Sutras 61 - 73¶
- 23061: प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने
- 23062: चतुर्थ्यर्थे बहुलं छन्दसि
- 23063: यजेश्च करणे
- 23064: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे
- 23065: कर्तृकर्मणोः कृति
- 23066: उभयप्राप्तौ कर्मणि
- 23067: क्तस्य च वर्तमाने
- 23068: अधिकरणवाचिनश्च
- 23069: न लोकाव्ययनिष्ठाखलर्थतृनाम्
- 23070: अकेनोर्भविष्यदाधमर्ण्ययोः
- 23071: कृत्यानां कर्तरि वा
- 23072: तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्
- 23073: चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः