33175: माङि लुङ्¶
Padacheda: माङि | S | 7 | 1 |
लुङ् | S | 1 | 1 |
Sutrartha¶
माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति ।
‘माङ्’ इति किञ्चन अव्ययम् । अस्य समावेशः स्वरादिगणे क्रियते । ‘निषेधम्’ दर्शयितुमस्य प्रयोगः क्रियते । वर्तमानसूत्रेण अस्य अव्ययस्य प्रयोगे लुङ्लकारस्यैव प्रयोगः भवति । तथा च, लुङ्लकारस्य विषये सामान्यरूपेण यः अडागमः/आडागमः विधीयते, सोऽपि न माङ्योगे (6.4.74) इत्यनेन माङ्-अव्ययस्य उपस्थितौ न भवति । यथा - मा कार्षीः । मा लेखीत् । मा गमः । ज्ञातव्यम् - 1. माङ्-इत्यत्र ङकारस्य इत्संज्ञा लोपश्च भवति, अतः ‘मा’ इत्येव दृश्यरूपेण अवशिष्यते । 2. ‘मा’ इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः ‘निषेधार्थे’ एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । यथा - मा कुरु । मा लिखतु । मा गच्छ ।
Sutrartha (English)¶
In presence of the अव्यय माङ्, लुङ्लकारः is used.
Vasu English Summary¶
The affixes लुङ् (Aorist) comes after a verb when the word माण् is used in connection with it.
Vasu English Translation¶
The affixes लुङ् (Aorist) comes after a verb when the word माण् is used in connection with it. This sets aside all other tense-affixes. As मा कार्षीत् ‘let him not do’ मा हार्षीत् ‘Iet him not take’.
How have we then the Imperative and the Future tenses in the following sentence instead of the Aorist ? मा भवतु तस्य पापं मा भविष्यति । This sentence is against good usage. Or, we may explain it by saying that there is another मा which has not the indicatory ङ; and with that मा, other tenses may be used. The augment is elided after the prohibitive participle मा, by (6.4.74).
Kashika¶
माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। मा कार्षीत्। मा हार्षीत्। कथं मा भवतु तस्य पापम्, मा भविष्यतीति? असाधुरेवायम्। केचिदाहुः — अङिदपरो माशब्दो विद्यते, तस्यायं प्रयोगः॥
Siddhanta Kaumudi¶
सर्वलकारापवादः ॥
Laghu Siddhanta Kaumudi¶
सर्वलकारापवादः ॥
Balamanorama¶
माङि लुङ् - माङि लुङ् । माङि प्रयुज्यमाने धातोर्लुङ् स्यादित्यर्थः । ननु लुङित्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह — सर्वलकारापवाद इति । मास्त्वित्यादौ तु ‘मा’ इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः । आङ्माङोश्चे॑ति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाछन्द इत्यत्र तुङ्न भवतीत्युक्तम् । माशब्दस्याऽव्ययान्तरस्य सत्त्वे तु तदेवोदाह्यियेत । मास्त्क्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये ।
Tattvabodhini¶
माङि लुङ् - सर्वलकारापवाद इति । मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव, न तु माङित्याहुः ।
Padamanjari¶
अत्रोतरशब्द आदिक्यवचनो न दिग्वचनः, तेन पूर्वभूतेऽपि स्मशब्दे भवति, तद्दर्शितम् - स्मशब्दसहित इति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य तृतीयः पादः ॥
Nyaas¶
मा कर्षित् इति। न माङ्योगे (6.4.74) इत्यडागमाभावः॥
Prakriyasarvasvam¶
माङ्योगे सर्वलकारापवादो लुङ् स्यात् ।
Sutra Prayogas¶
मा भूवन् (किरातार्जुनीयम्): माङि लुङ् इत्याशीरर्थे लुङ् ।
कृथा (किरातार्जुनीयम्): माङि लुङ् इति लुङ्।
मा गमन् (किरातार्जुनीयम्): माङि लुङ् इति लुङ्-लकारः।
मा गान् (किरातार्जुनीयम्): माङि लुङ् इति लुङ्।
मा कृथाः (किरातार्जुनीयम्): माङि लुङ् इति लुङ् लकारः।
निरासि (किरातार्जुनीयम्): माङि लुङ् इति लुङ्।
मावमंस्त (किरातार्जुनीयम्): माङि लुङ् इति लुङ्।
मा विहासिष्ट (किरातार्जुनीयम्): माङि लुङ् इति माङि उपपदे धातोर्लुङ्।
कारि (शिशुपालवधम्): माङि लुङ् इत्याशीरर्थे।
मा वेदि (शिशुपालवधम्): माङि लुङ् इति लुङ्।
मावगाः (शिशुपालवधम्): माङि लुङ् इति लुङ्।
कृथा (भट्टिकाव्यम्): माङि लुङ् अडभावः ।
प्रयुक्थाः (भट्टिकाव्यम्): माङि लुङ् इति लुङ्।
मा रुदः (भट्टिकाव्यम्): माङि लुङ् इत्य यदा नास्ति तदा मा रोदीरिति ।
माऽऽरब्धा (भट्टिकाव्यम्): माङि लुङ् इति लुङ्।
मा नाऽनुभूः (भट्टिकाव्यम्): माङि लुङ् इति लुङ्।
भैष्टं (भट्टिकाव्यम्): माङि लुङ् इति लुङ्।
मा शोचिष्ट (भट्टिकाव्यम्): माङि लुङ् इति लुङ्।