यकादसौ ॥ ५२ ॥</karika> विध्यादिषु लिङ् लोट् चोक्तः । प्रैषादिषु लोट्, न लिङ् । तत्र क्रमादुदाहृतिः- <karika> कुर्यादिन्द्रमखं तदर्थमखिला यस्यन्तु शक्रार्चना- मस्यन्त्वत्र पिता विमुञ्चतु मति कुर्यां न कुर्यामिति । विप्रानप्यनुगृह्यतामिति धिया पूज्यान्निहारान्ध्रुत स्वच्छन्दं कुरुतोत्सवान् गिरितटे गव्यादि सम्पाद्यताम् । ७८४ ॥ </karika> विधिराज्ञापनम् । तत्र कुर्यादिन्द्रमखमिति । निमन्त्रणमाज्ञा । तत्र - तदर्थमखिला यस्यन्त्विति । भयादिशङ्कानिवारणेन प्रेरणमामन्त्रणम् । तत्र - शक्रार्चनामस्यन्त्विति । सबहुमानं प्रवर्तना अधीष्टम् । तत्र - पिता विमुञ्चत्विति । सम्प्रश्नो विचारः । तत्र कुर्यां न कुर्यामिति । प्रार्थनायाम् – अनुगृह्यतामिति । ज्ञानस्य स्मरणेन प्रवर्तनं प्रैषः । तत्र – पूज्यानिहाराधनुतेति । स्वानुवादबोधनेन प्रेरणमतिसर्गः । तत्र — स्वच्छन्दं कुरुतोत्सवानिति । प्राप्तकाले — गिरितटे गव्यादि सम्पाद्यतामिति ।

Sutra Prayogas

  • जहातु (किरातार्जुनीयम्): प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च इति प्राप्तकाले लोट्।

  • भव (भट्टिकाव्यम्): प्रैपातिसर्गप्राप्तकालेषु कृत्याश्च इति और्ध्वमौहूर्तिक इति च वर्तते।