33168: लिङ् यदि

Padacheda: लिङ् | S | 1 | 1 |

यदि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix लिङ् (Benedictive) comes after a root when the word यद् is in composition and the words 1. काल 2. समय 3. वेला occur in construction.

Vasu English Translation

The affix लिङ् (Benedictive) comes after a root when the word यद् is in composition and the words 1. काल 2. समय 3. वेला occur in construction. This ordains the Potential and supersedes the Infinitive in ‘tumun’. Thus कालः, समयः, वेला वा यद् भवान् भुञ्जीत ‘it is time that your honor should take your meals’.

Kashika

कालादयोऽनुवर्तन्ते। यच्छब्द उपपदे कालादिषु धातोर्लिङ् प्रत्ययो भवति । तुमुनोऽपवादः। कालो यद् भुञ्जीत भवान्। समयो यद् भुञ्जीत भवान्। वेला यद् भुञ्जीत भवान्॥

Siddhanta Kaumudi

यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥

Tattvabodhini

लिङ् यदि। कालसमयवेलासु चेति। `उपपदेष्वि`ति वचनविपरिणामेन संबध्यते। तुमुनोऽपवादः। यद्भुञ्जीतेति। यत्कालः पचतीत्यत्र तु न , प्रेषादीनामनुवृत्तेः।

Padamanjari

तुमुनोऽपवाद इति । कर्तृकर्मणोः सावकाशोऽपि लिङ् प्रतिपदविधेर्बलीयस्त्वात्परत्वाच्च भावे तुमुनो बाधक इत्यर्थः ॥

Nyaas

` तुमुनोऽपवादः`इति। पूर्वसूत्रेण प्राप्तस्य॥

Prakriyasarvasvam

यच्छब्दयोगे कालसमयवेलासुपपदेषु लिङ् स्यात् । तुमुनोऽपवादः । कालो यद् भुञ्जीत भवान् इत्यादि । ‘अर्हे कृत्यतृचश्च’ (३-३-१६९) इति योग्यार्थे लिङ् । भवान् कन्यां वहेत् । ‘शकि लिङ् च’ (३-३-१७२) इति शक्यार्थे लिङ् । अयं भारं वहेत् । लोडप्यत्रेति कौमुदी । सिन्धुमपि शेषयाणि ।