23065: कर्तृकर्मणोः कृति

Padacheda: कर्तृ-कर्मणोः | S | 7 | 2 |

कृति | S | 7 | 1 |

Sutrartha


Vasu English Summary

The 6th-Case-affix is used after a word, in denoting the agent and the object, when used along with a word ending with a कृत्-affix –कृदतिङ् (3.1.93).

Vasu English Translation

The 6th-Case-affix is used after a word, in denoting the agent and the object, when used along with a word ending with a कृत्-affix –कृदतिङ् (3.1.93). Ex. क्रियां कालिदासस्य ‘the composition of Kalidasa.’ आहता क्रतूनां ‘the performer of sacrifice.’ So also भवतः शायिका ‘your turn of lying down.’ अपां स्रष्टा, पुरां भेत्ता वज्रस्य भर्त्ता. But not in शस्त्रेण भेत्ता ‘cutting with weapon.’

Why do we say ‘krit?’ Not so when a Taddhita-affix is employed as कृतपूर्वीकटं. In other words, the genitive in Sanskrit is both subjective and objective.

Bhashya

कर्तृकर्मणोः कृति 523 330 कारकषष्ठीसूत्रम् ॥ 2.3.3 आ.8) (कृद्ग्रहमप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) कृद्ग्रहणं किमर्थम्? ॥ (समाधानभाष्यम्) इह मा भूत् - पचत्योदनं देवदत्त इति ॥ (1537 आक्षेपवार्तिकम् ॥ 1) - कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यं लप्रतिषेधात् - (भाष्यम्) कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणमनर्थकम्। किं कारणम्? लप्रतिषेधात्। प्रतिषिध्यतेत्र षष्ठी लप्रयोगे न इति। (आक्षेपपरिहारभाष्यम्) तस्य कर्मकर्त्रर्थं तर्हि कृद्ग्रहणं कर्तव्यम्। कृतो ये कर्तृकर्मणी तत्र यथा स्यादन्यस्य ये कर्तृकर्मणी तत्र मा भूदिति ॥ (परिहारबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। धातोर्हि द्वये प्रत्यया विधीयन्ते तिङश्च कृतश्च। तत्र कृत्प्रयोग इष्यते तिङ्प्रयोगे प्रतिषिध्यते ॥ (परिहारसाधकभाष्यम्) न ब्रूमः - इहार्थं तस्य कर्मकर्त्रर्थं कृद्ग्रहणं कर्तव्यमिति। किं तर्हि?। उत्तरार्थम् - अव्यययोगे नइति षष्ठ्याः प्रतिषेधं वक्ष्यति, स कृतोव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात्। अकृतोव्ययस्य ये कर्तृकर्मणी तत्र मा भूद् - उच्चैः कटानां स्रष्टेति ॥ (1538 आक्षेपसाधकवार्तिकम् ॥ 2) - तस्य कर्मकर्त्रर्थमिति चेत्प्रतिषेधेपि तदन्तकर्मकर्तृत्वात्सिद्धम् - (भाष्यम्) कृत एते कर्तृकर्मणी नाव्ययस्य। अधिकरणमत्राव्ययम् ॥ (समाधानान्तरभाष्यम्) इदं तर्हि प्रयोजनम् - उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधं वक्ष्यति, स कृतो ये कर्तृकर्मणी तत्र यथा स्यात्। कृतोर्ये कर्तृकर्मणी तत्र मा भूदिति। आश्चर्यमिदं वृत्तमोदनस्य च नाम पाको ब्राह्मणानां च प्रादुर्भाव इति ॥ (आक्षेपभाष्यम्) अथ क्रियमाणेपि कृद्ग्रहणे कस्मादेवात्र न भवति? ॥ (समाधानभाष्यम्) उभयप्राप्तौ इति नैवं विज्ञायते - उभयोः प्राप्तिरुभयप्राप्तिः उभयप्राप्ताविति ॥ कथं तर्हि?। उभयोः प्राप्तिर्यस्मिन्कृति सोयमुभयप्राप्तिः कृद् उभयप्राप्ताविति ॥ (सिद्धान्तसमाधानभाष्यम्) अथ वा कृतो ये कर्तृकर्मणी तत्र यथा स्यात्। तद्धितस्य ये कर्तृकर्मणी तत्र मा भूदिति। कृतपूर्वी कट भुक्तपूर्वो ओदनमिति ॥ (आक्षेपभाष्यम्) ननु च वाक्येनैवानेन न भवितव्यम् ॥ तत्र द्वितीयया तावन्न भवितव्यम्। किं कारणम्?। क्तेनाभिहितं कर्मेति कृत्वा ॥ इनिप्रत्ययेन चापि नोत्पत्तव्यम्। किं कारणम्?। असार्मथ्यात् ॥ कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति ॥ (आक्षेपपरिहारभाष्यम्) यत्तावदुच्यते - द्वितीयया तावन्न भवितव्यम्। किं कारणम्?। क्तेनाभिहितं कर्मेति कृत्वेति ॥ योसौ कृतकटयोरभिसंबन्धः स उत्पन्ने प्रत्यये निवर्तते। अस्ति च करोतेः कटेन सार्मथ्यमिति कृत्वा द्वितीया भविष्यति ॥ यदप्युच्यते - इनिप्रत्ययेन चापि नोत्पत्तव्यम्। किं कारणम्?। असार्मथ्यात्। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति ॥ नेदमुभयं युगपद्भवति वाक्यं च प्रत्ययश्च। यदा वाक्यम्, न तदा प्रत्ययः। यदा प्रत्ययः, सामान्येन तदा वृत्तिः। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः - कृतपूर्वी किम?। कटम्। भुक्तपूर्वी किम्?। ओदनमिति ॥ (समाधानान्तरभाष्यम्) अथ वा इदं प्रयोजनम् - कर्तृभूतपूर्वमात्रादपि षष्ठी यथा स्यात् - भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति ॥ कर्तृक ॥ 65 ॥

Kashika

कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति। भवतः शायिका। भवत आसिका। कर्मणि — अपां स्रष्टा। पु॒रां भे॒त्ता (तु० — ऋ० ८.१७.१४)। वज्र॑स्य भ॒र्त्ता (तै०सं० १.४.२८.१)। कर्तृकर्मणोरिति किम्? शस्त्रेण भेत्ता। कृतीति किम्? तद्धितप्रयोगे मा भूत्। कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। शेष इति निवृत्तम्, पुनः कर्मग्रहणात्। इतरथा हि कर्तरि च कृतीत्येवं ब्रूयात्॥

Siddhanta Kaumudi

कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ।<!गुणकर्मणि वेष्यते !> (वार्तिकम्) ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् ? तद्धिते माभूत् । कृतपूर्वी कटम् ॥

Balamanorama

कर्तृकर्मणोः कृति - कर्तृकर्मणोः कृति । कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह — कृद्योग इति । तत्र कर्तर्यु दाहरति — कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णक्रतृका सृष्टिरित्यर्थः । कर्मण्युदाहरति-जगत इति । जगत्कर्मकसृष्टनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मकधातुयोगेऽप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी ।अकथितं चे॑त्यत्र भाष्ये स्थितमेतत् । नेताऽआस्येति ।अकथितं चे॑त्यत्रग्राममजां नयती॑त्युदाहरणे अजा प्रदानं कर्म, ग्रामस्तु गुणकर्मेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अआः प्रधानकर्म, रुआउघ्नस्तु गुणक्रमेति ज्ञेयम् । स्यादेतत् — कृतीति व्यर्थम् । नच तिङ्व्यावृत्त्यर्थं तदिति वाच्यम्,ओदनं पचती॑त्यादौन लोके॑ति लादेशयोगे षष्ठीनिषेधादेव षष्ठभावसिद्धेः ।शतेन क्रीतः शत्योऽआः॑ इत्यादौ तु तद्धितयप्रत्ययाभिहितत्वादेवाऽआआदेः षष्ठी न भविष्यति । न च देवदत्तं हिरुगित्यादौ हिरुगाद्यव्ययबोध्यवर्जनादिक्रियां प्रति कर्मंत्वादनेन षष्ठी शङ्क्या,न लोकाव्यये॑ति तन्निषेधात् । शेषत्वविवक्षायां तु षष्ठत्र इष्यत एव । एवञ्च परिशेष#आत्कृद्योग एवेयं षष्ठी पर्यवस्यतीति किं कृद्ग्रहणेनेति पृच्छति — कृति किमिति । उत्तरमाह — तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्वं कृतोऽनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रियाविशेषणं । ‘सुप्सुपा’ इति समासः । अनेनेत्यनुवृत्तौ क-तपूर्वशब्दात् ‘पूर्वादिनः’सपूर्वाच्चे॑ति इनिप्रत्ययस्तद्धितः । तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयोगान्न भवति । ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न संभवति, कृतशब्दस्य कटशब्दापेक्षत्वेन सामर्थ्यविरहात् । अत एव तद्धितैनिप्रत्ययोऽपि दुर्लभः । किञ्च कृतमिति क्तप्रत्ययेन कटस्य कर्मणोऽभिंहितत्वेन ततः षष्ठ्याः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्ग्रहणेन । क्तप्रत्ययेन कुता अभिहितत्वादेव कटाद्द्वितीयापि दुर्लभेति चेत्, मैवम्, कृत अम् पूर्वं अम् इत्यलौकिकविग्रहवाक्ये कटस्याऽसंनिहिततया कर्मत्वेनान्वयाऽसंभवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्याऽसंभवे सति ‘नपुंसके भावे क्तः’ इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाऽभावात्समासतद्धितौ निर्बाधौ । ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्व कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिति कर्मजिज्ञासायां कटमित्यन्वेति, गुणभूतयापि क्रियया कारकसंबन्धस्य कटं कृतवानित्यादौ दर्शनात् । तच्च कर्मत्वं न क्तप्रत्ययेनाभिहितम्, तस्य भावे विधानात् । नापीनिप्रत्ययेन, तस्य कर्तरि विधानात् । तथाच असति कृद्ग्रहणे षष्ठी स्यात् । तन्निवृत्त्यर्थं कृद्ग्रहणमिति भाष्ये स्पष्टम् । न च निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यं,नपुंसके क्ते भावे षष्ठआ उपसङ्ख्यान॑मिति ‘क्तस्य च वर्तमाने’ इति सूत्रस्थवार्तिकेन निष्ठायोगे षष्ठीनिषेधस्यात्राऽप्रसक्तेः । तथाच षष्ठभावे उक्तरीत्याऽनबिहितत्वाद्द्वितीया सुलभैव । नच कृतेऽपि कृद्ग्रहणे षष्ठी दुर्वारा, कृतेति क्तप्रत्ययात्मककृद्योगस्य सत्त्वादिति वाच्यं, कृद्ग्रहणसामर्थ्येन भाष्योदाहरणेन च वृत्त्यन्तर्भावानापन्नकृद्योगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्तर्भूतत्वान्न तद्योगः षष्ठीनिमित्तम् । नचैवं सति ‘ओदनस्य पाचकतमः’ओदनस्य पाचकग्रहण॑मित्यादौ षष्ठी न स्यात् , वृत्त्यनन्तर्भूतकृद्योगाऽभावात् । तथाच ओदनं पाचकतमः, ओदनं पाचकग्रहणमिति द्वितीयैव स्यादिति वाच्यम्, इष्टापत्तेः । अत एव मतुबधिकारेप्रज्ञाश्रद्धार्चाभ्यो णः॑ इत्यत्रप्राज्ञो व्याकरण॑मित्युदाहरिष्यते मूलकृता । नचैवं ‘घटः क्रियत’ इत्यत्रापि कर्मणो विवक्षाऽभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनाऽन्वयसंभवादनभिहितत्वाद्द्वितीया दुर्वारेति वाच्यं, वैषम्यात् । कृतपूर्वीत्यत्र हि अलौकिकविग्रहदशायां कटशब्दस्याऽसंनिधानात् कर्मणो विवक्षा न संभवतीति भावे क्तप्रत्यय इति युक्तमाश्रयितुम् । ‘क्रियते’ इत्यत्र तु न संभवत्येवाऽविवक्षा, कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तर्भूतत्वेन वृत्तिशून्यतया विग्रहाऽभावात् । तथाच वृत्तिविषयएवायं व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु ‘ओदनं पाचकतम’ इत्यादौ द्वितीयाऽसाधुरेव, षष्ठएव साधुरिति प्रपञ्चितम् । विस्तरभयान्नेह तल्लिख्यते । ननु भट्टिकाव्येददैर्दुःखस्यमादृग्भ्यो धायैरामोदमुत्तमम् । लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः॑ इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी । मादृग्भ्यो दुःखं ददैः=ददद्भ#इ#ः, पुष्पादीनामामोदं=परिमलं धायैः=पोषकैः, तनोः=तनुं शरीरं लिम्पैः=लिम्पद्भिः कः चेतयः=प्राणी, ज्वलः=ज्वलन्निव न स्यादित्यर्थः । अत्रामोदस्योत्तमस्येति कर्मणि षष्ठआ भाव्यम् । धायशब्दस्य पोषणार्थकधाञ्धातोः ‘ददातिदधात्योः’ इति णप्रत्ययात्मककृदन्तत्वादिति चेत्, न, उत्तममामोदं पुष्पादीनां गृहीत्वा दुःखस्य पौषकैरित्येवं गृहीत्वेत्यध्याह्मत्य तद्योगे द्वितीयाया उपपत्तेः ।

Tattvabodhini

कर्तृकर्मणोः कृति - कर्तृकर्मणोः कृति । शेष इति निवृत्तं,कर्तरि च कृति॑ इति सूत्रे कृते चकारेणअधीगर्थ -॑इति सूत्रात्चतुथ्र्यर्थे बहुलं छन्दसि॑ इति पर्यन्तमनुवर्तमानस्य कर्मणीत्यस्यानुकर्षणसम्भवेऽपि पुनरत्र कर्मग्रहणात् । तस्माव्द्याख्यानमेवात्र शरणमित्यपरे । कर्तृकर्मणोः किम् । शस्त्रेण भेत्ता । कृतिरिति । करणं कृतिः ।स्त्रियां क्तिन् । कृष्णोऽत्र कर्ता । कर्मण्युदाहरति -जगत इति । कृष्णस्य तृचाऽभिहितत्वात्ततः षष्ठी न भवति । कृति किमिति । नन्विह कर्तृकर्मभ्यां क्रिया आक्षिप्यते, तद्वाची तु धातुरेव । धातोश्च द्वये प्रत्ययाः, कृतस्तिङश्च । तत्र तिङ्प्रयोगे कटं करोतीत्यादौन लोका -॑इति प्रतिषेधेन भाव्यम् । ततश्च परिशेषात्कृद्योगे एव षष्ठी भविष्यति, त[स्मा]त्क कृद्ग्रहणेनेति प्रश्नः । गुणकर्मणि वेष्यते । कृतपूर्वी कटमिति । अत्र करोतिक्रियापेक्षमनभिहितं कर्मत्वं कटस्याऽस्त्येवेति षष्ठी स्यात् । तद्धिताधिक्ये तु सा मा भूदित्येतदर्थं कृद्ग्रहणमिति भावः । ननु कृतः कटः पूर्वमनेनेत्यस्मिन् विग्रहे क्तस्य कर्मणि विधानात्तेनैवाऽभिहितं कर्मेति नैव द्वितीया प्राप्नोति, नापि तदपवादभूता षष्ठी, इहाप्यनभिहिताधिकारात् । किञ्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभ एव, एवं तद्धितोऽपीति चेत् । अत्राहुः — पूर्वं कृतमनेनेति विग्रहे अविवक्षितकर्मतया भावे क्तप्रत्यये कृते कृतशब्दस्य कटसापेक्षत्वाऽभावात्समासतद्धितौ भवत एव । तथाचकृपूर्वी॑त्ययं पूर्वं कृतवान् इत्यनेन समानार्थः सम्पद्यते, गुणभूतयापि क्रियया कारकाणां सम्बन्धस्य कटं कृतवानित्यादौ दर्शनादत्रापि करोति क्रियापेक्षं कर्मत्वं कटस्याभ्युपगम्यते । तच्च कर्मत्वें न केनाप्यभिहितम् ।भावे क्तस्य, कर्तरि इनिप्रत्ययस्य च विधानात् । अतोऽसति कृद्ग्रहणे षष्ठी स्यादेवेति । एवं चओदनस्य पाचकतम॑इत्यत्र षष्ठआ असाधुत्वे इष्टापत्तिरेव शरणम् ।कृतपूर्वी॑त्यत्र समासतद्धितौ भवत एवेत्युक्तम् ।तत्र समासःसुप्सुपा॑ इति बोध्यः । तद्धितस्तुपूर्वादिनिः॑सपूर्वाच्च॑ इति कर्तरि इनिः, तद्विधौश्राद्धमनेन॑इति सूत्रादनेनेत्यनुवृत्तेः । स्यादेतत्-भिदेण्र्यन्तात्पर्यायार्हणोत्पत्तिषु॑इति ण्वुचिभेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठाना॑मित्युभाम्यामप्यनेन कृद्योगषष्ठी जायते, तत्र मुख्याऽमुख्यसन्निधौ मुख्ययस्यैव कार्ये सम्प्रत्ययात्प्रयोजककर्तृवाचकादेव स्यात् । अन्यथापाचयत्योदनं देवदत्तेन यज्ञदत्त॑ इत्यत्र प्रयोज्यप्रयोजकयोरुभयोरपि लकतारवाच्यत्वे उभाभ्यामपि कर्तृवाचकाङ्यां प्रथमा स्यात् । मैवं । प्रयोज्यप्रयोजकवाचकाभ्यां भेदेन षष्ठी जायते न त्वेकैवेति नेह मुख्याऽमुख्यान्यायप्रवृत्तिः । तत्र तु लकारस्यैकत्वात्कर्तुस्तद्वाच्यत्वकल्पनायामुक्तन्यायः प्रवर्तत इति वैषम्यात् । एवं चसओदनः पाच्यते देवदत्तेन यज्ञदत्तेने॑त्यादावुभाभ्यमपि तृतीया स्यादेवेति बोध्यम् । अत्र व्याचक्षते — ॒तदर्हमि॑ति निर्देशात्कर्तृकर्मणोः कृति॑ इत्येतदनित्यम् । तथाच॒धायैरामोदमुत्तमम् इति भट्टिप्रयोगः सङ्गच्छतीति ।

Padamanjari

कर्तृकर्मणोः कृति। इह क्रियायाः साधनं भवतीति। कर्तृकर्मभ्यां क्रिया सन्निधाप्यते, धातुरेव क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च। तत्र तिङ्प्रयोगे’न लोकाव्यय’ इति लप्रतिषेधेन भाव्यम्। स चावश्यं लप्रतिषेधः कर्तव्यः, ये कृतो लादेशास्तदर्थम् - ओदनं पचन्, ओदनं पचमानः पपिः सोमम्,ददिर्गा इति, इह तु नार्थः कृद्ग्रहणेनेति मत्वा पृच्छति - कृतीति किमिति। कृतपूर्वी कटमिति। ननु कृतः कटः पूर्वमनेनेत्यस्मिन्विग्रहे क्तस्य कर्मणि विधानातेनैव कर्मणोऽभिहितत्वान्नैव द्वितीया भाव्यम्, एवं च तदपवादः षष्ठ।ल्पि न प्राप्नोति; इहाप्यनभिहिताधिकारात्, कृतशब्दस्य च कटापेक्षस्य समासो दुर्लभः, एतेन तद्धितो व्याख्यातः, तस्मादयमसाधुरेव प्योगः? सत्यम्, विशेषविवक्षायां नैव समासतद्धितौ भवतः, यदा तु कृतं पूर्वमनेनेति कर्मसामान्ये भावे वा क्त उत्पद्यते तदा सापेक्षत्वाभावात्समासः, केन?’सुप्सुपा’ इति, ततः’पुर्वादिनिः’ ‘सपूर्वाच्च’ इतीनिः प्रत्ययः। न च कटस्य क्तेनाभिधानं करोतेरुत्पद्यमानः क्तप्रत्ययः कर्मसामान्यमेवाह, विशेषकर्मसंबन्धातु तस्याभिधानम्, न चात्र तद्धितेनैकार्थीभूतस्य निष्कृष्य कटेन संबन्धः सम्भवति, क्रियया तु गुणभूतया कारकाणां सम्बन्धो भवति, यथा - कट्ंअ कृतवानिति। कृतपूर्वीशब्दश्चायं पूर्व कृतमनेत्यस्मिन्नर्थे व्युत्पादितः पूर्वं कृतवानित्यनेन समानार्थः संपद्यते, तत्र करोतिक्रियापेक्षमस्ति कटस्य कर्मत्वम्, अनभिहितं च तदिति कृद्ग्रहणे षष्ठी स्याद्। यत्र च निष्ठान्तेन शब्देन कर्तृकर्मणोः संबन्धस्तत्रैव निष्ठाश्रयः प्रतिषेधः, यथा - कट्ंअ कृतवान्, कृतः कटो देवदतेनेति, इह तु कृतस्य कटेन संबन्धो न भवतीत्युक्तमेव। अथ तु वस्तुतो निष्ठान्ते पदे धातुवाच्यक्रियापेक्षे ये कर्तृकर्मणी तयोः प्रतिषेधः, तथा सति नेदं कृद्ग्रहणस्य प्रयोजनम्, तेनैतदपि निरस्तम्। असति कृद्ग्रहणे, कट्ंअ कारयति पाचयत्योदनं देवदतो यज्ञदतेनेति णिच्प्रकृतेः पचेरर्थ प्रति कर्तृकर्मणोः षष्ठीप्रसङ्गः। सति तु कृद्ग्रहणे, णिचोऽकृत्वान्न भवतीति कथमिव निरस्तम्’न लोक’ इत्यत्र नैवं ज्ञायते - लप्रकृतिभूतस्य धातोर्ये कर्तृकर्मणी इति, किं तर्हि? लान्ते पदे या क्रियोच्यते प्राधान्येन गुणभावेन वा, तत्र ये कर्तृकर्मणी तयोः षष्ठी न भवतीति तेनेदमप्यप्रयोजनम्। अथ स्याद् -‘नलोकाव्यय’ इत्यत्राव्ययविशेषणार्थं कृद्ग्रहणम्, तेनोच्चैः कटानां स्प्रष्टेत्यत्राकृतोऽप्यव्ययस्य प्रयोगे निषेधाभाव इति, तदपि न; अव्ययेन कर्तृकर्मणी विशेषयिष्यामः - अव्ययस्य ये कर्तृकर्मणी तयोः षष्ठी नेति, न चाकृत उच्चैसः कर्तृकर्मणी सम्भवतः। इह तर्हि करोतीति कृदिति कृच्छब्देन कर्तोच्यते, तत्र कर्तृकर्मणोरित्येव षष्ठ।लमपि सिद्धायां पुनर्विधानं गुणभूतेऽति कर्तरि यथा स्यात् - भेदिकादेवदतस्य यज्ञदतस्य काष्ठानामिति, भिदेर्ण्यन्तात्पर्यायादिनाण्वुच्, अत्र ण्यर्थस्य प्राधान्यात्प्रयोजककर्ता प्रधानम्, प्रयोज्यकर्ता तु प्रकृत्यर्थस्य गुणभावाद्गुणभूत इति प्रधानेतरसन्निधौ प्रधानादेव स्यात्, कृद्ग्रहणादप्रधानादपि भवति, एतदपि नास्ति प्रयोजनम्; तृतीयावत् सिद्धम्, तद्यथा - पाचित ओदनो देवदतेन यज्ञदतेनेत्यादौ प्रधानाप्रधानयोर्द्वयोरपि कर्त्रोस्तृतीया भवति, तत्कस्य हेतोः? एकशब्दवाच्यत्वाभावेन विरोधाभावात् तथा षष्ठ।ल्पि भविष्यति। इह तर्हि प्रयोजनम्, ठुभयप्राप्तौ कर्मणिऽ इति बहुव्रीहिर्यथा स्याद्, अन्यथान्यपदार्थस्यानुपातत्वातत्पुरुषः स्यातत्र चानिष्ट्ंअ वक्ष्यते। यद्येवम्, उतरत्रैव कृद्ग्रहणम् कर्तव्यम्, अथ वा - अनुपातेऽप्यन्यपदार्थे व्याख्यानाद् बहुव्रीहिर्भविष्यति, यथा - ठेकाचो द्वे प्रथमस्यऽ इति, तदेतत्कृद्ग्रहणं चिन्त्यप्रयोजनम्। केचिदाहुः - इहैव तद्धितनिवृत्यर्थं कृद्ग्रहणमिति प्रजानातिति प्रज्ञः प्रज्ञ एव प्राज्ञः’प्रज्ञादिभ्यश्च’ इति स्वार्थिकेऽणि कृते व्याकरणं प्राज्ञ इत्यत्र षष्ठी न भवति। ननु क्रियमाणेऽपि कृद्ग्रहणे कस्मादेवात्र न भवति, यावता भवत्येव कृतोऽत्र प्रयोगः,न ह्यत्रैतच्छक्यं वक्तुम् - प्रत्ययार्थेनैकार्थीभूतस्य कृदन्तस्य निष्कृष्य व्याकरणेन संबन्धो न सम्भवतीति प्रत्ययस्य स्वार्थिकत्वेनार्थान्तराभावात्? नैष दोष;कृद्ग्रहणसामर्थ्यात्कृदन्तेनैव योगे षष्ठी विज्ञास्यते, इह तु कृता तद्धितेन चैकरूपः संबन्ध इति न भविष्यतीत्यलमतिक्षोदेन! शेष इति निवृतमिति। तेनाप्राप्ता षष्ठी विधीयत इत्यस्याः समासो भवतीति कृद्योगा च षष्ठी समस्यत इति न वक्तव्यं भवति॥

Nyaas

आसिका इति। भावे पर्यायार्हणोत्पत्तिषु ण्वुच् (3.3.111) । रुआष्टा`इति। सृजेस्तृच्सृजिदृशोर्झल्यमकिति (6.1.58) इत्यम्, व्रश्चादिना (8.2.36) षत्वम्।`तद्धितप्रयोगे मा भूत् इति। अथ तिङप्रयोगे मा भूदित्येवमर्थमपि कृद्ग्रहणं कस्मान्न भवति? तत्र न लोकाव्ययनिष्ठा (2.3.69) इत्यनेन षष्ठीप्रतिषेधात्। ` कृतपूर्वी कटम्` इति। पूर्वादिनिः (5.2.86) इत्यत्र इनिरित्यनुवर्तमाने सपूर्वाच्च (5.2.87) इतीनिप्रत्ययः। अत्र कर्ता तद्धितेनैवोक्त इत्यत्र वाक्यमेवैतन्नोपप्रसङ्गो नास्ति, कर्म तु तेनानभिहितमित्यसति कृद्ग्रहणे कटादेः कर्मणः षष्ठी स्यात्। ननु चात्र वाक्यमेवैतन्नोपपद्यते, तथा हि - कर्मणो निष्ठयाऽभिहितत्वात् द्वितीययाऽत्र न भवितव्यम्, नापि तद्धितेन, असमाथ्र्यात्। तत्पुनरसामर्थ्य सापेक्षत्वात्। तथा हि - कृतः कटः पूर्वमनेनेति कृतशब्दः कटमपेक्षते, नैवम्; धातोरुत्पद्यमाना निष्ठा कथं कटशब्दस्य कर्मतामभिदध्यात्। तस्या हि कर्मसामान्यमेवाभिधातुं सामर्थ्यम्, न कर्मविशेषम्। वाक्ये तर्हि कथं तया कटशब्दस्य कर्मत्वमभिधीयते? तत्र युक्तमभिधानम्; कृत इत्यनेन सामानाधिकरण्यात्। तद्धिते तूत्पन्न एकार्थीभावात्सामानाधिकरण्यं निवृत्तमिति केन कटादेः कर्मभावोऽभिधीयते? क्रिया तु प्रकृत्यर्थत्वाद्यथा वाक्ये गुणीभूता साधनसम्बन्धमनुभवति, तथा वृत्तावपीति करोत्यर्थापेक्षं कटशब्दस्य कर्मत्वमुपपद्यते। तस्माद्धवितव्यमेव द्वितीयया।किञ्च वृत्तिसमानार्थेन वाक्यन भवितव्यम्। न च वृत्तौ बाह्रं कटादिकं कर्म गम्यते येन प्रत्यय उत्पादयिष्यते। वाक्ये कटादिकर्मापेक्षा निष्प्रयोजनेति गम्यते। तस्मादेवं विग्रहः कर्तव्यः - कृतं पूर्वमनेनेति। ततश्च नास्ति सापेक्षत्वमिति भवत्येव तद्धितः।इतरथा हि इति। यदि शेषगर्हणमनुवर्तत इत्यर्थः। कर्तरि च कृतीत्येवं ब्राऊयात् इति। एवमपि ह्रुच्यमाने शेष इत्यनुवृत्तौ चकारकरणात् कर्मणीत्येतल्लभ्यत एव, किं कर्मग्रहणेन? तस्मात् पुनः कर्मग्रहणं शेषाधिकरानिवृत्त्यर्थम्। पुनः कर्मग्रहणेन हि पूर्वस्य कर्मग्रहणस्य निवृत्तिराख्यायते। तन्निवृत्तौ तत्सम्बद्धमनुवृत्तमपि शेषग्रहणं निवर्तते॥

Praudhamanorama

कृतपूर्वीति। कृतं पूर्वमनेनेति विग्रहः। पूर्वं कृतवानित्यर्थः। अविवक्षितकर्मकतया भावे क्तः। ‘सुप्सुपा’ इति समासः। ‘पूर्वादिनिः’ ‘सपूर्वाच्च’ इति कर्तरि इनिः। तद्विधौ ‘श्राद्धमनेन’ इति सूत्रादनेनेत्यनुवृत्तेः। अथ कथं ‘धायैरामोदमुत्तमम्’ इति भट्टिः? अत्राहुः— अनित्यमिदम्, ‘तदर्हम्’ इति निर्देशात्।

Prakriyasarvasvam

कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य क्रीडनमिति कर्तरि । कृष्णस्य वन्दनमिति कर्मणि । <karika>द्विकर्मणां कर्मयुग्मे षष्ठी स्यान्मुख्य एव वा । इष्टस्य याचकः शौरेः शौरिमिष्टस्य याचकः ॥ ५५८ ॥</karika> कृतीत्युक्तेस्तद्धितयोगे न । प्रज्ञाद्यणि ‘प्रज्ञाश्रद्धा—’ (५—२—१०२) इति णे च धर्मं प्राज्ञः, पुराणं श्राद्धः, मुकुन्दमार्च्चः । अत्र ‘विभाषोपसर्गे । (२-३-५९) इत्यतो भाषानुवृत्तेः कृत्यपि क्वचित् षष्ठी नेति केचिदिति शङ्करः । धार्यारामोदमुत्तमम् । गत्यर्थकर्मणि कृत्षष्ठी न । व्रजं गमनम् । व्रजाय गमनम् ॥

Vartika

गुणकर्मणि वेष्यते ।

Sutra Prayogas

  • लोकपालानां (रघुवंशम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • मण्डनकालहानेः (रघुवंशम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • वरूथिनीनां (रघुवंशम्): कर्तृकर्मणोः कृति इति कर्तरि षष्ठी।

  • तमिस्राणां (कुमारसम्भवम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • श्रियः (किरातार्जुनीयम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • तमसो (किरातार्जुनीयम्): कर्तृकर्मणोः कृति इति कृद्योगात् कर्तरि षष्ठी।

  • कान्तानाम् (किरातार्जुनीयम्): कर्तृकर्मणोः कृति इति कर्तरि षष्ठी।

  • भूतानाम् (किरातार्जुनीयम्): कर्तृकर्मणोः कृति इति षष्ठी।

  • भर्तुः (किरातार्जुनीयम्): कर्तृकर्मणोः कृति इति कर्तरि षष्ठी।

  • जगतां (शिशुपालवधम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • विरहस्य (शिशुपालवधम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • तमसो (शिशुपालवधम्): कर्तृकर्मणोः कृति इति कर्मणि षष्ठी।

  • जगदर्चनीयम् (भट्टिकाव्यम्): कर्तृ-कर्मणोः कृति इति पष्ठी।

  • भर्तुः शार्ङ्गस्य (भट्टिकाव्यम्): कर्तृकर्मणोः कृति इति पष्ठी।

  • परै (भट्टिकाव्यम्): कर्तृकर्मणोः कृति इति विभाषोपसर्गे इति मण्डूकप्लुत्या अनुवर्तनात् परैरिति तृतीया।

  • अभिज्ञानं (भट्टिकाव्यम्): कर्तृकर्मणोः कृति इति षष्ठ्यां प्राप्तायां प्रतिषेधः।