33167: कालसमयवेलासु तुमुन्¶
Padacheda: काल-समय-वेलासु | S | 7 | 3 |
तुमुन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix तुमुन् comes after a root when the words 1. काल 2. समय 3. वेला (all meaning time) are in composition.
Vasu English Translation¶
The affix तुमुन् comes after a root when the words 1. काल 2. समय 3. वेला (all meaning time) are in composition. Thus कालो भोक्तुम् ‘time to eat’; समयः खलु स्नानभोजने सेवितुम् ‘it is time to bathe and take food’; वेला भोक्तुम् ‘time to eat’. In short, Infinitive in तुमुन् may be used with words meaning ‘time’; as अवसरोऽयमात्मानं प्रकाशयितुम् ‘this is, indeed, the time to show myself’.
Why do not we use the Infinitive here? कालः पचति भूतानि ‘time devours all creatures’. The sense of ‘direction &c’. is understood in the sutra; so when ‘direction &c’ is not meant, the Infinitive will not be used.
Why do not we use the Infinitive here, कालो भोजनस्य ‘proper time to eat’? Because, by the rule of non-uniform affixes (3.1.94), we can use also the affix ल्युट् (by which the word भोजन is formed). As we have already in sutra (3.3.163) that after sutras (2.1.11) and forward, namely, in other sutras than those treating of feminine affixes, the rule of (3.1.94) may be employed as an Anitya or a non-universal rule.
Bhashya¶
कालसमयवेलासु तुमुन् (1152) (589 तुमुन्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 2 आ.19) (5023 वार्तिकम्॥ 1 ॥) - प्रथमान्तेषु- (भाष्यम्) प्रथमान्तेष्विति वक्तव्यम्॥ किं प्रयोजनम्? इह मा भूत् - काले भुङ्क्ते॥ (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यम्। (समाधानभाष्यम्) न वक्तव्यम्। प्रैषादिष्विति वर्तते। तच्चावश्यं प्रैषादिग्रहणमनुर्वत्यम्। प्रथमान्तेष्विति ह्युच्यमाने इहापि प्रसज्येत कालः पचति भूतानि कालः संहरति प्रजाः इति॥ कालसमय॥ 167 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचते व्याकरणमहाभाष्ये तृतीयस्याध्यास्य तृतीये पदे द्वितीयमाह्निकम्। पादश्च तृतीयः समाप्तः॥
Kashika¶
कालादिषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति। कालो भोक्तुम्। समयो भोक्तुम्। वेला भोक्तुम्। इह कस्माद् न भवति — कालः पचति भूतानि (मै०उ० ६.१५) इति? प्रैषादिग्रहणमिहाभिसंबध्यते। इह कस्माद् न भवति — कालो भोजनस्य? वासरूपेण ल्युडपि भवति। उक्तमिदम् — स्त्र्यधिकारात् परत्र वासरूपविधिरनित्यः (३.३.१६३) इति॥
Siddhanta Kaumudi¶
पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥
Laghu Siddhanta Kaumudi¶
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥
Padamanjari¶
प्रैषादिग्रहणं सम्बद्ध्यते इति । न चेह प्रैषादयो गम्यन्त इति भावः । इह कस्मादिति । कालो भोजनस्येति । तस्माद्भुङ्क्तां भवानिति वाक्यार्थः, तेन गम्यतेऽत्र प्रैष इति प्रश्नः । वासरूपविधिनेति । ननु प्रैषादिषु कृत्यविधानात् स्त्र्यधिकारात्परेण वासरूपविधिरनास्तीति ज्ञापितम् ? तत्राह - उक्तमिति । अनित्यत्वमेव तत्र ज्ञापितं न सर्वथाभाव इत्यर्थः । पर्यायोपादानं पर्यायान्तरविवृत्यर्थम् । अन्ये त्वाहुः - अवसरो भोक्तुमित्यादावपि तुमुन् दृश्यते,’व्युपयोः शेतेः’ इत्यत्र राजानमुपशयितुं पर्याय इति प्रयुक्तोवृत्तिकारेण । तस्मादर्थग्रहणार्थं पर्यायोपादानम्, यथा -‘निमितकारणहेतुषु’ इत्यत्रेति ॥
Nyaas¶
प्रैषादिग्रहणमिह सम्बध्यते इति।न चेदिह प्रैषादयो गम्यन्ते, तेन तत्र न भवतीत्यभिप्रायः। कालो भोजनस्येत्युक्ते तस्याद् भङ्क्तां भवानिति प्रैषो गम्यते। ततश्च प्रैषादिग्रहणेऽनुवर्तमानेऽपीह प्राप्नोतीत्यभिप्रायेणाह -इह कस्मान्न भवति इत्यादि। स्यादेत् - प्रैषादि कृत्यविधानाज्ज्ञापकात् स्त्र्यधिकारात् परेणापि वासरूपविधिर्नास्तीति, किं तर्हि? अनित्यः।ततः क्वचिद्भवति। एतच्च एवं तर्हेतञ्ज्ञापयति (3.3.163 का।वृ) इत्यादिना प्रागेवाभिहितम्॥
Prakriyasarvasvam¶
एषूपपदेषु धातोस्तुमुन् स्यात् । भोक्तुं काल इत्यादि । अन्येष्वपि कालार्थे- ष्विष्टम् । भोक्तुमवसर: । ल्युडादेरबाधात् भोजनस्य काल इत्याद्यपि ।।