32057: कर्तरि भुवः खिष्णुच्खुकञौ

Padacheda: कर्तरि | S | 7 | 1 |

भुवः | S | 5 | 1 |

खिष्णुच्-खुकञौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The affixes खिष्णुच् and खकञ् , when the word to be formed denotes an agent comes after the verb भू ‘to become’, when it is in composition with the words formed by the affix च्वि though not actually ending in the affix च्वि।

Vasu English Translation

The affixes खिष्णुच् and खकञ् , when the word to be formed denotes an agent comes after the verb भू ‘to become’, when it is in composition with the words formed by the affix च्वि though not actually ending in the affix च्वि। Thus आढ्यम्भविष्णुः ‘becoming rich (who was not rich before)’; आढ्यम्भावुकः ‘becoming rich’; सुभगम्भविष्णुः or -भावुकः ‘becoming happy’; स्थूलम्भविष्णुः or -भावुकः ‘becoming big’; पलितम्भविष्णुः or -भावुकः ‘becoming grey’; नग्नम्भविष्णुः or -भावुकः ‘becoming naked’; अन्धम्भविष्णुः or -भावुकः ‘becoming blind’; प्रियम्भविष्णुः or -भावुकः ‘becoming an object of affection, amiable’.

Why do we say ‘when denoting the agent’? Not so when it denotes the instrument. The affixes will apply when the sense of the upapada is that of च्वि, otherwise not; as आढ्यीं भविता ‘he will be rich’.

These affixes will not apply when the upapada ends in च्वि; आढ्यी भविता ।

Bhashya

कर्तरि भुवः खिष्णुच्खुकञ्ञौ (824) (491 प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 । आ 19 सू.) (इकारादित्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत। तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तव्यो भवति। (प्रत्याक्षेपभाष्यम्) केनेदानीमिकारादित्वं क्रियते?। (2051 प्रत्याक्षेपसमाधानवार्तिकम्॥ 1 ॥) - इष्णुच इकारादित्वमुदात्तत्वात् कृतं भुवः- (भाष्यम्) भवतिरुदात्तस्तस्योदात्तत्वादिड्भविष्यति। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनं खिदयं क्रियते। तत्र चर्त्वे कृते संदेहः स्यात् - किद्वा, खिद्वेति॥ (प्रयोजननिराकरणभाष्यम्) संदेहमात्रमेतद्भवति। सर्वसंदेहेषु चेदमुपतिष्ठते - व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणमिति। खिदिति व्याख्यास्यामः॥ (2052 प्रत्योजनवार्तिकम्॥ 2 ॥) - नञ्ञस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः- (भाष्यम्) इदं तर्हि प्रयोजनं कृत्योकेष्णुच्चार्वा दयश्च इत्येष स्वरो यथा स्यात्॥ (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। अयमपि इटि कृते षत्वे णत्वे चेष्णुजेव भविष्यति॥ (प्रयोजनसाधकभाष्यम्) न सिध्यति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। अथ वा असिद्धं खल्वपि षत्वम्। तस्यासिद्धत्वादिष्णुजेव भवति॥ इष्णुच इकारादित्वमुदात्तत्वात् कृतं भुवः। नञ्ञस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः॥ कर्तरि भुवः॥ 58 ॥

Kashika

आढ्यादिषु सुबन्तेषूपपदेषु च्व्यर्थेष्वच्व्यन्तेषु भवतेर्धातोः कर्तरि कारके खिष्णुच् खुकञ् इत्येतौ प्रत्ययौ भवतः। अनाढ्य आढ्यो भवति आढ्यंभविष्णुः। आढ्यंभावुकः। सुभगंभविष्णुः। सुभगंभावुकः। स्थूलंभविष्णुः। स्थूलंभावुकः। पलितंभविष्णुः। पलितंभावुकः। नग्नंभविष्णुः। नग्नंभावुकः। (काठ०सं० २६.६)। अन्धंभविष्णुः। अन्धंभावुकः। प्रियंभविष्णुः। प्रियंभावुकः। कर्तरीति किम्? करणे मा भूत्। च्व्यर्थेष्वित्येवआढ्यो भविता। अच्वावित्येव — आढ्यीभविता।

उदात्तत्वाद् भुवः सिद्धमिकारादित्वमिष्णुचः।

नञस्तु स्वरसिद्ध्यर्थम् इकारादित्वमिष्यते॥

Siddhanta Kaumudi

आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आड्यो भवतीति आढ्यंभविष्णु । आढ्यंभावुकः । स्पृशोऽनुदके क्विन् (SK432) । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च (SK373) । व्याख्यातम् । त्यदादिषु दृशोऽनालोचने कञ्च (SK429) ।<!समानान्ययोश्चेति वाच्यम् !> (वार्तिकम्) ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः ।<!क्सोऽपि वाच्यः !> (वार्तिकम्) ॥ तादृक्षः । सदृक्षः । अन्यादृक्षः ॥

Balamanorama

कर्तरि भुवः खिष्णुच्खुकञौ - कर्तरि भुवः । खिष्णुचि खचावितौ । खुकञि खञावितौ । आढम्भविष्णुरिति । अनाढ आढओ भवतीति विग्रहः । आढम्भावुक इति । ञित्त्वाद्वृद्धिः । करणग्रहणाऽनुवृत्तिनिवृत्तये कर्तृग्रहणमम् । खिष्णुचि इकारस्तु व्यर्थ एव, इटा सिद्धेः । अच्वौ किम् । आढ्यीभविता । स्पृशोऽनुदके क्विन्निति — व्याक्यातं हलन्ताधिकारे । निवृत्तिमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययोश्चेति । अनयोरुपपदयोर्दृशः क्विन्कञावित्यर्थः । सदृक् सदृश इति । समानो दृश्यते इति न विग्रहः, कर्तर्येव क्विन्विधानात् । किन्तु कर्मकर्तरि क्विन्कञौ॥ समानः पश्यतीति विग्रहः । समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । ‘दृग्दृशवतुषु’ इति समानस्य सभावविकल्पऋ । तत्र ‘विभाषोदरे’ इत्यतो विभाषानुवृत्तेः,समानदृक् सदृक् । समानसदृशः सदृश॑ इति भाषाच्च । अन्यादृगिति । ‘आ सर्वनाम्नः’ इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः ।

Tattvabodhini

कर्तरि भुवः खिष्णुच्खुकञौ - कर्तरि भुवः । अच्व्यन्तेष्विति । अच्व्य्नतेष्विति । अच्वावित्यनुवर्तते । अन्यथा आढ्यीभविष्णुः आढ्यीभावुक इति स्यादिति भावः ।कर्तृग्रहणं करणाऽनुवृत्तिभ्रमनिरासार्थमुत्तरार्थ चे॑ति प्राञ्चः । वस्तुतस्तु व्यर्थमेव, अस्वरितत्वादेवाऽननुवृत्तिसिद्धेः, उत्तरत्राप्युपयोगो नेति स्पष्टीकरिष्यमाणत्वाच्च । खकारो मुमर्थः । चकारःचितः॑ अस्वरितत्वादेवाऽननुवृत्तिसिद्धेः, इकारादित्वसिद्धये इडागमे कृतेऽपिआगमा अनुदात्ताः॑ इति तस्याऽनुदात्तत्वात् । न चकृत्योकेष्णुच्चार्वादयश्चे॑ ति स्वरसूत्रे अस्य ग्रहणं न स्यात्, चकारानुबन्धाऽभावादिकारस्य लाक्षणिकत्वात्षत्वणत्वयोरसिद्धत्वेनेष्णु इतिरूपाऽभावाच्चेति वाच्यम्, कृतेऽपि इकारेतदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषया अलङ्कृञादीष्णुच एव ग्रहणं स्यान्न त्वेतस्य । इकारोच्चारणसामर्थ्यादस्याऽपि ग्रहणमिति चेद्धन्तैवं खष्णुजयमस्तु, तत्रेटि कृते चकारानुबन्धसामर्थ्यादस्यापि ग्रहणमस्त्विति किमिकारेणेति चिन्त्यमेतत् । न चेह लाघवाऽभावादिकारोऽस्तु, चकार एव मास्त्विति शङ्क्यम्,एकमात्रो ह्रस्वो व्यञ्जनं त्वद्र्धमात्रक॑मिति सर्वसंमतत्वात् । यत्तु हरदत्तेनोक्तं — षत्वणत्वयोः सामर्थ्यादस्य ग्रहणमिति , तदापाततः, रुआउजपेक्षया ष्णुजुक्तौ प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामर्थ्याऽयोगादिति दिक् । निवृत्तमिति । ननु स्पृशेः सकर्मकत्वात्कर्मण्युपद इत्येव प्राप्येतेति चेत् । अत्र प्राञ्चः — पूर्वसूत्रात्कर्तर इत्यनुवर्तते, सा चानुवृत्तिःकर्तरि कृ॑दित्यनेनैव कर्तरि क्विनः सिद्धत्वाद्व्यर्था सती कर्तृप्रचयार्था, कर्मण्युपपदे एकः कर्ता, करणादौ चाऽपर इत्येवं कर्तृप्रचयः, तथा चसुबन्ते उपपदे॑ इति फलितं भवतीति मन्त्रस्पृगित्यादेः क्विपाऽपि सिद्धेः । न च क्विपि कुत्वं न स्यादिति वाच्यं,क्विन्प्रत्ययो यस्मा॑दिति बहुव्रीहिबलादेवकुत्वसंभवादिति दिक् । सदृगिति । तमिवेमं पश्यन्ति जनाः, स इवायं पश्यति = ज्ञानविषयो भवतीति व्युत्पत्त्या कर्मकर्तर प्रत्ययः, रूढर्थानुगुणत्वात् ।

Padamanjari

कर्तरि भुवः खिष्णुच्खुलञौ॥कर्तग्रहणं करणनिवृत्यर्थम्, उतरार्थं च, खकारो मुमर्थः, चकारः स्वरार्थः, ञकारो वृद्ध्यर्थश्च। किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत, तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्? केनेदानीमिकारादित्वं सिद्ध्यति? तत्राह - उदातत्वादिति। भवतिरयमुदातः, तस्योदातत्वादिड् भविष्यति। नञस्त्विति।’नञः’ इति पञ्चमी, नञ उतरस्य खिष्णुजन्तस्य स्वरमिद्ध्यर्थमित्यर्थः। यद्ययमिकारादिर्नक्रियेत्, ततः सत्यपीटि’कृत्योकेष्णुच्चार्वादयश्च’ इत्यस्य ग्रहणं न स्याद् अस्य चकाराभावात्। अथास्यापि चकारः क्रियेत? एवमपि लाक्षणिकत्वात् षत्वणत्वयोश्चासिद्धत्वादिष्णुजिति रूपाभावाद् ग्रहणं न स्यादेव, तत इकारादित्वं क्रियते। ननु च सत्यपीकारादित्वे’तदनुबन्धकग्रहणे नातदनुबन्धकस्य’ ,ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति वा अलंकृञादीष्णुच एव ग्रहणेन भवितव्यम्,नास्य? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीति मन्यते। यद्येवम्, ख्ष्णुजयमस्तु, तत्र षत्वणत्वयोश्चकारस्य चज करणसामर्थ्यादिटि कृतेऽस्यापि ग्रहणं सिद्धमिति चिन्त्यप्रयोजनमकाराइदित्वम्॥

Nyaas

कर्तरि कारके इति। कर्त्तृग्रहणं करणनिवृत्त्यर्थम्। ननु चास्वसितत्वादेवानुवृत्तिर्न स्यात्? सत्यमेतत्; द्वेष्यमपि कश्चिदविजानीयात् - यथैवाढआदयोऽनुवर्तन्ते तथा तत्सम्बन्धकरणमपीति। उत्तरार्थञ्च कर्त्तृग्रहणम्।उदात्तत्वात् इत्यादि। उदात्तादितरोऽनुदात्तः, तेन भवतेर्विहितस्यार्धधातुकस्य एकाच उपदेशेऽनुदात्तात् (7.2.10) इतीट्प्रतिषेधो न भवति। बलादिलक्षणेटा (7.2.35) भवितव्यम्, ततश्च तेनैवेकारादित्वं सिद्धम्,ततो न कर्तव्यं खिष्णुच इकारादित्वमिति भावः। इकारादित्वकरणस्य प्रयोजनमाह - नञस्तु इत्यादि। यदि। खिष्णु च इकारादित्वं न क्रियते ततो यद्यपीटि कृते सतीकारदित्वं तस्य भवति, तथापि तस्य लाक्षणिकत्वात् कृत्योकेष्णुच्चार्वादयश्च (6.2.160) इत्यत्रेष्णुज्ग्रहणेन न ग्रहणं स्यात्। ततश्चानाढम्भविष्णुरिति नञ उत्तरस्योत्तरपदस्यान्तोदात्तत्वं न स्यात्िष्यते च। अतो नञ उत्तरस्योत्तरपदान्तोदात्तत्वंम्, तेनेकारादित्वमिष्णुचः क्रियते। ननु च सत्यपीकारादित्वे अलंकृञादिसूत्रे (3.2.136) विहितस्यैवेष्णुचो ग्रहणेन भवितव्यम्, नेतरस्य , तस्यैकानुबन्धकत्वात्, अस्य द्वयनुबन्धकत्वात्? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीत्यदोषः। खकारो मुमर्थः; चकारः स्वरार्थः, ञकारो वृद्ध्यर्थः॥

Prakriyasarvasvam

प्राग्वादाढ्यादिषु पूर्वेषु भुवः कर्त्रर्थेतौ स्तः । आढ्यम्भविष्णुः आढ्यम्भावुक इत्यादि । अनाढ्य आढ्यो भवन्नित्यर्थः । भयाढ्यादिषु तदन्तविधिरिति महाढ्यङ्करणम् । असुभगम्भविष्णुः । शीतप्रियम्भावुकः । आयुक्त्या अन्यत्राप्युपपदे तदन्तविधेराग्नेयनाडिन्धमा इत्याहुः ।

Sutra Prayogas

  • आढ्यंभविष्णुर् (भट्टिकाव्यम्): कर्तरि भुवः इति खिष्णुच् ।

  • प्रियं-भावुक-तामगात् (भट्टिकाव्यम्): आढ्यसुभगेत्यधिकृत्य कर्तरि भुवः खिष्णुच् खुकनौ इति खुकञ्।

  • सुभगं-भावुकं (भट्टिकाव्यम्): कर्तरि भुवः इति खुकन् प्रत्ययः।