32060: त्यदादिषु दृशोऽनालोचने कञ् च

Padacheda: त्यदादिषु | S | 7 | 3 |

दृशः | S | 5 | 1 |

अनालोचने | S | 7 | 1 |

कञ् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And the affix कञ् comes after the verb दृश् ‘to see’ when it is in composition with त्यद् etc. and does not signify perception.

Vasu English Translation

And the affix कञ् comes after the verb दृश् ‘to see’ when it is in composition with त्यद् etc. and does not signify perception. The force of ‘and’ is that the क्विन् also comes under similar circumstances. त्यद् &c. are pronouns, for a list of which see (1.1.27). Thus त्यादृश् nom. sing. त्यादृक्, ‘such-like’ when it is formed by क्विन्; and त्यादृशः ‘such-like’ when the affix is कञ्. So also तद् + दृश् + क्विन् = तादृश् (6.3.91) nom. sing. तादृक् (6.1.68), (VIII.2.36 and 62), (8.4.56); and तादृशः when कञ् is the affix. So यादृक् or यादृशः ‘what-like’.

What is the force of the letter ञ् of कञ्? It is for the sake of accent; the udatta is on the first syllable of those words which are formed by an affix having an indicatory ञ् or न् (6.1.117). But the indicatory न् would have given the same accent, there being no difference between कञ् and कन् in this respect. The indicatory ञ् then serves only the purpose of distinguishing the affix कञ् from कन् in sutra (4.1.15) in which कञ् is taken and not कन्. Had we not formed this separate affix, then for कञ्करप् of that sutra, we should have read कन् क्वरप् so that the feminine of words formed by कन् would have also taken long ई, so that the feminine of यावकः (याव + कन्) (5.4.29) would have been यावकी instead of यावका.

Why do we say ‘when not signifying perception’? See तं पश्यति = तद्दर्शः ‘who sees that’. The words त्यादृक्, तादृश् &c. are crude nouns, in which the etymological sense of the root not being visible, the act of seeing can never be denoted by these words.

Vart:- This rule applies also when the words समान and अन्य are in composition with दृश्. As सदृक् or सदृशः ‘like’ (समान + दृश् + क्विन् = स + दृश्) (6.3.89); so also अन्यादृशः or अन्यादृक् ‘of another kind’.

Vart:- The affix क्स comes also after the root दृश्. As तादृक्षः, यादृक्षः, अन्यादृक्षः and कीदृक्षः । तद् + दृश् + क्स = ता + दृश् + क्स (6.3.91) = तादृष् + स (8.2.36) = तादृक् + स (8.2.41) = तादृक् + ष (8.3.59) = तादृक्षः ।

Bhashya

त्यादिषु दृशोऽनालोचने कञ्ञ्च (827) (494 कञ्ञ्क्विन्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.22) (आक्षेपभाष्यम्) किमर्थो ञ्ञकारः। (समाधानभाष्यम्) स्वरार्थः ज्नितीत्याद्युदात्तत्वं यथा स्यात्॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। भविष्यति। क्व विशेषणार्थेनार्थः?। कञ्ञ्क्वरबि ति। कन्क्वरबित्युच्यमाने याविका इत्यत्रापि प्रसज्येत॥ (2054 उपपदान्तरेऽपि प्रत्ययविधिवार्तिकम्॥ 1 ॥) - कृदर्थानुपपत्तिस्तु- (भाष्यम्) कृदर्थस्तु नोपपद्यते। दृशेः कर्तरि प्राप्नोति॥ (2056 तद्धितविधिवार्तिकम्॥ 3 ॥) - इवार्थे तु तद्धितः- (भाष्यम्) इवार्थे त्वयं तद्धितो द्रष्टव्यः। स इवायं तादृक् तादृशः। अन्य इवायमन्यादृक् अन्यादृश इति। (कृदर्थोपपादनभाष्यम्) अथ वा युक्त एवायं कृदर्थः। कर्मकर्ताऽयम्। तमिवेमं पश्यन्ति जनाः। सोयं स इव दृश्यमानस्तमिवात्मानं पश्यति तादृक्। अन्यमिवेमं पश्यन्तिजनाः सोयमन्य इव दृश्यमानोऽन्यमिवात्मानं पश्यति अन्यादृगिति॥ त्यदादिषु॥ 60 ॥

Kashika

त्यदादिषूपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात् कञ् प्रत्ययो भवति, चकारात् क्विन् च। त्यादृशः। त्यादृक् । तादृशः। तादृक् । यादृशः। यादृक्। कञो ञकारो विशेषणार्थः। ठक्ठञ्कञ् (४.१.१५) इति। अनालोचन इति किम्? तं पश्यति तद्दर्शः। चादृगादयो हि रूढिशब्दप्रकारा नैवात्र दर्शनक्रिया विद्यते॥ समानान्ययोश्चेति वक्तव्यम्॥ सदृशः। सदृक्। अन्यादृशः। अन्यादृक्॥ दृशेः क्सश्च वक्तव्यः॥ तादृक्षः। यादृक्षः। सदृक्षः। अन्यादृक्षः। कीदृक्षः॥

Siddhanta Kaumudi

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ् स्याच्चात् क्विन् ॥

Laghu Siddhanta Kaumudi

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥

Balamanorama

त्यदादिषु दृशोऽनालोचने कञ् च - अथ शान्ताः । तादृक्शब्दं व्युत्पादयितुमाह — त्यदादिषु । चकारात्स्पृशोऽनुदके क्विन् इत्यतः ‘क्विन्’ इत्यनुकृष्यते । आलोचनमिह ज्ञानसामान्यं विवक्षितं, तदाह — त्यदादिष्वित्यादि । अनालोचने किम् । तं पश्यति तद्दर्शः । कर्मण्यण् । कञि तु कित्त्वाद्गुणो न स्यात् । तद् शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद्-दृश् इति स्थिते ।

Tattvabodhini

त्यदादिषु दृशोऽनालोचने कञ् च - त्यदादिषु । कञन्तस्य तूदाहरणंतादृशो॑यादृश॑इत्यादि, तच्चाऽत्र नोक्तं, हलन्तेष्वनुपयोगात् । अनालोचने किम् । तं पश्यतीति तद्दर्शः । कर्मण्यण् । तादृशादयस्तु रूढशब्दत्वादसताप्यवयवार्थेन व्युत्पाद्यान्ते । अतएवाऽज्ञानार्थाद्दृशेरिति सङ्गच्ते । भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता — ॒तभिवेमं पश्यन्ति जनाः, स इवायं पश्यति॑ । ज्ञानविषयो भवतीत्यर्थात् । अज्ञानार्थादिति तु सङ्गच्छते, तत्र दृशेज्र्ञानविषयत्वापत्तिमात्रवृत्तित्वेऽपि विषयीकरणाऽवृत्तित्वात् ।

Padamanjari

त्यदादिषु द्दशोऽनालोचने कञ्च॥’पश्यार्थैश्च’ इत्यत्र वक्ष्यति - आलोचनं चक्षुस्ताधनं विज्ञानमिति, इह तु ज्ञानमात्रप्रतिषेधं मन्यते। याद्दक् ताद्दगिति।’द्दग्द्दशवतुषु’ इति वर्तमाने ठा सर्वनाम्नःऽ इत्यात्वम्। ञकारो विशेषणार्थ इति। आद्यौदातत्वस्य नकारेणापि सिद्धत्वात् ञकारोपधस्य प्रयोजनं विशेषणमेवेत्यर्थः, न तु स्वरो न प्रयोजनमित्युच्यते। तं पश्यति तद्दर्श इति चक्षुर्विज्ञानेऽणेव भवति। कथं पुनः प्रयुज्यमानस्यैव द्दशेरनालोचनार्थत्वमित्याह - ताद्दशादयो रूढिशब्दा इति। ततः किमित्याह - नैवात्रेति। रूढिशब्दा ह्यसताप्यवयवार्थेन व्युत्पाद्यन्ते, यथा - तैलपायिकादयः। एतदर्थमेवानालोचन इत्युक्तम्। द्दश्यर्थाभावेऽयं विधिः, सति तु द्दश्यर्थेऽणेव भवतीति। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता - तमिवेमं पश्यन्ति जनाः सोऽयं स इव द्दश्यमानस्तमिवात्मानं पश्यतीति। तत्र कर्मव्यापारमात्रे वा द्दशेर्वृत्तिः, कृत्स्नधात्वर्थाध्यारोपो वा सौकर्यादिशयप्रतिपादनायेति द्रष्टव्यम्। समानान्योश्चेति। समानस्य द्दग्द्दशवतुषु सभावविधानात्सिद्धम्। क्सश्चेति। त्यदादिषु समानान्योश्च। ताद्दक्षः, सद्दक्षः, अन्याद्दक्ष इति।’द्दक्षे चेति’ वक्तव्यम्ऽ इति सभाव आत्वं च॥

Nyaas

अनालोचनमिह चक्षुज्र्ञानमात्रमभिप्रेतम्। यदि तत्र दृशिर्न वर्तत एवं प्रत्ययो भवति, नान्यथा। त्यादृक्, त्यादृशः इति। दृग्दृशवतुषु (6.3.89) इत्यनुवर्तमाने आ सर्वनाम्नः (6.3.91) इत्यात्वम्। कञो ञकारः `टिड्ढामञ इति विशेषणार्थः इति। यदि कञो ञकारो न कर्तव्यसत्दोदात्तार्थो नकारः कर्तव्यः। एवञ्च कञ्कन्नित्येवं (4.1.15) कर्तव्यम्। ततश्चैवमुच्यमाने यावादिभ्यः कन् (5.4.29) यादिकेत्यत्रापि ङीप् प्रसज्यते, अतस्तद्विशेषणार्थो ञकारः कर्तव्यः इति। ननु च दृशेर्दर्शनक्रियत्वात् तादृक् तादृश इत्यादिषु दर्शनक्रियाऽस्त्येव, तथा ह्रेषां व्युत्पत्तौ तं पश्यत्येवंप्रकारं वाक्यमुपदिश्याचार्याः प्रत्ययं कुर्वन्ति। वाक्यसमानार्था वृत्तिर्भवति, सा च दर्शनक्रिया ज्ञानार्थिका। तत्कथमत्र दृशिरनालोचने वर्तत इत्याह - तादृगादयो हि रूढिशब्दप्रकाराः`इत्यादि। रूढिशब्देषु नावयवार्थेन भवितव्यम्,किं तर्हि? समुदायार्थेन। अत एवात्रावयवार्थो नोपदीयते। व्युत्पत्त्यर्थस्तु विद्यमानोऽप्यवयवार्थ नोपादत्ते, यथा - व्याजिघ्रतीति व्याघ्र इत्यादौ। तस्मादिह यद्यपि व्युत्पत्त्यर्थं वाक्यस्य दर्शनक्रियोपादीयते, तथाप्यसौ वृत्तौ नास्त्येव। तथा हि - तादृक् तादृश इत्यादिभ्यः शब्देभ्यः सदृशवस्तुविषये प्रत्यय उपजायते, न तु दर्शनक्रियाविषय इति युक्तैव दृशेरनालोचने वृत्तिः।समानान्ययोश्चेति वक्तव्यम् इति। समानान्ययोश्च शब्दयोरुपपदयोर्दृशेः क्विन्कञौ प्रत्ययौ भवव इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूरवसूत्रादिह चकारोऽनुवर्तते, स चानुवतसमुच्चयार्थः। तेन समानान्ययोरुपपदयोर्दृशेः प्रत्ययौ भविष्यतः। सदृशः इति। समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु (6.3.84) इत्यनुवर्तमाने दृग्दृशवतुषु (6.3.89) इति सभावः॥

Praudhamanorama

अनालोचने किम्? तत्पश्यतीति तद्दर्शः। ‘कर्मण्यण्’ तादृशादयस्तु रूढिशब्दत्वादसताऽप्यवयवार्थेन व्युत्पाद्यन्ते। अत एव अज्ञानार्थाद् दृशेरिति सङ्गच्छते। भाष्ये तु—कर्मकर्तरि व्युत्पत्तिर्दर्शिता। तमिवेमं पश्यन्ति जनाः। स इवायं पश्यति। ज्ञानविषयो भवतीत्यर्थः। तत्र विषयत्वापत्तिमात्रवृत्तित्वेऽपि विषयीकरणाऽवृत्तित्वादज्ञानार्थादिति सङ्गच्छते।

Sudha

त्यदादिष्विति । चक्रारात् **स्पृशोऽनुदके क्विन्**(3.2.58) इत्यतः क्विन् अनुकृष्यते ।

Vartika

समानान्ययोश्चेति वक्तव्यम् ।

Sutra Prayogas

  • भवादृशेषु (किरातार्जुनीयम्): त्यदादिषु दृशोऽनालोचने कञ्च इति कञ् प्रत्ययः।

  • मादृग्भ्यो (भट्टिकाव्यम्): त्यदादिषु दृशो ऽनालोचने कञ्च इति क्विन्।

  • **** (भट्टिकाव्यम्): त्यदादिषु… इत्यादिना कञ्।

  • सदृशयो (भट्टिकाव्यम्): त्यदादिषु दृशोऽनालोचने कञ्च् इति कञ्-प्रत्ययः।