33166: अधीष्टे च

Padacheda: अधीष्टे | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And when ‘wish’ is meant ( the लोट् (Imperative) may be used when the word स्म is in composition with the verb.

Vasu English Translation

And when ‘wish’ is meant ( the लोट् (Imperative) may be used when the word स्म is in composition with the verb. The word स्म is understood here. The word अधीष्ट has already been explained in sutra (3.3.161). This rule supersedes the Potential. Thus अङ्ग स्म राजन् माणवकमध्यापय or अङ्ग स्म राजन्नग्निहोत्रं जुहुधि ‘O! King! I wish that you teach the boy or make Agnihotra sacrifice’.

Kashika

स्म इति वर्तते। अधीष्टं व्याख्यातम् (३.३.१६१)। स्मशब्द उपपदेऽधीष्टे गम्यमाने धातोर्लोट् प्रत्ययो भवति। लिङोऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि॥

Siddhanta Kaumudi

स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥

Balamanorama

अधीष्टे च - अधीष्टे च । लोट् स्यादिति । अधीष्टे विहितस्य लिङोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः ।स्मे लोडधीष्टेचे॑त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः ।कालसमयेलासु तुमु॑न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते ।

Tattvabodhini

अधीष्टे च - अधीष्टे च । लिङोऽपवादः । योगविभास्तु ऊध्र्वमौहूर्तिकाऽननुवृत्त्यर्थः ।

Padamanjari

अङ्ग स्म राजन्निति । अङ्गशब्दोऽनुनये । ब्राह्मणानामेवाध्यापनं वृत्तिरतो राजन्नित्यभ्यर्हितेत्यर्थः ॥

Nyaas

`लिङोषऽपवादः`इति। विध्यादिसूत्रेण प्राप्तस्य। `अध्यापय`इति। सेर्हिरादेशः (3.4.87) , तस्य अतो हेः (6.4.105) इति लुक्। `जुहुधि`इति। हुझल्भ्यो हेर्धिः (6.4.101) इति धिरादेशः॥

Prakriyasarvasvam

स्मयोगेऽधीष्टेऽर्थे लोडेव, न लिङ् । अध्यापयतु स्म भवान् ।