23072: तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्

Padacheda: तुल्य-अर्थैः | S | 3 | 3 |

अ-तुला-उपमाभ्याम् | S | 3 | 2 |

तृतीया | S | 1 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The 3rd or the 6th-Case-affix may optionally be employed, when the word is joined with another word meaning ‘like to or resemblance’, excepting तुला and उपना।

Vasu English Translation

The 3rd or the 6th-Case-affix may optionally be employed, when the word is joined with another word meaning ‘like to or resemblance’, excepting तुला and उपना। Thus तुल्यो देवदत्तेन or देवदत्तस्य, सदृशो देवदत्तेन, or देवदत्तस्य ॥ But with तुला and उपमा the Genitive must necessarily be employed. As तुला देवदत्तस्य नास्ति, उपमा कृष्णस्य न विद्यते ॥

Though the anuvritti of वा was understood in this sutra from the previous sutra, yet the repetition of अन्यतरस्याम् is for the sake of the subsequent sutra. The word च in (2.3.73) attracts the word अन्यतरस्याम् into that sutra; but had the word अन्यतरस्याम् not been used in this sutra, then the word च would have attracted the word तृतीया instead, which is not desired.

On this sutra, Professor Apte says:– ‘Panini says that the words तुला and उपमा can not be used with the Instrumental. But this is against good usage : as तुलां, यदारोहति दंतवाससा (Kum. Sam. V. 24), नभसा तुलां समाररोह (Raghuvamsa VIII.15). स्फुठोपमं भूतिसितेन शंभुना (Magh I.4).’

Kashika

तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पक्षे षष्ठी च, तुलोपमाशब्दौ वर्जयित्वा। शेषे विषये तृतीयाविधानात् तया मुक्ते षष्ठ्येव भवति। तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य। सदृशो देवदत्तेन, सदृशो देवदत्तस्य। अतुलोपमाभ्यामिति किम्? तुला देवदत्तस्य नास्ति। उपमा कृष्णस्य न विद्यते। वेति वर्तमानेऽन्यतरस्यांग्रहणमुत्तरसूत्रे तस्य चकारेणानुकर्षणार्थम्। इतरथा हि तृतीयानुकृष्येत॥

Siddhanta Kaumudi

तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥

Balamanorama

तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् - अथोपपदविभक्तयः । तुल्यार्थैः । शेषषष्ठआं नित्यं प्राप्तायां तृतीयाविकल्पोयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन ‘गौरिव गवय’ इत्यादौ नेत्याहुः । अतुलोपमाभ्यामिति पर्युदासादनव्यययोग एवेदमित्यन्ये ।

Tattvabodhini

तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् - तुल्य इति । तुलया संमितस्तुल्यः ।नौवयोधर्म — ॑इत्यादिना यत् । तुला उपमा वेति । तोलनं तुला । अस्मिन्नेव सूत्रे णिलुगङोर्निपातनात्साधुरिति माधवः । उपमितिरुपमा ।आतश्चोपसर्गे॑इत्यङ् ।

Padamanjari

तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्॥ शेषविषये विधानादिति। शेषैत्यधिक्रियत इति भावः। बहुवचननिर्देशादेव स्वरूपग्रहणाभावे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षा ये तुल्यानाहुस्तत्परिग्रहार्थम्। तेन द्योतका इवादयो निवर्तिता भवन्ति - गौरिव गवयः, यथा गौस्तथा गवय इति। तुला देवदतस्येति। तुलोपमाशब्दौ कर्मसाधनौ तुल्यार्थौ तत्र प्रतिषेध्या तृतीया, षष्ठी तु भवत्येव। इह’स्फुटोपमं भूतिसितेन शम्भुना’ इति श्म्भुना स्फुटोपमा यस्येत्युपमाशब्देनापि योगे करणे तृतीया भवति, भावसाधनत्वातस्य, यथा - उपमीयतेऽनेनेत्यादौ; इतरथा हि तृतीयानुकृष्येतेति तस्यानन्तरसूत्रे श्रुतत्वाद् अन्यतरस्यांग्रहणे तु सति तस्य प्रयोजनान्तराभावातदेव चकारेणानुकृष्यते॥

Nyaas

तुल्यार्थैः सदृशार्थैरित्यर्थः। अर्थग्रहणं पदान्तरनिरपेक्षया ये तुल्यार्थतामाहुस्तत्परिग्रहार्थम्। तेन पदान्तरसान्निध्येन द्योतका इवादयो निवर्तिता भवन्ति - गौरिव गवय इति, यथा गौस्तथा गवय इति। स्वरूपनिवृत्त्यर्थत्वर्थग्रहणं न भवति; बहुवचननिर्देशादेव स्वरूपविधेर्निरस्तत्वात्। इहापि पितुस्तुल्यः प्रज्ञयेति प्रज्ञाशब्दात् षष्ठी न भवति हेतुत्वन करणत्वेन वा प्रज्ञाया विवक्षितत्वात् इतरथा हि तृकतीयानुकृष्येत इति। तस्या अनन्तरसूत्रे श्रुतत्वात्। अन्यतरस्यांग्रहणस्य त्वेतदेव प्रयोजनमिति। तदेव चकारेणानुकृष्यत इति॥`तृतीयानिर्देशादेवार्थग्रहणे सिद्धेऽर्थग्रहणादर्थशब्दः पृथगेव निमित्तं विज्ञायते। कथं पुनस्तृतीयाग्रहणादर्थग्रहणं सिध्यति? अपरिसमाप्तत्वादस्य योग इत्यध्याह्यियते। स चार्थैरेव सम्भवति, न शब्दैरिति सामर्थ्यादर्थग्रहणं सिध्यति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेदन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्यतृतीयः पादः

Praudhamanorama

कथं तर्हि ‘तुलां यदारोहति दन्तवाससा’ इति कालिदासः, ‘स्फुटोपमं भूतिसितेन शम्भुना’ इति माघश्च? उच्यते, ‘सहयुक्तेऽप्रधाने’ इति तृतीया। ‘स्वबालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिणः’ इत्यत्र यथा। उक्तं हि— विनापि तद्योगं तृतीयेति।

Prakriyasarvasvam

तुल्यार्थैर्योगे तृतीया, विकल्पात् षष्ठी च स्यात् । कृष्णस्य सदृशः । कृष्णेन सदृशः । कृष्णस्यानुकरोति इत्यादिस्तुल्यार्थयोगादित्येके । शेषविवक्षयेति हरः । कर्मत्वविवक्षायां कृष्णमनुकरोतीत्यपि । तुलोपमाभ्यां योगे तु तृतीया न । कृष्णस्य तुलोपमा वा नास्ति । ‘तुलां यदारोहति दन्तवाससे ति तु सहार्थे तृतीयेति प्रसादे । हरस्तु कर्मार्थतया सदृशार्थयोरेव तुलोपमाशब्दयोर्निषेधाद् भावार्थयोस्तयोः करणे तृतीयापि स्यादित्याह । <karika>जलदस्य तुला गात्रं भुजगस्योपमा भुजः । अधरेण तुलामेति पल्लवो वल्लवीपते ॥ ५६४ ॥</karika>

Sutra Prayogas

  • नभसा (रघुवंशम्): तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् इति सूत्रेण अत्र तृतीयाविभक्तेः प्रतिषेधः न भवति।

  • दन्तवाससा (कुमारसम्भवम्): तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् इति सूत्रेण अत्र तृतीयाप्रतिषेधः न प्रवर्तते।

  • शम्घुना (शिशुपालवधम्): तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् इति निषेधात्।

  • सितचामरस्य (शिशुपालवधम्): तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् इति षष्ठी।

  • गीतनिनदस्य (शिशुपालवधम्): तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् इति वैकल्पिकी षष्ठी।

  • तस्याः (भट्टिकाव्यम्): तुल्यार्थैरतुलोपमाभ्याम् इति पष्ठी।

  • प्रियाध्वनीनां (भट्टिकाव्यम्): तुल्यार्थैरातुलोपमाभ्यां तृतीयाऽन्यतरस्याम् इति षष्ठी।

  • नन्दनस्या (भट्टिकाव्यम्): तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् इति पक्षे षष्ठी।