33172: शकि लिङ् च¶
Padacheda: शकि | S | 7 | 1 |
लिङ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the affix लिङ् (Benedictive) as well as the कृत्य affixes come after a verb when the sense is that of ‘capability’.
Vasu English Translation¶
And the affix लिङ् (Benedictive) as well as the कृत्य affixes come after a verb when the sense is that of ‘capability’. The word ‘capability’ qualifies the root so that the sense of capability must be inherent in the root; Thus भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः (kritya), or भवान् खलु भारं वहेत् ‘you can carry the load’.
Though kritya-affixes would have come in this sense, even without any special rule, for they are general affixes, their special mention in this sutra is to guard against their being superseded by लिङ्, for rule (3.1.94) is not universally valid.
Kashika¶
शकीति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः,वहनीयः, वाह्यः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर्वचनं लिङा बाधा मा भूदिति॥
Siddhanta Kaumudi¶
शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् (SK2219) मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥
Balamanorama¶
शकि लिङ् च - शकि लिङ् च । ‘शक्’ इति भावे क्विबन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं वहेरिति । वोढुं शक्त इत्यर्थः ।माङि लु॑ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते । ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते — कथमिति । परिहरति — नायं माङिति । किंत्विति । ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः । नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वेमाङि लु॑ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये ‘न माङ्योगे’ इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् ।
Padamanjari¶
प्रकृत्यर्थविशेषणमिति । नोपपदम्,’क्षय्यजय्यौ शक्यार्थे’ इति लिङ्गात्, उपपदत्वे हि केवलौ क्षय्यजय्यौ शक्यार्थे न सम्भवतः । भवान्खलु शक्त इति वाक्यशेषः सर्वेषु योज्यः । लिङ बाधा मा भूदिति । स्त्रियाः परेण वासरूपविधेरनित्यत्वाल्लिङ बाधाशङ्का ।’पराजेसोढः’ इत्यत्रासोढो योऽर्थः - सोढुंअ न शक्यत इति । शक्यार्थे क्तप्रत्ययो व्याख्यातः स’कृत्यल्युटो बहुलम्’ इति वा, वासरूपविधिना वा समर्थनीयः ॥
Nyaas¶
प्रकृत्यर्थविशेषणञ्चैतत्। पूर्वेणाभिप्रायेणोपपदनिरासार्थमिदमुच्यते। जीव्यात्िति।`स्कोः (8.2.29) इति सलोपः। अथ किमर्थं लिङग्रहणम्, लोट् च (3.3.162) इत्येव सिद्धम्, चकारेण ह्रनुकृष्यमाणो लिङपि भविष्यति? नैवं शक्यम्; यथैव हि चकारेण लिङनुकृयते तथा कृत्या अप्यनुकृष्येरन्। ननु निवर्तिष्यन्ते कृत्याः, तेषु निवृत्तेषु लिङ एवानुकर्षणार्थश्चकारो भविष्यति? सत्यमेतत्; एवं यदि तेषां निवृत्तिर्विज्ञास्यते लिङोऽपि निवृत्तिः स्यात्। व्याख्यानादनुवर्तिष्यत इति चेदेवमपि प्रतिपत्तिगौरवं स्यात्। तस्मात् प्रतिपत्तिगौरवपरीहारार्थं यथान्यासमेव न्याय्यम्। अत्र विध्यादिसूत्रे (3.3.161) एवाशीग्र्रहणं कस्मान्न कृतम्, एवं हि लिङलोटोग्र्रहणं न कृतं भवति? नै शक्यम्; विध्यादिसूत्रे पाठे सति स्मे लोट् (3.3.165) इत्येवमादिभिः परत्वाद्बाधा स्यात्। इहतु क्रियमाणे परत्वादेष योगस्तेषां बाधको भविष्यतीति न भवत्येष दोषप्रसङ्ग। अवश्यञ्चोत्तरार्थमाशीग्र्रहणं कर्तव्यम् - क्तिच्क्तौ च संज्ञायाम् (3.3.174) इत्याशिषि यथा स्याताम्॥।
Prakriyasarvasvam¶
कृत्याश्च लिङ् च योग्यार्थे स्युः । शक्यार्थे—विप्रो न हन्तव्यः । शक्यार्थे— सिंहो न हन्तव्यः ।
Sutra Prayogas¶
यायात् (रघुवंशम्): शकि लिङ् च इति शक्यार्थे लिङ्।
कुर्यां (कुमारसम्भवम्): शकि लिङ् च इति शक्यार्थे लिङ् ।
प्रसहेत (किरातार्जुनीयम्): शकि लिङ् च इति शक्थार्थे लिङ् ।
सहेत (किरातार्जुनीयम्): शकि लिङ् च इति शक्यर्थे लिङ्।
वध्यो (भट्टिकाव्यम्): शकि लिङ् च इति चकारात् कृत्याश्च इति वचनात् लङ्।