Sutras 41 - 60¶
- 32041: पूःसर्वयोर्दारिसहोः
- 32042: सर्वकूलाभ्रकरीषेषु कषः
- 32043: मेघर्तिभयेषु कृञः
- 32044: क्षेमप्रियमद्रेऽण् च
- 32045: आशिते भुवः करणभावयोः
- 32046: संज्ञायां भृतॄवृजिधारिसहितपिदमः
- 32047: गमश्च
- 32048: अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः
- 32049: आशिषि हनः
- 32050: अपे क्लेशतमसोः
- 32051: कुमारशीर्षयोर्णिनिः
- 32052: लक्षणे जायापत्योष्टक्
- 32053: अमनुष्यकर्तृके च
- 32054: शक्तौ हस्तिकपाटयोः
- 32055: पाणिघताडघौ शिल्पिनि
- 32056: आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्
- 32057: कर्तरि भुवः खिष्णुच्खुकञौ
- 32058: स्पृशोऽनुदके क्विन्
- 32059: ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च
- 32060: त्यदादिषु दृशोऽनालोचने कञ् च