23064: कृत्वोऽर्थप्रयोगे कालेऽधिकरणे¶
Padacheda: कृत्वोऽर्थ-प्रयोगे | S | 7 | 1 |
काले | S | 7 | 1 |
अधिकरणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The 6th-Case-affix is used in denoting location (अधिकरण) after a word denoting time (काल) when used along with a word ending with an affix having the sense of कृत्वसुच् – संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17) ‘so many times’.
Vasu English Translation¶
The 6th-Case-affix is used in denoting location (अधिकरण) after a word denoting time (काल) when used along with a word ending with an affix having the sense of कृत्वसुच् – संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17) ‘so many times’. Ex. पंचकृत्वोऽऽह्नोभुंक्ते ‘he eats five times a day.’ In short, ‘words meaning so many times, or the numeral adverbs of frequency, govern the genitive of time in the sense of locative.’ As द्विरह्नोऽधीते ‘he studies twice in a day.’
Why do we say ‘having the force of कृत्वसुच् ? Observe अह्नि शेते ‘he sleeps in the day.’
This rule will not apply when the adverb of frequency is understood, not expressed (prayoga) as in अहनि भुक्तम्. Nor when the time is not meant, as द्विः कांस्यापात्र्यां भुंक्ते ‘he eats in two brass vessels.’ So also when location is not meant : as द्विरह्नो भुंक्ते. The शेष being understood we have द्विरहन्यधीते.
Kashika¶
छन्दसि बहुलमिति निवृत्तम्। कृत्वोऽर्थानां प्रत्ययानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति। पञ्चकृत्वोऽह्नो भुङ्क्ते। द्विरह्नोऽधीते। कृत्वोऽर्थग्रहणं किम्? अह्नि शेते। रात्रौ शेते। प्रयोगग्रहणं किम्? अहनि भुक्तम्। गम्यते हि द्विस्त्रिश्चतुर्वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणं किम्? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरण इति किम्? द्विरह्ना भुङ्क्ते। शेष इत्येव — द्विरहन्यधीते॥
Siddhanta Kaumudi¶
कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥
Balamanorama¶
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी ।
Tattvabodhini¶
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे - कृत्वोर्थ । कृत्वसुचोऽर्थ इवार्थो येषांप्रत्ययानां ते कृत्वोर्थाः । शेषे इति । इहदिवस्तदर्थस्य॑इत्यादिसूत्रषट्के विच्छिन्नमपि शेषग्रहणमनुवर्तते, व्याख्यानात् । पञ्चकृत्व इति ।सङ्ख्यायाः क्रिया -॑ इत्यादिना कृत्वसुच् । द्विरिति ।द्वित्रिचतुभ्र्यः सुच् ।
Padamanjari¶
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति।’संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्’ द्विरिति।’द्वित्रिचतुर्भ्यः सुच्’ अर्थग्रहणमेतदर्थम्॥
Nyaas¶
पञ्चकृत्वः इति। संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (5.4.17) ` द्विरह्नः` इति। द्व्त्रिचतुर्थ्यः सुच् (5.4.18) ।गम्यते हि द्विस्त्रिश्चतुर्वा इति। प्रकरणादेरिति भावः। ननु च बहिरङ्गः प्रकरणाद्यर्थ इति पञ्चकृत्व इत्यमत्र च वचनस्य चरितार्थत्वादिह न भविष्यति? एवं तह्र्रेतज्ज्ञापयति - प्रकरणाद्यर्थोऽपि विभक्तीनां निमित्तमिति। तेन वृद्धो यूना (1.2.65) इति सहयुक्तेऽप्रधाने (2.3.19) इति सहार्थे गम्यमाने तृतीया भवतीति॥
Prakriyasarvasvam¶
कृत्वसुजर्थानां प्रयागे कालवाचिन्यधिकरणे षष्ठी स्यात् । दिनस्य शतकृत्व- ‘त्रर्वा हरिं नमति । <karika>ज्ञादीनां करणादौ हि शेषत्वेन विवक्षिते । षष्ठ्युक्ता स्वविवक्षायां तृतीयाद्येव जायते ॥ ५५५ ॥ ततः शस्त्रेण जानीते हरिं स्मृत्वा निहन्त्यघम् । इत्यादि दीव्यंति मुक्त्वा सर्वेषु स्याद् यथोचितम् ॥ ५५६ ॥ एषु तु शेषविवक्षा प्रचुरेत्याख्यातुमेव सूत्राणि । प्रतिपदविधानषष्ठ्या असमासज्ञापनार्थमिति चाहुः ॥ ५५७ ॥</karika> इति ॥