33174: क्तिच्क्तौ च संज्ञायाम्

Padacheda: क्तिच्-क्तौ | S | 1 | 2 |

च | S | 0 | 0 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affixes क्तिच् and क्त are used after a root when benediction is intended, provided that the whole word so formed is an appellative.

Vasu English Translation

The affixes क्तिच् and क्त are used after a root when benediction is intended, provided that the whole word so formed is an appellative. The affixes therefore, ‘give the sense of the agent, with the addition that the action is simply the object of a prayer of some one who wishes that that may be the action of that agent, the sense being simply appellative’. Thus तन्तिः = तनुतात् ‘a weaver’ (lit. may he weave); सातिः or सतिः = सनुतात् (6.4.45) ‘wealth or gift’; भूतिः = भवतात् ‘success’; मन्मिः = मनुतात् ‘respect’. These are examples of words formed by the affix क्तिच् । Of words formed by क्त in this sense, we have देवदत्तः = देवा एनं देयासुः Devadatta (lit. may the Gods give him). Though the affix क्त has already once been generally ordained, its repetition here is to prevent its being superseded by क्तिच् । The च् of क्तिच् is qualifying only, distinguishing it from क्तिन् &c. and is useful in sutra (6.4.39).

Kashika

आशिषीत्येव। आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत् संज्ञा गम्यते। तनुतात् तन्तिः। सनुतात् सातिः। भवतात् भूतिः। क्तः खल्वपि — देवा एनं देयासुर्देवदत्तः। सामान्येन विहितः क्तः पुनरु च्यते, क्तिचा बाधा मा भूदिति। चकारो विशेषणार्थः न क्तिचि दीर्घश्च (६.४.३९) इति॥

Siddhanta Kaumudi

धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-(SK3163) इति नेट् । भवतात् । भूतिः ॥

Tattvabodhini

क्तिच्क्तौ च संज्ञायाम् - क्तिच्क्तौ । क्तिचश्चकारोन क्तिची॑ति विशेषणार्थः ।न क्त्वा॑ वित्युक्ते हि क्तिनोऽपि ग्रहणं स्यादिति भावः । तत्र एकानुबन्धपरिभाषयैव क्तिनो व्यावृत्तिसिद्धेरिति हरदत्तः । यत्तु वदन्ति — ॒तितुत्रे॑त्यत्र सामान्यग्रहणार्थश्चकारः । अन्यथा एकानुबन्धत्वादस्यैव ग्रहणं स्यान्न तु क्तिन इति, तद्रभसात्,तितुत्रे॑ति सूत्रेऽनुबन्धविशिष्टरूपानुच्चारणेनैकानुबन्धपरिभाषाया उक्तिसंभवस्यैवाऽभावात् । #एतेनतितुत्रे॑ति सूत्रे एकानुबन्धत्वात्तिबेव गृह्रते न त्वयं क्तिच् । ततश्च रोदतीति रूपं न स्यादिति शङ्काप्यपास्ता । भूतिरिति । यद्यपीह परत्वात्श्र्युकः किति॑ इत्येवेण्निषेधोन्याय्यस्तथापि वन्तितन्त्योरिण्निषेधार्थमावश्यकत्वात्फले विशेषाऽभावाच्चतितुत्रे॑त्युपन्यस्तम् ।

Padamanjari

तन्तिरिति । ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपः प्रापनोति, ठनुनासिकस्य क्विझलोः क्ङितिऽ इति दीर्घत्वं च, तदुभयमपि न भवति;’न क्तिचि दीर्घश्च’ इति प्रतिषेधात् । सातिरिति । सनः क्तिचि’लोपश्चास्यान्यतरस्याम्’ इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः;’न क्तिचि दीर्घश्च’ इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृतेः सिद्धत्वात् ॥

Nyaas

समुदायेन`इति। प्रकृतिप्रत्ययसमुदायेन। एतेन समुदायोपाधितां संज्ञाया दर्शयति। `तन्तिः`इति। `तनु विस्तारे`(धातुपाठः-1463), अत्र **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति दीर्घः प्राप्नोति, `अनुदात्तोपदेश (6.4.37) इत्यादिनानुसिकलोपश्च; तदुभयं न क्तिचि दीर्घश्च (6.4.39) इति निषिध्यते। सातिः`इति। `षणु दाने`(धातुपाठः-1464), **जनसनखनां सञ्झलोः** (6.4.42) इत्यात्त्वम्। `देवदत्तः`इति। डुदाञो निष्ठायाम् **दो दद् घोः** (7.4.46) इति ददादेशः, `खरि च (8.4.54) इति चर्त्वम्॥

Prakriyasarvasvam

नाम्न्याशिषि द्योत्यायां क्तिच्क्तौ च स्तः । देवोऽमुं देयादिति प्रार्थनया जातो देवदत्तः । भूयादित्याशास्यमाना भूतिः । रम् ति ॥

Sutra Prayogas

  • क्षितौ (भट्टिकाव्यम्): तौ च संज्ञायाम् इति क्तिच्।