32055: पाणिघताडघौ शिल्पिनि¶
Padacheda: पाणिघ-ताडघौ | S | 1 | 2 |
शिल्पिनि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word पाणिघ and ताडघ are irregularly formed when denoting an artificier.
Vasu English Translation¶
The word पाणिघ and ताडघ are irregularly formed when denoting an artificier. These forms are thus evolved. The affix क is employed after the verb हन् in composition with पाणि ‘hand’ and ताड ‘a blow’ as object; then the टि portion of हन् i. e. अन् is elided, and ह is changed into घ irregularly. Thus पाणि + हन् + क = पाणि + ड् + अ = पाणिघः ‘a drummer’ (workman or handicraftsman); ताडघः ‘a smith’.
Why ‘when denoting an artificer’? Observe पाणिघातः ‘boxing’; ताडघातः ‘hammering’.
Vart:- The word राजघः should be enumerated in this connection; राजघः ‘a regicide’.
Bhashya¶
पाणिघताडघौ शिल्पिनि (822) (489 टक्प्रत्ययवत्वादिविधिसूत्रम्॥ 3 । 2 । 1 आ.21) (2046 न्यूनतापरिहारवार्तिकम्॥ 1 ॥) - राजघ उपसंख्यानम्- (भाष्यम्) राजघ उपसंख्यानं कर्तव्यम्। राजघः॥ पाणिघताडघौ ॥ 55 ॥
Kashika¶
पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि। पाणि ताड इत्येतयोः कर्मणोरुपपदयोर्हन्तेर्धातोः टक् ‘प्रत्ययो भवति, तस्मिंश्च परतो हन्तेष्टिलोपो घत्वं च निपात्यते। पाणिघः। ताडघः। शिल्पिनीति किम्? पाणिघातः। ताडघातः॥ राजघ उपसंख्यानम्॥ राजानं हन्ति राजघः॥
Siddhanta Kaumudi¶
हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ।<! राजघ उपसंख्यानम् !> (वार्तिकम्) ॥ राजनं हन्ति राजघः ॥
Balamanorama¶
पाणिघताडघौ शिल्पिनि - पाणिघताडघौ । पाणिना हन्तीति पाणिघः । ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः । राजघ उपसङ्ख्यानमिति । राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः ।
Nyaas¶
पाणिघताडघौ इति। टप्रत्ययो घत्वं टिलोपश्च निपात्यते॥
Prakriyasarvasvam¶
<karika>पाणिघः स्यात् पाणिघाते शिल्पी तद्वच्च तालघः । राजवश्वोपसंख्यानं राजानं हन्ति राजघः ॥ ८८ ॥</karika>
Vartika¶
राजघ उपसंख्यानम् ।
Sutra Prayogas¶
पाणिघैः (भट्टिकाव्यम्): पाणिघ- ताडघौ शिल्पिनि इति कर्तरि निपातनम्।