23069: न लोकाव्ययनिष्ठाखलर्थतृनाम्¶
Padacheda: न | S | 0 | 0 |
ल-उ-उक-अव्यय-निष्ठा-खलर्थ-तृनाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The 6th-Case-affix is not used the express the agent or the object, when the word is governed by an Active Participle ending in the affix ल , or उ , or उक or an indeclinable, or by a Past Participle in the क्त and क्तवतु or by a word ending in an affix having the sense of खल् or by a Noun of agency formed by तृन्।
Vasu English Translation¶
The 6th-Case-affix is not used the express the agent or the object, when the word is governed by an Active Participle ending in the affix ल , or उ , or उक or an indeclinable, or by a Past Participle in the क्त and क्तवतु or by a word ending in an affix having the sense of खल् or by a Noun of agency formed by तृन्। After these words, the Instrumental case must be employed to denote the Agent, and the Accusative case to denote the object. This sutra debars Genitive which would have come by (2.3.65). The word लोक is formed by ल + उ + उक = ल + ऊक = लोक.
The word ल means the substitutes of ल i.e., the Present Participles in शतृ, शानच् (3.2.124), कानच् (3.2.106) क्वसु (3.2.107) कि and किन् (3.2.172). Thus ओदनं पचन्, पचमानः, पेचानः or पेचिवान्, पपिः सोमम्, ददिर्गाः ॥
The affix उ is enjoined by (3.2.168), as, कटं चिकीर्षुः, ओदनं बुभुक्षुः ॥ The prohibition applies when a word ending in इष्णुच् (3.2.136) is the governing term, as, कन्यामलंकरिष्णुः ॥
The affix उक is ordained by (3.2.154): as आगामुकं वाराणसीं रक्ष आहुः ॥
Vart:- But the word कामुक in the classical Sanskrit, governs the Genitive, as दास्याः कामुकः ‘lusting for the slave.’
Indeclinables formed by कृत् affixes, as, कटं कृत्वा, ओदनं भुक्त्वा ॥
Vart:- This prohibition, however, does not apply to the indeclinables formed by तोसुन् (III 4.16) and कसुन् (3.4.17), as, पुरा सूर्यस्योदेतोराधेयः पुरा क्रूरस्य विसृपो विरप्शिन् (1.1. 40).
Nishtha i.e., क्त and क्तवतु; as ओदनं भुक्तवान् देवदत्तेन कृतम्.
The words formed by खलर्थ affixes (3.3.126), as, ईषत्करो भवता कटः, ईषत्पानः सोमो भवता.
The तृन् in the aphorism is a pratyahara, formed by taking the तृ of शतृ (3.2.129) and the final न् of तृन् (3.2.135), meaning the affixes जानन् (3.2.128), चानश (3.2.129), शतृ (3.2.130) and तृन् (3.2.135). As सोमं पवमानः, नटमाघ्नानः, अधीयन्, पारायणम्, कर्ता कटान्, वदिता जनापवादान् ।
Vart:- Optionally so, when the root द्विष् takes the affix शतृ, as, चौरं or चौरस्य द्विषन् ॥
Bhashya¶
न लोकाव्ययनिष्ठाखलर्थतृनाम् 527 (333 कारकषष्ठीनिषेधसूत्रम् ॥ 2.3.3 आ.11) (इष्टोपपादकाधिकरणम्) - लादेशे सल्लिड्ग्रहणं किकिनोः प्रतिषेधार्थम् - (भाष्यम्) लादेशे सल्लिड्ग्रहणं कर्तव्यम्। सल्लिटोः प्रयोगे नेति वक्तव्यम् ॥ किं प्रयोजनम्?। किकिनोः प्रतिषेधार्थम्। किकिनोरपि प्रयोगे प्रतिषेधो यथा स्यात् - पपिः सोमम्, ददिर्गाः ॥ किं पुनः कारणं न सिध्यति? ॥ (1545 साधकवार्तिकद्वितीयखण्डम् ॥ 2 ॥) - तयोरलादेशौत्वात् - (भाष्यम्) न हि तौ लादेशौ ॥ (आक्षेपभाष्यम्) अथ तौ लादेशो स्याताम्। स्यात्प्रतिषेधः? ॥ (समाधानभाष्यम्) बाढं स्यात् ॥ (लादेशत्वसाधकभाष्यम्) लादेशौ तर्हि भविष्यतः ॥ कथम्?। आदृगमहनजनः किकिनौ लिट् चेति लिड्वदिति वक्ष्यामि ॥ (आक्षेपभाष्यम्) स तर्हि वतिनिर्देशः कर्तव्यः। नह्यन्तरेण वतिमतिदेशो गम्यते ॥ (समाधानभाष्यम्) अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा - एष ब्रह्मदत्तः अब्रह्मदत्तं ब्रह्मदत्त इत्याह, ते मन्यामहे - ब्रह्मदत्तवदयं भवतीति। एवमिहाप्यलिटं लिडित्याह लिड्वदिति ज्ञास्यते ॥ (1546 शेषपूरकवार्तिकम् ॥ 3 ॥) (- उकारप्रयोगे न -) (भाष्यम्) उकारप्रयोगे नेति वक्तव्यम्। कटं चिकीर्षुः, ओदनं बुभुक्षुः ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। उकारेप्यत्र निर्दिश्यते ॥ कथम्?। प्रश्लिष्टनिर्देशोयम् - उ उकऊक, लऊक लोकेति ॥ (1547 प्रतिप्रसववार्तिकम् ॥ 4 ॥) - उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः - (भाष्यम्) उकप्रतिषेधे कमेर्भाषायां प्रतिषेधो न भवतीति वक्तव्यम्। दास्याः कामुकः, वृषल्याः कामुकः ॥ (1548 प्रतिप्रसववार्तिकम् ॥ 5 ॥) - अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः - (भाष्यम्) अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधो न भवतीति वक्तव्यम्। पुरा सूर्यस्योदेतोराधेयः। पुरा वत्सानामपाकर्तोः। पुरा क्रूरस्य विसृपो विरप्शिन् ॥ (1549 शेषपूरकवार्तिकम् ॥ 6 ॥) - शानंश्चानश्शतॄणामुपसंख्यानम् - (भाष्यम्) शानश्चानश्शतॄणामुपसंख्यानं कर्तव्यम्। सोमं पवमानः। नटमाघ्नानः। अधीयन्पारायणम्। लप्रयोगे नेति निषेधो न प्राप्नोति ॥ (वार्तिकवैर्यथ्यभाष्यम्) मा भूदेवम्। तृन्नित्येवं भविष्यति ॥ कथम्?। तृन्निति नेदं प्रत्ययग्रहणम् ॥ किं तर्हि? प्रत्याहार ग्रहणम् ॥ क्व संनिविष्टानां प्रत्याहार?। लटश्शतृ - इत्यतः प्रभृत्या तृनो नकारात् ॥ (आक्षेपभाष्यम्) यदि प्रत्याहारग्रहणम्, चोरस्य द्विषन् अत्रापि प्राप्नोति ॥ (1550 समाधानवार्तिकम् ॥ 7 ॥) - द्विषः शतुर्वावचनम् - (भाष्यम्) द्विषः शुतुर्वेति वक्तव्यम् ॥ तच्चावश्यं वक्तव्यम्। प्रत्ययग्रहणे सति प्रतिषेधार्थम्। प्रत्याहारग्रहणे सति तदेव विध्यर्थ भविष्यति ॥ न लोकाव्य ॥ 69 ॥
Kashika¶
कर्तृकर्मणोः कृति (२.३.६५) इति षष्ठी प्राप्ता प्रतिषिध्यते। ल उ उक अव्यय निष्ठा खलर्थ तृन् इत्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति। ल इति शतृशानचौ कानच्क्वसू किकिनौ च गृह्यन्ते। ओदनं पचन्। ओदनं पचमानः। ओदनं पेचानः। ओदनं पेचिवान्। प॒पिः सोमं॑ द॒दिर्गाः (ऋ० ६.२३.४)। उ — कटं चिकीर्षुः। ओदनं बुभुक्षुः। कन्यामलंकरिष्णुः। इष्णुचोऽपि प्रयोगे निषेधः। उक — आगामुकं वाराणसीं रक्ष आहुः॥ उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः॥ दास्याः कामुकः। अव्यय — कटं कृत्वा। ओदनं भुक्त्वा॥ अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः॥ पुरा सूर्यस्योदेतोराधेयः (काठ० सं० ८.३)। पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३)। निष्ठा — ओदनं भुक्तवान्। देवदत्तेन कृतम्। खलर्थ — ईषत्करः कटो भवता। ईषत्पानः सोमो भवता। तृन् इति प्रत्याहारग्रहणम्, लटः शतृशानचा० (३.२.१२४) इत्यारभ्य आ तृनो (३.२.१३५) नकारात्। तेन शानन्चानश्शतृतृनामपि प्रतिषेधो भवति। सोमं पवमानः। नडमाघ्नानः। अधीयन् पारायणम्। कर्ता कटान्। वदिता जनापवादान्॥ द्विषः शतुर्वावचनम्॥ चौरं द्विषन्, चौरस्य द्विषन्॥
Siddhanta Kaumudi¶
एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः । अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥<!कमेरनिषेधः !> (वार्तिकम्) ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥<!द्विषः शतुर्वा !> (वार्तिकम्) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥
Balamanorama¶
न लोकाव्ययनिष्ठाखलर्थतृनाम् - न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः । उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति । ततो ल-ऊकेत्यत्र आद्गुणे लोकेति भवति । लादेशेति । अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः । ल इति लडादीनां सामान्येन ग्रहणम् । तेषां च साक्षात्प्रयोगाऽभावात्तदादेशग्रहणमिति भावः । कुर्वन्कुवाणो वेति । लटः शतृशानचौ । इह कर्मणि षष्ठीनिषेधाद्द्वितीया । उ इति । उदाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति । दृशेः सन्नन्तात् ‘सनाशंसभिक्ष उः’ इति उप्रत्ययः कृत् । व्यपदेशिवत्त्वेन उकारान्तोऽयं कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । अलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते ।अलं कृञि॑त्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति । इदमपि तदुदाहरणसूचनार्थम् । दैत्यान्घातुको हरिरिति ।आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑ इत्यधिकारेलषपतपदस्थाभूवृषहनकमगमशृभ्य उकञि॑ति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः । ‘हो हन्तेः’ इति हस्य घत्वम् । ‘हनस्तोऽचिण्णलोः’ इति नकारस्य तकारः । घातनशीलः, घातनधर्मा घातनसाधुक#आरी वेत्यर्थः ।कमेरिति । वार्तिकमिदम् । उकान्तकमेर्योगे षष्ठआ निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति ।लषपते॑त्यादिना उकञ् । अव्ययमिति । उदाहरणसूचमिदम् । जगत्सृष्ट्वेति ।हरिरास्ते॑इति शेषः । ‘समानकर्तृकयोः’ इति क्त्वाप्रत्ययः । क्त्वातोसुन्कसुनः॑ इति अव्ययत्वम् । सुखं कर्तुमिति ।भक्तस्य हरिः प्रभवती॑ति शेषः ।तुमिन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन् । ‘कृन्मेजन्तः’ इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्रत इति केचित् । वस्तुतस्त्वविशेषादकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरणसूचनमिदम् ।क्तक्तवतू निष्ठा॑ । विष्णुना हता इति । अत्र भूते इति कर्मणि क्तः । कर्तरि षष्ठीनिषेधात्तृतीया दैत्यान्हतवानिति । भूते कर्तरि क्तवतुः । कर्मणि षष्ठीनिषेधाद्द्वितीया । खलर्था इति । उदाहरणसूचनमिदम् । ईषत्कर इति ।ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति कर्मणि खल् । अर्थग्रहणात् ‘आतो युच्’ इति खलर्थको युजपि गृह्रते । ईषत्पानः सोमो भवता । ननु तृन्नित्यनेन यदि तृनेव गृह्रेत तर्हि ‘सोमं पवमान’ इत्यादौ निषेधो न स्यादित्यत आह — तृन्निति प्रत्याहार इति । कुत आरभ्य किमन्तानामित्यत आह — तृशब्दादारभ्य तृनो नकारादिति । लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दः, तत आरभ्य ‘तृन्’ इति सूत्रस्थनकारपर्यन्तानामित्यर्थः ।लटः शतृशानचावप्रथमासमानाधिकरणे,॑ ‘सम्बोधने च,’ ‘तौ ससू’पूङ्यजोः शानन्,ताच्छील्यवयोवचनशक्तिषु चानश॑ ,इङ्धार्योःशत्रकृच्छ्रिणि॑, ‘द्विषोऽमित्रे,’ ‘सुञो यज्ञसंयोगे,’अर्हः प्रशंसायाम्,आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑, ‘तृन्’ इति सूत्रक्रमः । अत्र शानन्नादितृन्नन्तानां ग्रहणं, नतु ‘लटः शतृ’ इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तस्य क्वापि पृथक् प्रयोगानर्हत्वात् । नापि शानचः, लादेशत्वादेव सिद्धे इति स्थितिः । शानन्निति । उदाहरणसूचनमिदम् । सोमं पवमान इति ।पूयङ्यजोः शानन् । आत्मानं मण्डयमान इति । ‘मडि भूषायाम्’ताच्छील्यवयोवचन॑इति चानश् । शतृ इति । उदाहरणसूचनमिदम् । वेदमधीयन्निति । ‘इङ्धार्योः’ इति शतृप्रत्ययः । तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति । तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः शानन्नादितृन्नन्तानां लादेशत्वाऽभावात्प्रत्याहाराश्रयणमिति बोध्यम् । द्विषः शतुर्वेति । शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति । द्विषोऽमित्रे ॑ इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विकल्पोऽयम् । सर्वोऽयमिति ।अनन्तरस्ये॑ति न्यायादिति भावः । शेषे षष्ठी त्विति । शब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः । ब्राआहृणस्य कुर्वन्निति ।हरि॑रिति शेषः । लटः शत्रादेशः । मुखतो ब्राआहृणसंबन्धिसृष्टनुकूलव्यापारवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव । नरकस्य जिष्णुरिति ।ग्लाजिस्थश्च ग्स्नुः॑ इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसंबन्धिजयवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव ।
Tattvabodhini¶
न लोकाव्ययनिष्ठाखलर्थतृनाम् - न लोका । जिघृक्षितरूपविनाशप्रसङ्गात्तृनामित्यत्र णत्वं न कृतम् । उश्च उकश्च ऊकौ, लश्च ऊकौ चेति विग्रहः । ल इति लडादीनां सामान्यग्रहणं । तेषां च साक्षात्प्रयोगो न सम्भवतीति तदादेशा गृह्रन्त इत्याह — लादेशा इथि । उदाह्यियन्त इति शेषः । कटं कारयाञ्चकारेत्यत्र कृत्सञ्ज्ञकलिङन्तामन्तेन योगेऽपि कटस्यकर्तृकर्मणोऋ कृति॑ इति षष्ठी न भवति,आमः॑ इति लुकोऽपि लादेशत्वादित्याहुः । नन्वेवमपिबभ्रिर्वज्रं पपिः सोमं ददिर्गाः॑ इत्यत्रन लोका -॑ इति निषेधाऽप्रवृत्तेः षषाठी दुर्वारैव, न हि किकिनौ लकारौ, नापि तदादेशौ । नैष दोषः ।किकिनौ लिट् च॑ इत्यनेन लिट्कार्यातिदेशः क्रियते, न तु लिट्सञ्ज्ञा । तथा च विशेषातिदेशे च सामान्यमप्यतिदिश्यत इथि नानुपपत्तिः । दिदृक्षुरिति ।सनाशंतभिक्ष उः॑ । उकारेण कृतो विशेषणात्तदन्तमपि लभ्यत इत्याशयेनाह -अलङ्करिष्णुरिति ।अलङ्कृञ्निराकृञ -॑ इत्यादिना इष्णुच् । घातुका इति ।लषपते॑ त्यादिना उकञ् ।कमेरनिषेधः॥ ईषत्कर इति ।ईषद्दुस्सुषु — ॑इत्यादिना खल् । अर्थग्रहणादीषत्पानः सोमो भवतेत्यप्युदाहार्यम् । अव्याप्त परिहर्तुमाह -प्रत्याहार इति । पवमान इति ।पूङ्यजोः शानन् । मण्डयमान इति ।मडि भूषायाम् । इदित्त्वान्नुम् ।ताच्छील्यवयोवचन -॑ इति चानश् । अधीयन्निति ।इङ्धार्योः॑ इति शता । शाननादिषुलटः॑ इत्यननुवृत्त्या लादेश इत्यसिद्धेः प्रत्याहारग्रहणमाश्रीयत इति भावः । तृन्निति । तच्छीलादिषुतृन्इति विहितस्तृन् प्रत्ययः । तृन्निति प्रत्याहारग्रहणान्नित्यं निषेधे प्राप्ते विकल्पमाह - ।द्विषः शतुर्वा । द्विष इति ।द्विष अप्रीतौ॑ इत्यस्मात्द्विषोऽमित्रे॑इति विहितोः यः शतृप्रत्ययस्तत्प्रयोगे वा षष्ठीनिषेद इत्यर्थः । सर्वोऽयमिति ।अनन्तरस्य इति न्याया॑दिति शेषः । शेषः षष्ठी त्विति । शाब्दबोधे वैलक्षण्यमस्तीति भावः । एवं चाश्चर्यो गवां दोगोऽगोपेनेत्यत्र शेषत्वविवक्षायां कर्तर्यपि षष्ठी भवत्येवेति बोध्यम् ।
Padamanjari¶
न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वाभावः। उ उकेति। अनेनोकारप्रश्लषं दर्शयति। तत्र लश्चेति पूर्वद्वन्द्वे उकारस्य पूर्वनिपातः स्यात्, परनिपातेऽपि लवुकेति स्यात्; तस्मात्परयोर्द्वन्द्वं कृत्वा पश्चाल्लशब्दस्य द्वन्दः कार्यः, उकारेण च कृतो विशेषणातदन्तविधिः, व्यपदेशिवद्भावात्केवलस्यापि ग्रहणम्। शतृशानचाविति। तेन शानजर्थं तृन्निति प्रत्याहारो नाश्रयणीय इति भावः। किकिनौ चेति। ननु लग्रहणेन लकारास्तदादेशाश्च ग्रहीतुं युक्ताः - कट्ंअ कारयाञ्चकार, ओदनं पाचयति; किकिनोस्त्वयुक्तं ग्रहणम्, अलत्वादलादेशत्वाच्च, नैष दोषः;’किकिनौ लिट् च’ इत्यनेन लिट्त्वातिदेशः क्रियते, न लिट्संज्ञा। तत्र’कारयाम्’ ‘पचानः’ इत्यादौ लिटि तदादेशे च द्दष्टः प्रतिषेध किकिनोरपि भविष्यति। उदाहरणेषु सर्वत्र कारकषष्ठयाः प्रतिषेधः। शेषषष्ठी तु भवत्येव - ब्राह्मणस्य कुर्वन्, ओदनस्य पचन्, अपां पेरुरसि, नरकस्य जिष्णवो गुणैः, तानि द्विषद्वीर्यनिराकरिष्णुरिति। आगामुकमिति।’लषपतपद’ इतायदिनोकञ्, रक्षांसि वाराणसीं प्रत्यागमनशीलानि भवन्ति, शापादिमोक्षार्थमित्यर्थः। दास्याः कामुक इति। द्वितीया निवृत्यर्थ वचनम्, षष्ठी तु शेषविज्ञानादेव सिद्धा। पुरा सूर्यस्येति।’भावलक्षणे’ इत्यादिना तोसुन्। विसृप इति।’सृपितृदोः कसुन्’ ‘पूङ्यजोः शानन्’ ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ ठिङ्धार्योः शत्रकृच्छ्रिणिऽ इत्येतेषु’ल’ इति नानुवर्तत इति स्थापयिष्यते, तेन लग्रहणादसिद्धिरिति मत्वाऽऽह - तृन्निति प्रत्याहारग्रहणमिति। द्विषः शतुर्वा वचनमिति।’द्विषो’ मित्रेऽ इति योऽयं शतृप्रत्ययः, तत्प्रयोगे विकल्पेन प्रतिषेधो वक्तव्य इत्यर्थः। प्रत्याख्यानं तु शेषविवक्षायां षष्ठ।ल्न्यत्र द्वितीयेति, सता च समासप्रतिषेधात्समासे कृत्स्वरार्थ कारकषष्ठी विधेयेत्यपि नास्ति॥
Nyaas¶
किकिनौ च गृह्रेते इति। यद्यपि किकिनोरलादेशत्वात् स्थानिवद्भावेन लग्रहणेन तयोग्र्रहणं नास्ति, तथापि लिट् च (3.2.171) इत्यतिदेशेन भवितव्यम्। विशेषातिदेशे हि नान्तरीयकः सामान्यातिदेश इति; विशेषस्य सामान्येनाविनाभावादिति। तेन सामान्यनिबन्धनः प्रतिषेधः किकिनोरपि सिध्यतीति युक्तं तयोरपि ग्रहणम्। पचमानः इति शानच्। स्वरितेत्त्वादात्मनेपदम्। पेचानः इति। लिटः कानज्वा (3.2.106) इति वचनात्, कानच्। द्विर्वचनम्। अत एक (6.4.120) इत्यादिनैत्वाभ्यासलोपौ। पेचिवान् इति। क्वुश्च (3.2.107) इति क्वसुः। एत्वाभ्यासलोपयोः कृतयोः वस्वेकाजाद्धसाम् (7.2.67) इतीट्। उगिदचाम् (7.1.70) इति नुम्। सान्तमहसः (6.4.10) इत्यादिना दीर्घः। ददिः। पपिः इति। आदृगमहनजनः किकिनौ लिट् च (3.2.171) इति किकिनोरन्यतरः। लिट् चेत्यतिदेशाद्द्विवनम्। आतो लोप इटि च (6.4.64) इत्याकारलोपः। चिकीर्षुः इति। सनासंसभिक्ष उः (3.2.168) । अलङ्करिष्णुः`इति। `अलंकृञ् (3.2.136) इत्यादिनेष्णुच्। {आगामुकम्- काशिका, पदमञ्जरी च।} आगामुकः इति। लषपतपद (3.2.154) इत्यादिनोकञ्।उकप्रतिषेधे इत्यादि। प्रतिपाद्यत इति शेषः। प्रतिपादनन्तु बहुलग्रहणानुवृत्तिमाश्रित्य कर्तव्यम्। कृत्वा इति। समानकर्त्तृकयोः (3.4.21) इति क्त्वा।अव्ययप्रतिषेधे इत्यादि। अत्रापि पूर्ववद्वाक्यशेषो वेदितव्यः। प्रतिपादनञ्च पूर्ववदेव। अथ वा - अव्ययीभावश्च (2.4.18) इत्यत्र सर्वमिदं काण्डं स्वरादिषु पठते (1.1.42 काशिका) इत्यादिना वृत्तिकारेण प्रतिपादनं कृतम्। संज्ञापूर्वको विधिरनित्यः (व्या।प।64) इति वा। उदेतोः इति। उत्पूर्वादिणो भावलक्षणे स्थेण्कृञ्वदिचरि (3.4.16) इत्यादिना तोसुन्। विसृपः इति। सृपितृदोः कसुन् (3.4.17) । ` ईषत्करः` इति। ईषद् (3.3.126) इत्यादिना खल्। ईषत्पानः इति। आतो युच् (3.3.128) । आतृनो नकारात् इति। ताच्छीलिकस्य तृनः सम्बन्धिनो नकारादित्यर्थः। ` पवमानः` इति। पूङ पवने (धातुपाठः-966), पूङयजोः शानन् (3.2.128) । नडमघ्नानः इति। ताच्छील्यवयोवचनशक्तिषु चानश् (3.2.129) । `गमहन (6.4.98) इत्यादिनोपधालोपः। हो हन्तेः (7.3.54) इत्यादिना कुत्वम्। अधीयन् इति। इङ धार्योः शत्रकृच्छ्रिणि (3.2.130) इति शत्रादेशः। इयङादेशः। उपसर्गेण सह दीर्घः। कर्ता इति। आ क्वेस्तच्छील (3.2.134) इत्यादिना तृन्।द्विषः शतुर्वावचनम् इति। द्विषः परो यः शतृप्रत्ययस्य प्रयोगे वावचनं कर्तव्यम्; अभिधानाभिधेययोरभेदोपचारात्। वेत्यनेन वार्थ उक्तः। वार्थोऽपि विकल्पः। विकल्प उच्यते = प्रत्याय्यते येन तद्वावचनम्। तस्य व्याख्यानं कर्तव्यमित्यर्थः। तत्रेदं व्याख्यानं - बहुलग्रहणमिहानुवर्तते, तेन द्विषः शतुर्विकल्पेन प्रतिषेधो भविष्यति। द्विषन् इति। द्विषोऽमित्रे (3.2.131) इति शतृप्रत्ययः॥
Praudhamanorama¶
उश्च उकश्च ऊकौ, लश्च ऊकौ चेति विग्रहः। उकारेण कृतो विशेषणात्तदन्तविधिस्तदाह- शेषे षष्ठी त्विति। एतेन ‘इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः’ ‘अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्’ इत्यादि व्याख्यातम्। यद्वा इक्ष्वाकूणां सिद्धय इत्यन्वयो न तु इक्ष्वाकूणां दुराप इति। तथा वागधिपस्य विस्मयमित्यन्वयो न तु वागधिपस्य दुर्वचमिति।
Prakriyasarvasvam¶
ल उ उक इत्येतेषामव्ययादीनां च प्रयोगे षष्ठी न स्यात् । लादेशे—पुण्यं कुर्वन् कुर्वाणः चक्रुवान् । किकिनोरपि लिद्वत्त्वाद् गिरि दध्रिः । शुभं चक्रिः । दैत्यान् सासहिः । शेषविवक्षायां त्वेषु षष्ठी स्यादिति हरः । ओदनस्य पचन्नित्यादि । उकारान्तेषु—हरिं दिदृक्षुः । अङ्कमलङ्करिष्णुः । उक—दैत्यान् घातुकः । भाषायां कमेर्निषेधः । लक्ष्म्याः कामुकः । अव्यये–घृतं भुक्त्वा वनं गन्तुं प्रवृत्तः । निष्ठायां—दैत्यान् हतवान् । विष्णुना हता दैत्याः । नपुंसके भावे क्तेऽपि शेषविवक्षायामेव षष्ठी । अन्यदा न । तस्या यातं रम्यम् । तया यातं रम्यम् । खलर्थे–ईषल्लभभो हरिस्त्वया । शेषविवक्षया मम सुलभ इत्यपि । तृन्निति शतृ इत्यारभ्य तृनो नकारेण प्रत्याहारः । तेन शानन्नादेरपि ग्रहः । शानन्—सोमं पवमानः । चानश्—वह्मानौ मितं धनुः । इण्धातोः शतृ । वेदमधीयन् । तृन्— रक्षिता लोकान् । ‘द्विषः शतुर्वा वाच्यः’ । मुरस्य द्विषन् । मुरं द्विषन् ॥
Vartika¶
उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः ।
Sutra Prayogas¶
इक्ष्वाकूणाम् (रघुवंशम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगे षष्ठीनिषेधः।
तापकारणम् (रघुवंशम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
भार्गवेण (रघुवंशम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
तव (कुमारसम्भवम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगलक्षणषष्ठ्या निषेधात्।
वागधिपस्य (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधो नास्ति।
वीर्यं (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
सहायैः (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
जयम् (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
मनस्विभिः (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगषष्ठ्याः निषेधात्।
मृगान्हन्तुः (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
भूतानि (किरातार्जुनीयम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
मुरम् (शिशुपालवधम्): न लोका- इति षष्ठीप्रतिषेधः ।
प्रियैः (शिशुपालवधम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
स्वर्गभर्तुः (शिशुपालवधम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगषष्ठ्या निषेधात् शेषे षष्ठी।
स्वगुणं (शिशुपालवधम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
तव (शिशुपालवधम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति कृद्योगे षष्ठ्या निषेधे शेषे षष्ठी।
भृङ्गैः (शिशुपालवधम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
विजयं (शिशुपालवधम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
प्रकृतिं (शिशुपालवधम्): न लोका- इत्यादिना षष्ठीप्रतिषेधः।
दन्दशूकाञ्जिघांसौ (भट्टिकाव्यम्): न लोक इति पष्ठीप्रतिषे- धात् द्वितीयैव ।
सोम-रसं (भट्टिकाव्यम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
रक्षो-गणं (भट्टिकाव्यम्): न लोका इति षष्ठीप्रतिषेधात् द्वितीयैव।
पुष्प-चयं (भट्टिकाव्यम्): न लोका इति षष्ठीप्रतिषेधः।
सुत-विप्रयोगम् (भट्टिकाव्यम्): न लोकाव्यय-निष्ठा इति पश्याः प्रतिषेधः ॥
ऋग्-यजुषमधीयानान्सामान्यांश्च (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः।
श्रियं (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः ।
वनौकसौ (भट्टिकाव्यम्): न लोक इति कर्मणि षष्ठ्याः प्रतिषेधः।
वनाऽऽकम्पं (भट्टिकाव्यम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति षष्ठीप्रतिषेधः।
अध्वानं (भट्टिकाव्यम्): न लोक- इति षष्ठीप्रतिषेधः।
कपिं (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः।
प्रसादं (भट्टिकाव्यम्): न लोक इति पष्ठीप्रतिषेधः।
शस्त्र-संहतीः (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः।
घन-गिरीन्द्र-विलङ्घन-शालिना (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः।
अभिज्ञानं (भट्टिकाव्यम्): न लोकाव्ययनिष्ठाखलर्थतृनाम् इति लप्रयोगे षष्ठीप्रतिषेधः।
युद्धम् (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः।
त्वां (भट्टिकाव्यम्): न लोक इति षष्ठीप्रतिषेधः।