23063: यजेश्च करणे¶
Padacheda: यजेः | S | 6 | 1 |
च | S | 0 | 0 |
करणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The 6th-Case-affix is diversely used in the छन्दस् in denoting the instrument of the verb यज् ‘to sacrifice’.
Vasu English Translation¶
The 6th-Case-affix is diversely used in the छन्दस् in denoting the instrument of the verb यज् ‘to sacrifice’. Ex. घृतस्य or घृतेन यजते ‘he sacrifices with butter.’ सोमस्य or सोमेन यजते ॥
Kashika¶
यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठी विभक्तिर्भवति। घृतस्य यजते (तु० — श०ब्रा० ४.४.२.४)। घृतेन यजते। सौम्यस्य यजते (तु० — श०ब्रा० ४.४.२.५)। सोमेन यजते॥
Siddhanta Kaumudi¶
इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते ॥
Nyaas¶
धृतस्य यजते इति। यजिरत्र देवपूजायां वर्तते, तत्र च घृतस्य करणभावः॥
Prakriyasarvasvam¶
बहुलं षष्ठी स्यात् । सोमस्य यजते, सोमेन यजते ।