32052: लक्षणे जायापत्योष्टक्¶
Padacheda: लक्षणे | S | 7 | 1 |
जाया-पत्योः | S | 7 | 2 |
टक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix टक् comes after the verb हन् ‘to kill’ when it is in composition with the word जाया ‘wife’ or पति ‘husband’ as object and when the word so formed denotes the agent possessed of that attribute (or when the word so formed denotes a mark).
Vasu English Translation¶
The affix टक् comes after the verb हन् ‘to kill’ when it is in composition with the word जाया ‘wife’ or पति ‘husband’ as object and when the word so formed denotes the agent possessed of that attribute (or when the word so formed denotes a mark). The word लक्षणा of this sutra gives rise to the doubt whether it means लक्षणे कर्तरि or लक्षणवति कर्तरि. In the former case the meaning will be ‘when the agent is itself the mark’; as जायाघ्नः ‘a mole’ (a mark on the body indicative of the death of one’s wife). In the latter case the meaning will be ‘when the agent is possessed of the attribute denoted by the word’; as जायाघ्नः ‘the murderer of his wife’; पतिघ्नी ‘the murderer of her husband’.
Of the affix टक् the letters ट् and क् are indicatory. The ट् shows that the feminine is formed by ई, and क् causing elision of the penultimate अ of हन्. Thus जाया + हन् + टक् = जाया + ह्न् + अ (6.4.98) = जायाघ्नः (7.3.54).
Bhashya¶
लक्षणे जायापत्योष्टक् (819) (487 टक्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.19 सूत्रम्) (आक्षेपभाष्यम्) कथमिदं विज्ञायते - लक्षणे कर्तरि, आहोस्वित् लक्षणवति कर्तरीति। किं चातः?। यदि विज्ञायते - लक्षणे कर्तरी ति। सिद्धं जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखेति। इदं तु न सिध्यति - जायाघ्नो ब्राह्मणः, पतिघ्नी वृषलीति॥ अथ विज्ञायते - लक्षणवति कर्तरीति। सिद्धं जायाघ्नो ब्राह्मणः पतिघ्नी वृषलीति। जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखेति न सिध्यति॥ (प्रथमकल्पस्वीकरणभाष्यम्) अस्तु तर्हि लक्षणे कर्तरीति॥ (दूषणभाष्यम्) कथं जायाघ्नो ब्राह्मणः पतिघ्नी वृषलीति?। (दूषणोद्धारभाष्यम्) अकारो मत्वर्थीयः। जायाघ्नोऽस्मिन्नस्ति सोऽयं जायाघ्न इति॥ (आक्षेपभाष्यम्) पतिघ्नी वृषलीति न सिध्यति॥ (द्वितीयकल्पस्वीकरणभाष्यम्) अस्तु तर्हि लक्षणवति कर्तरीति॥ (दूषणस्मारणभाष्यम्) कथंजायाघ्नस्तिलकालकः पतिघ्नी पाणिरेखेति?। (समाधानभाष्यम्) अमनुष्यकर्तृके च इत्येवं भविष्यति॥ लक्षणे॥ 52 ॥
Kashika¶
हन्तेर्जायापत्योः कर्मणोरुपपदयोर्लक्षणवति कर्तरि टक् प्रत्ययो भवति। जायाघ्नो ब्राह्मणः। पतिघ्नी वृषली। अथ वा लक्षणे द्योत्ये टक् प्रत्ययः॥
Siddhanta Kaumudi¶
हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥
Balamanorama¶
लक्षणे जायापत्योष्टक् - लक्षणे । लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्नो नति । जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः ।गमहने॑त्युपधालोपः । पतिघ्नी स्त्रीति । पतिहननसूचनलक्षणवतीत्यर्थः । टित्त्वान्ङीप् ।
Tattvabodhini¶
लक्षणे जायापत्योष्टक् - लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्न इति । जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यवहारः । एवं पतिघ्नीत्यत्रापि बोध्यम् ।
Padamanjari¶
लक्षणे जायापत्योष्टक्॥ लक्षणवतीति। एतेनार्श आद्यच्प्रत्ययान्तो लक्षणशब्द इति दर्शयति। एतच्च सूत्रारम्भादेवावसीयते, केवले हि लक्षणे उतरेणैव सिद्धः प्रत्ययः। जायाध्नो ब्राह्मण इति। यस्य तिलकालादि जायामरणलिङ्गमस्ति स तां हन्तीति गौणो गदः। एतेन पतिघ्नी व्याख्याता।’गमहन’ इत्युपधालोपः, टित्वान्ङीप्॥
Nyaas¶
लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम्। तदस्यास्तीति तस्मिन् लक्षणवति। एतेन मत्वर्थीयाकारप्रत्ययान्तो लक्षणशब्दः सूत्र उपात्त इति दर्शयति, स च कर्त्तुः प्रत्ययस्य विशेषणमिति दर्शयन्नाह - लक्षमवति कर्तरि इति। अथ लक्षणशब्दस्योपपदत्वं कस्मान्न भवति? केचिदाहुः- हन्तेः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते;तत्र यदीह लक्षणस्योपपदत्वं स्यात्, तत् कर्मणा विशिष्येत। न च लक्षणं हन्तेः कर्मोपपद्यते, स हि हिंसायां वर्तते, हिंसा च प्राणिविषया। जायापत्योः प्राणिधर्मत्वात् कर्मत्वमुपपद्यते`इति, एतच्चानुपपन्नम् ; मत्वर्थीयाकारप्रत्ययान्तस्य लक्षणशब्दस्य प्राणिन्यपि वृत्तेः। व्याख्यानादेव लक्षणस्यानुपपदत्वं विज्ञायते। अनभिधानाद्वा। जायापत्योः कत्र्रोरभिधानं दृष्टम्। `जायाघ्नः`इति। कित्त्वात् `गमहन (6.4.98) इत्यादिनोपधालोपः, पूर्ववत् कुत्वम्। `पतिघ्नी`इति। टित्त्वान्ङीप्॥
Prakriyasarvasvam¶
हरेनयोः पूर्वयोः लक्षणे द्योत्ये टक् स्यात् ।