23073: चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः

Padacheda: चतुर्थी | S | 1 | 1 |

च | S | 0 | 0 |

आशिषि | S | 7 | 1 |

आयुष्य-मद्र-भद्र-कुशल-सुख-अर्थ-हितैः | S | 3 | 3 |

Sutrartha


Vasu English Summary

The 4th as well as the 6th-Case-affix may be used, when blessing is intended in connection with the words आयुष ‘long life’, मद्र ‘joy’, भद्र ‘good fortune’, कुशल ‘welfare’, सुख ‘happiness’, अर्थ ‘prosperity’ and हित ‘good’.

Vasu English Translation

The 4th as well as the 6th-Case-affix may be used, when blessing is intended in connection with the words आयुष ‘long life’, मद्र ‘joy’, भद्र ‘good fortune’, कुशल ‘welfare’, सुख ‘happiness’, अर्थ ‘prosperity’ and हित ‘good’. The च in the sutra makes the employment of Dative optional : in the alternative we have Genitive.

Vart:- In this sutra आयुष्य &c., include their synonyms also.

Thus आयुष्यं देवदत्ताय भूयात् or आयुष्यं देवदत्तस्य भूयात् ॥ Similarly चिरं जीवितं, मद्रं, भद्रं, कुशलं, निरामयं, सुखं, शं, अर्थो, प्रयोजनं, हितं पथ्यं देवदत्ताय or देवदत्तस्य भूयात् ॥

Why do we say when ‘benediction is intended’? Observe आयुष्यं देवदत्तस्य तपः ‘the austerity is the cause of the long life of Devadatta.’ Here there is no option allowed : and the Genitive case is only employed.

Kashika

आशिषि गम्यमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर्योगे चतुर्थी विभक्तिर्भवति। चकारो विकल्पानुकर्षणार्थः। शेषे चतुर्थीविधानात् तया मुक्तेषष्ठी विभक्तिर्भवति॥ अत्रायुष्यादीनां पर्यायग्रहणं कर्तव्यम्॥ आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयात्। चिरं जीवितं देवदत्ताय देवदत्तस्य वा भूयात्। मदं्र देवदत्ताय देवदत्तस्य वा भूयात्। भद्रं देवदत्ताय, भदं्र देवदत्तस्य। कुशलं देवदत्ताय, कुशलं देवदत्तस्य। निरामयं देवदत्ताय, निरामयं देवदत्तस्य। सुखं देवदत्ताय, सुखं देवदत्तस्य। शं देवदत्ताय, शं देवदत्तस्य। अर्थो देवदत्ताय, अर्थो देवदत्तस्य। प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य। हितं देवदत्ताय, हितं देवदत्तस्य। पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य। आशिषीति किम्? आयुष्यं देवदत्तस्य तपः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः॥

Siddhanta Kaumudi

एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शमर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥

Balamanorama

चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः - चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र भद्र, कुशल, सुख, अर्थ, हित-एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चायावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः । प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः ।हितयोगे चे॑ति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननुस्वं रूपमि॑ति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह — व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यानमयुक्तमित्यत आह — मद्रभद्रयोरिति । इति षष्ठी ।

Tattvabodhini

चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः - हितमिति ।हितयोगे च॑ इत्यनाशिषि चरितार्थमित्याशिष्ययं विकल्प इथि भावः । व्याख्यानादिति । सूत्रेऽर्थशब्दोऽपि पृथङ् निमित्तं, तथा च द्वन्द्व एवाऽयं न त्वर्थशब्देन बहुव्रीहिरिति भावः । इति षष्ठी ।

Padamanjari

चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ आयुष्यादीनां सुखपर्यन्तानां द्वन्द्वं कृत्वार्थशब्देन बहुव्रीहीविधानादर्थशब्देनायुष्यादिभिः प्रत्येकं सम्बन्धः। तत्र मद्रभद्रशब्दयोः पर्यायत्वात्सूत्रे भद्रशब्दो न पठितव्य इति केचिदाहुः। अन्ये त्वर्थशब्दोऽपि पृथगेव निमितम्, व्याख्यानाच्च सर्वत्रार्थग्रहणं वर्णयन्ति। वृतावपि क्वचिदर्थशब्दोऽप्युदाह्रियते। हितं देवदतस्येति।’हितयोगे चतुर्थी वक्तव्या’ इत्यस्यानाशिषि चरितार्थत्वादाशिषि हितयोगेऽप्यनेन विकल्पेन भाव्यम्; अन्यथाऽत्र हितग्रहणमनर्थकमिति मन्यते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्या द्वितीयाध्यायस्य तृतीयः पादः॥

Praudhamanorama

व्याख्यानादिति। सूत्रेऽर्थशब्दोऽपि पृथङ्निमित्तम्। तथा च द्वन्द्व एव। न तु अर्थशब्देन बहुव्रीहिरिति भावः। ॥ इति षष्ठी ॥

Prakriyasarvasvam

आशिषि द्योत्यायामायुष्यादियोगे चतुर्थी षष्ठी च स्यात् । नृपायायुष्यं मद्रं भद्रं कुशलं सुखमर्थो हितं वा भूयात् । नृपस्येति वा । सर्वत्र पर्यायिष्वपीष्टत्वा- न्मद्रभद्रग्रहो व्यर्थः । चिरजीवितं मङ्गलं निरामयं शर्म प्रयोजनं पथ्यं वास्मै भूयात् । सुखहिताभ्यामनाशिष्यप्याह भोजः । भक्ताय सुखं हितं च कुरुते हरिः । भक्तस्येति वा ॥

Sutra Prayogas

  • तुभ्यम् (शिशुपालवधम्): चतुर्थी चाशिष्यायुष्यमद्रभद्कुशलसुखार्थहितैः इति चतुर्थी।

  • राघवाभ्यां (भट्टिकाव्यम्): चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः इति षष्ठीचतुर्थ्यौ।