32043: मेघर्तिभयेषु कृञः¶
Padacheda: मेघ-ऋति-भयेषु | S | 7 | 3 |
कृञः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix खच् comes after the verb कृ ‘to make’ when the words मेघ ‘cloud’ अर्ति ‘misfortune’ and भय ‘fear’ are in composition as objects.
Vasu English Translation¶
The affix खच् comes after the verb कृ ‘to make’ when the words मेघ ‘cloud’ अर्ति ‘misfortune’ and भय ‘fear’ are in composition as objects. As मेघङ्करः ‘producing clouds’; ऋर्तिकरः ‘giving pain’; भयङ्करः ‘frightful’.
Vart:- The tadanta vidhi applies in the case of upapadas like भय. &c. This is an exception to the vartika under (1.1. 72.) by which, in the case of affixes, tadanta-vidhi was prohibited. Thus we have अभयङ्करः ‘who causes security’.
Kashika¶
मेघ ऋति भय इत्येतेषु कर्मसूपपदेषु कृञः खच् प्रत्ययो भवति। मेघंकरः। ऋतिंकरः। भयंकरः। उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति। अभयंकरः॥
Siddhanta Kaumudi¶
मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥
Padamanjari¶
मेघर्तिभयेषु कृञः॥ करोतेरिति। कृणोतेस्तु पूर्ववदेवाग्रहणम्। शिवंकर इत्यपि च्छन्दसि द्दश्यते - शिव एको ध्येयः शिवंकर इति॥
Nyaas¶
उपपदविधौ इत्यादि। ननु चाभयशब्दो नञ्समासे सिध्यत्येव? नैवं शक्यम्, सतिशिष्टत्वाद्धि तत्पुरुषे तुल्यार्थ (6.2.2) इति पूर्वपदप्रकृतिस्वराद्युदात्तत्वं स्यात्, {गतिकारकोपपदात् कृत् इति सूत्रम्} गतिकारकोपपदानाम्` (6.2.138) इत्यादिनान्तोदात्तत्वं चेष्यते। तस्मात् कर्तव्यम्। अपवादत्वात् खजयमणं बाधते, हेत्वादिविवक्षायाञ्च परत्वाट्टप्रत्ययमपि॥
Prakriyasarvasvam¶
मेघङ्करः । ऋतिर्गतिः, ऋतिङ्करः । भयङ्करः भयाढ्यादिषु तदन्तविधि- रित्यभयङ्करोऽपि ।
Sutra Prayogas¶
भयंकरः (किरातार्जुनीयम्): मेघर्तिभयेषु कृञः इति खच्प्रत्ययः।
भयङ्करतां (शिशुपालवधम्): मेघर्तिभयेषु कृजः इति खच्प्रत्यये मुमागमः।
भयङ्करा (शिशुपालवधम्): मेघर्तिभयेषु कृञः इति खच्प्रत्ययः।
मेघं-करम् (भट्टिकाव्यम्): मेघर्तिभयेषु कृञः इति खच् प्रत्ययः।