32054: शक्तौ हस्तिकपाटयोः¶
Padacheda: शक्तौ | S | 7 | 1 |
हस्ति-कपाटयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The affix टक् comes after the verb हन् ‘to kill’ when the object is in composition with it as its object is हस्ति ‘elephant’ or कपाट ‘gate’ and when the sense indicated is that of power.
Vasu English Translation¶
The affix टक् comes after the verb हन् ‘to kill’ when the object is in composition with it as its object is हस्ति ‘elephant’ or कपाट ‘gate’ and when the sense indicated is that of power. This sutra applies where the agent is a human being. As हस्तिनं हन्तुं शक्तः = हस्तिघ्नः मनुष्यः ‘a man who is strong enough to kill an elephant’; so also कपाटघ्नः ‘a burglar’ (who is capable of breaking open the doors).
Why do we say ‘where power is indicated’? Observe विषेण हस्तिनं हन्ति = हस्तिघातः ‘who kills the elephant by poison’. Here the affix is अण्.
Kashika¶
शक्तौ गम्यमानायां हस्तिकपाटयोः कर्मणोरुपपदयोर्हन्तेष्टक् प्रत्ययो भवति। मनुष्यकर्तृकार्थ आरम्भः। हस्तिनं हन्तुं शक्त ो हस्तिघ्नो मनुष्यः। कं पाटयति प्रविशत इति कपाटघ्नश्चौरः। शक्ताविति किम्? विषेण हस्तिनं हन्ति हस्तिघातः॥
Siddhanta Kaumudi¶
हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥
Balamanorama¶
शक्तौ हस्तिकपाटयोः - शक्तौ हस्तिकवाटयोः । हस्तिघ्न इति । हस्तिनं हन्तुं शक्त इत्यर्थः । एवं कवाटघ्नः ।
Tattvabodhini¶
शक्तौ हस्तिकपाटयोः - शक्तौ हस्ति । शक्तौ किम् । विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शक्तिरस्ति, अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामर्थ्यात्प्रकर्षो विज्ञायते, तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्रते । कपाटघ्न इति । कं = शिरः पाटयति प्रविशत इति कपाटम् । पाठान्तरे तु अटतेः पचाद्यच् ।कवं चोष्णे॑ इत्यत्र योगविभागात्कोः कवादेश इति हरदत्तः ।
Padamanjari¶
शक्तौ हस्तिकपाटयोः॥ विषेण हस्तिनं हन्तीति। नन्वत्राप्यशक्तस्य कर्तृत्वानुपपतेरस्त्येव शक्तिः? सत्यम्; शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानादन्यतिरपेक्षस्वबलेनैव हन्तुं या शक्तिः सा गृह्यते, तद्दर्शयति - हस्तिनं हन्तुं समर्थो हस्तिध्नो मनुष्य इति। एवं च हस्तिनं हन्तु मा वा वधीत् सामर्थ्ययोगाद्धस्तिघ्न इत्युच्यते। कं पाटयति प्रविशत इति। कपाटशब्दं व्युत्पादयति। कवाटमिति तु प्रसिद्धः, तत्राटतेः पचाद्यच्।’कवङ् चोष्णो’ इति योगविभागात्कोः कवादेशः॥
Nyaas¶
शक्तौ गम्यमानायाम् इति। अनेनोपपदत्वं शक्तेर्निराकरोति। `हस्तिकपाटयोः कर्मणीरुपपदयोः`इत्यनेनापि हस्तिकपाटयोः प्रत्ययार्थविशेषणम्। अथैवं कस्मान्न विज्ञायते - शक्तावुपपदे हस्तिकपाटयोः कत्र्रोरिति? आरम्भसामर्थ्यादेव हि विज्ञायमाने हस्तिकपाटयोर्मनुष्यकर्त्तृके धात्वर्थे हन्तिर्वर्तते। तथा च पूर्वेणैव सिद्धेऽस्यारम्भवैयथ्र्यं स्यात्। उपपदत्वे तु तयोः शक्तौ गम्यमानायां मनुष्ये कर्तरि विज्ञायत इति न भवत्येष दोषः।`विशेष हस्तिनं हन्ति`इति। विषेणेत्यशक्तिकत्वं दर्शयति। यो हि स्वयं हन्तुं न समर्थः स विषादिनोपायान्तरेण हन्ति॥
Sutra Prayogas¶
हस्तिघ्नो (भट्टिकाव्यम्): शक्तौ हस्ति कपाटयोः इति सूत्रस्य मनुष्यकर्तृकार्थारम्भकत्वात्।