32045: आशिते भुवः करणभावयोः

Padacheda: आशिते | S | 7 | 1 |

भुवः | S | 5 | 1 |

करण-भावयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The affix खच् comes after the verb भू ‘to be’ when in composition with the case-inflected word आशित ‘satisfied by eating’ and the sense is that of instrument or condition.

Vasu English Translation

The affix खच् comes after the verb भू ‘to be’ when in composition with the case-inflected word आशित ‘satisfied by eating’ and the sense is that of instrument or condition. The word ‘सुपि’ of sutra 4 is understood here.

Thus आशिसम्भवः meaning ‘food’, literally that by which one is satiated. आशिती भवती अनेन. Here the word denotes instrument. And आशितसम्भवः also means ‘satiety’, which denotes condition.

Kashika

अत्र सुपीत्युपतिष्ठते। आशितशब्दे सुबन्त उपपदे भवतेर्धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवत्यनेन आशितंभव ओदनः। भावे — आशितस्य भवनम् आशितंभवं वर्तते॥

Siddhanta Kaumudi

आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥

Balamanorama

आशिते भुवः करणभावयोः - #आशिते । करणे उदाहरति — आशितो भवत्यनेनेति । भावे उदाहरति — आशितस्य भवनमिति ।

Tattvabodhini

आशिते भुवः करणभावयोः - आशितंभव इति । यावता ओदनेन अतिथ्यादिर्भोजितो बवति स एवमुच्यते । इह वासरूपविधिना ल्युडपि । [आशित भवनः ।भावे]-आशितभवनम् । घञ् तु बाध्यत एव, सरूपत्वादित्याहुः । नचाऽत्र क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नेति ल्युटो निषेधः शङ्क्यः । यत्र हि घञादेर्बाधकत्वेन क्तल्युडादयः प्रसक्तास्तत्र नित्यं बोधो न तु विकल्पेनेति तस्यार्थः । इह तु ल्युटोऽप्यपवादः खच् । अत्र वासरूपन्यायो निर्बाध एव । एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक् ।

Padamanjari

आशिते भुवः करणभावयोः॥ अत्र सुपीत्युपतिष्ठते इति। न तु कर्मणीति, भवतेरकर्मकत्वात्। सोपसर्गात्प्राप्त्यर्थाच्च खचा न भवितव्यम्, अनभिधानादिति भावः। आशितशब्दोऽयम् ठश भोजनेऽ इत्यस्मादाङ्पूर्वादविवक्षिते कर्मणि क्तप्रत्ययान्तो गृह्यते - आशितः कर्तेति, यस्याद्यौदातत्वं विधास्यते। यस्तु’ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ इति भावकर्माधिकरणेषु क्तः, न तदन्तो गृह्यते, अनभिधानादित्याहुः। अन्ये त्वशेर्ण्यान्तात्प्रयोज्ये कर्मणि क्तप्रत्यये कृते य आशितशब्दः स गृह्यते। एवमाशितः कर्तेति यस्याद्यौदातत्वं तत्रापि प्रयोज्य एव भूतपूर्वगत्या कर्तोच्यते,’गतिबुद्धिप्रत्यवसानार्थ’ इति अणौ कर्तुर्णौ कर्मसंज्ञाविधानात्। तथा च कृषन्नित्फाल आशितं कृष्णोतीति आद्यौदातस्यावग्रहो न द्दश्यते। कर्तृग्रहणं तु तत्र भावनिवृत्यर्थमिति। आशितम्भव ओदन इति। यावतौदनेनातिथ्यादिराशितो भवति स एवमुच्यते॥

Nyaas

अत्र सुपीत्युपतिष्ठते, न कर्मणीति; भवतेरकर्मकत्वात्। आशितशब्दे सुबन्ते इत्यादि। अथ विपर्ययः कस्मान्न वति, करणभावयोरुपपदयोराशिते प्रत्ययार्थ इति? असम्भवात्। आशित इत्यश्नातेः कर्तोच्यते, तस्य भवतिना सम्बन्धो नोपपद्यते। न हि योऽश्नातेः कर्ता स भवतेः प्रत्ययार्थो भवतुमुत्सहते। तस्मादाशितशब्दस्योपपदत्वम्, इतरयोस्तु प्रत्ययार्थत्वम्। एवञ्च घञ्ल्युटोरपवादो भवति। वाऽसरूपविधिना ल्युडपि भवत्येव - आशितभवन ओदन इति। घञस्तु स्वरूपत्वाद्बाधख एव॥।

Prakriyasarvasvam

आशितपूर्वाद् भुवोऽनयोरर्थयोः खच् स्यात् । आशितस्तृप्तो भवत्यनेनाशित- म्भवमन्नम् । तृप्तभावश्चाशितम्भवः ।

Sutra Prayogas

  • फलैर्येष्वाशितम्भवम् (भट्टिकाव्यम्): आशिते भुवः इत्यादिना भावे खच्।

  • आशितं-भवम् (भट्टिकाव्यम्): आशिते भुवः करणभावयोः इति खच् प्रत्ययः।

  • स्वाऽऽशितम्भवम् (भट्टिकाव्यम्): आशिते भुवः इति भावे खच्।