32042: सर्वकूलाभ्रकरीषेषु कषः

Padacheda: सर्वकूल-अभ्र-करीषेषु | S | 7 | 3 |

कषः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix खच् comes after the verb कष् ‘to rub’ when the words सर्व ‘all’, कूल ‘bank’, अभ्र ‘cloud’ and करीष ‘a dry cow-dung’ are in composition with it as objects.

Vasu English Translation

The affix खच् comes after the verb कष् ‘to rub’ when the words सर्व ‘all’, कूल ‘bank’, अभ्र ‘cloud’ and करीष ‘a dry cow-dung’ are in composition with it as objects. As सर्वङ्कषः खलः ‘a villain, a rogue’; कूलङ्कषा नदी ‘a river’; अभ्रङ्कषो गिरिः ‘a mountain’; करीषङ्कषा वात्या ‘a strong wind’.

Kashika

सर्व कूल अभ्र करीष इत्येतेषु कर्मसूपपदेषु कषेर्धातोः खच् प्रत्ययो भवति। सर्वं कषति सर्वंकषः खलः। कूलंकषा नदी। अभ्रंकषो गिरिः। करीषंकषा वात्या॥

Siddhanta Kaumudi

सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीङ्कषा वात्या ॥

Nyaas

सर्वङ्कषः इति। कष खष शिष जष जष {शक इति मु।पाठः} शष वष मष रुष रिष हिंसार्थाः (धातुपाठः-685-694)॥

Prakriyasarvasvam

सर्वङ्कष इत्यादि ।

Sutra Prayogas

  • मुसलोलूखलैरिव (शिशुपालवधम्): सर्वकूलाभ्रकरीषेषु कषः इति सूत्रात् ज्ञापकात् परनिपातव्यत्ययः।