32047: गमश्च¶
Padacheda: गमः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the affix खच् comes after the verb गम् ‘to go’ when in composition with a word ending in a case-affix and when the word to be formed denotes a name.
Vasu English Translation¶
And the affix खच् comes after the verb गम् ‘to go’ when in composition with a word ending in a case-affix and when the word to be formed denotes a name. As सुतङ्गमः ‘Sutangama’. Though the verb गम् could well have been included in the last aphorism, the separation serves the purpose of carrying the anuvritti of गम् into the subsequent sutras.
Kashika¶
गमेर्धातोः सुप्युपपदे संज्ञायां विषये खच् प्रत्ययो भवति। सुतंगमो नाम, यस्य पुत्रः सौतंगमिः। योगविभाग उत्तरार्थः॥
Siddhanta Kaumudi¶
सुतंगमः ॥
Balamanorama¶
गमश्च - गमश्च ।संज्ञायां ख॑जिति शेषः ।
Tattvabodhini¶
गमश्च - गमश्च । पूर्वसूत्र एव गमिर्नोक्तः,उत्तरसूत्रे गमेरेवानुवृत्तिर्यथा स्यात्, भृतृप्रभृतीनां माभूदिति ।
Padamanjari¶
गमश्च॥ योगविभाग उतरार्थ इति। उतरत्र गमेरेवानुवृत्तिर्यथा स्याद्, भृतृप्रभृतीनां मा भूत्॥
Nyaas¶
यस्य सौतङ्गमिः पुत्रः इति। पुत्रस्य सौतङ्गमित्वव्यपदेशेन पितुः सुतङ्गमसंज्ञानुमीयत इति दर्शयति। सत्यां हि पितुः सुतङ्गमसंज्ञायां तत्पुत्रस्य सौतङ्गमिशब्देनाभिधानं भवति, नासत्याम्। अथ योगविभागः किमर्थः, पूर्वसूत्र एव गमेग्र्रहणं क्रियातमित्याह - योगविभाग उत्तरार्थः इति। गमेरेवोत्तरत्रानुवृत्तिर्यथा स्यात्, भृञादीनां मा भूत्। एकयोगे हि तेऽप्यनुवर्तेरन्॥
Prakriyasarvasvam¶
नाम्नि खच् स्यात् । सुतङ्गम ऋषिः । जनाद् दूरे गच्छन् जनङ्गमः श्वपचः । तुरभुजप्रवप्लवमेषु गमेः खचो वा डित्वं वाच्यम् । डित्त्वात् ‘टेः’ (६-४-१४३) इति टिलोपः । ‘तुर त्वरण’ इत्यस्माद् ‘इगुपध’ (३-१-१३५) इति के तुरो वेगी । तुरी गच्छतीति तुरङ्गः । तुरङ्गमः । भुजः कुटिलो गच्छतीति भुजङ्गः, भुजङ्गमः, प्लवङ्गः, प्लवङ्गमश्च कपिः । प्लवङ्गः, प्लवङ्गमश्च भेकः । ‘विहायसो विह च’ (वा० ३-२-३८) । विहङ्गः, विहङ्गमः । तुरादिषु गमेर्डश्चेष्यते । डित्त्वाट्टिलोपः । तुरगः । भुजगः । प्रवगः । प्लवगः । डे च विहादेशो वाच्यः । विहगः ।
Sutra Prayogas¶
प्लवंगमाः (शिशुपालवधम्): गमश्च इति खच्प्रत्यये मुमागमः।
जनङ्गम (शिशुपालवधम्): गमश्च इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः।
हृदयं-गम (भट्टिकाव्यम्): गमश्च इति खच् प्रत्ययः।
द्राक्षीर्मृषा (भट्टिकाव्यम्): न दृशः इति निषेधः ।
हृदयं-गमम् (भट्टिकाव्यम्): गमश्च इति खच् प्रत्ययः।