23066: उभयप्राप्तौ कर्मणि

Padacheda: उभयप्राप्तौ | S | 7 | 1 |

कर्मणि | S | 7 | 1 |

Sutrartha


Vasu English Summary

When the agent and the object of the action denoted by the words formed by कृत्-affixes, are both used in a sentence, in the object only, the 6th-Case-affix is employed and not in the agent (the object is put in the Genitive 6th-Case and not the Agent).

Vasu English Translation

When the agent and the object of the action denoted by the words formed by कृत्-affixes, are both used in a sentence, in the object only, the 6th-Case-affix is employed and not in the agent (the object is put in the Genitive 6th-Case and not the Agent). आश्चर्य्यो गवां दोहोऽगोपालकेन ‘the milking of a cow without a cowherd is a wonder.’ रोचते मे ओदनस्य भोजनं देवदत्तेन. ‘The eating of rice by Devadatta pleases me;’ पयसः पानं यज्ञदत्तेन ‘the drinking of milk by Yajnadatta.’

Vart:- When the agent and object are both used, the agent is put in the instrumental, or genitive case, when, as some say, the krit terminations are of the feminine gender, or as others say, when the terminations are of any gender; as, विचित्रा जगतः कृतिर्हरेर्हरिणा वा ‘the creation of the world by Hari is wonderful’ शब्दानामनुशासनमाचार्य्येण आचार्यस्यवा ‘the dissertation on words by the acharya’ पवित्राहि सूत्रस्य कृतिः पाणिनेः or पाणिनिना वा ‘beautiful is the structure of sutra by Panini.’ Apte.

Bhashya

उभयप्राप्तौ कर्मणि 524 (331 नियमसूत्रम् ॥ 2.3.3 अ.9) (नियमप्रतिषेधाधिकरणम्) (1539 प्रतिप्रसववार्तिकम् ॥ 1) - उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधेऽकादिप्रयोगेऽप्रतिषेधः - (भाष्यम्) उभयप्राप्तौ कर्मणिषष्ठ्याः प्रतिषेधेऽकादिप्रयोगे प्रतिषेधो न भवतीति वक्तव्यम्। भेदिका देवदत्तस्य काष्ठानाम्; चिकीर्षा विष्णुमित्रस्य कटस्य ॥ (भाष्यम्) अपर आह - (1540 वार्तिकन्यासान्तरम् ॥ 2) - अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम् - (1541 वार्तिकम् ॥ 3) - शेषे विभाषा - (भाष्यम्) शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिः। शोभना खलु दाक्षायणस्य संग्रहस्य कृतिः, शोभना खलु दाक्षायणेन संग्रहस्य कृतिः ॥ उभय ॥ 66 ॥

Kashika

पूर्वेण षष्ठी प्राप्ता नियम्यते। उभयप्राप्ताविति बहुव्रीहिः। उभयोः प्राप्तिर्यस्मिन् कृति सोऽयमुभयप्राप्तिः, तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते म ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं यज्ञदत्तेन। बहुव्रीहिविज्ञानादिह नियमो न भवति — आश्चर्यमिदम्, ओदनस्य नाम पाको ब्राह्मणानां च प्रादुर्भाव इति॥ अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम्॥ भेदिका देवदत्तस्य काष्ठानाम्। चिकीर्षा देवदत्तस्य कटस्य॥ शेषे विभाषा॥ अकाकारयोः स्त्रीप्रत्यययोर्ग्रहणात् तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते। विचित्रा हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा। केचिदविशेषेणैव विभाषामिच्छन्ति। शब्दानामनुशासनमाचार्येण, आचार्यस्येति वा॥

Siddhanta Kaumudi

उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥<!स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः !> (वार्तिकम्) ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ।<!शेषे विभाषा !> (वार्तिकम्) ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥

Balamanorama

उभयप्राप्तौ कर्मणि - उभयप्राप्तौ कर्मणि । पूर्वसूत्रात्कृतीत्यनुवर्तते । उभयप्राप्ताविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाहः-उभयोः प्राप्तिर्यस्मिन्कृतीति । एकस्मिन्कृति उभयोः=कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात्, नतु कर्तरीति यावत् । आश्चर्य इति । अगोपकर्तृको गोकर्मको यो दोहः सोऽद्भुत इत्यर्थः । उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि बहुव्रीह्राश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभाद्भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति ।स्त्रीप्रत्यययोरिति । वार्तिकमेतत् ।स्त्रियां क्ति॑न्नित्यधिकारविहितयोरकाऽकारप्रत्यययोः कृतोः प्रयोगे ‘कर्मण्येवे’ त्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति । धात्वर्थनिर्देशे ण्वुल् । अकादेशः, टाप्,प्रत्ययस्थादि॑तीत्त्वम् । विभित्सेति । भिदेः सन्नान्तात्अ प्रत्यया॑दित्यकारप्रत्ययष्टाप् । रुद्द्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः । शेषे विभाषेति । इदमपि वार्तिकम् । अकाऽकारप्रत्ययव्यतिरिक्तप्रत्ययोगे ‘उभयप्राप्तौ’ इति नियमो विकल्प्य इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः । शब्दानामिति । आचार्यकर्तृकं शब्दक्रमकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् ।

Tattvabodhini

उभयप्राप्तौ कर्मणि - उभयप्राप्तौ । कृतीत्यनुवर्तते । तेनान्यपदार्थत्वाद्बहुव्रीहिरित्याह — उभयोः प्राप्तिर्यस्मिन्निति । उभयशब्देन कर्तृकर्मणी परामृश्येते । तेनैकस्मिन् कृति कर्तृकर्मणोः प्राप्तिलाभादाश्चर्यमिदमोदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्र नायं नियमः प्रवर्तते । तत्पुरुषे तु स्यादेवाऽत्रातिप्रसङ्ग इति भावः । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमिति ध्वनयति -कर्मण्येवेति । एवं च कर्तरि षष्ठी प्रतिषेदोऽस्य सूत्रस्य फलं, न तु कर्मणि षष्ठीविधानमिति स्थितम् ।स्त्रीप्रत्यययोरकाऽकारयोर्नायं नियमः । स्त्रीप्रत्यययोरिति ।स्त्रियां क्तिन् इत्यधिकारे विहितयोरित्यर्थः । नायं नियम इति ।अकाऽकारयोः प्रयोगे कर्मण्येव षष्ठी न तु कर्तरी॑ति यो नियम उक्तः स न प्रवर्तते, किन्तु कर्तर्यपि षष्ठी प्रवर्तत इति । फलितोऽर्थः । कथं तर्हिसुट्तिथोः॑ इति सूत्रेसुटासीयुटो बाधोन॑ इति वृत्तिः । अत्राहुः — कर्तुः करणत्वविवक्षया तृतीया बोध्येति । भेदिकेति । भेदनं भेदिका ।पर्यायार्हणोत्पत्तिषु॑इति ण्वुच् ।धात्वर्थनिर्देशे ण्वुल् वक्तव्यः॑ इत्यनेन ण्वुलित्येके ।युवोरनाकौ॑ । स्त्रियां टापिप्रत्ययस्थात् -॑इति इत्वम् । बिभित्सेति । भेत्तुमिच्छा । भिदेः सनिहलन्ताच्चेति कित्त्वाद्गुणाऽभावः ।अ प्रत्ययात् इत्यकारप्रत्यये टाप् ।शेषे विभाषा । शेषे इति । अकाऽकाराभ्यामन्यस्मिन् क्तिनादावित्यर्थः । कर्तरि षष्ठीनिषेधफलकस्यउभयप्राप्तौ॑ इति सूत्रस्य, तत्रैव कर्तरि षष्ठीसम्पादनफलकस्यस्त्रीप्रत्यययोरकाऽकारयोः॑ इति वचनस्य च प्राक् स्थितत्वात्कर्तर्येव विभाषा अनेन शेषवचनेन क्रियते, न तु कर्मणीत्याशयेनोदाहरति — जगतः कृतिर्हरेर्हरिणा वेति । अविशेषेणेति । अकाऽकारभिन्ने कृन्मात्रे इत्यर्थः । अनुशासनमिति । अनुशासनमिति । अनुशिष्यन्ते असाधुशब्देभ्यः प्रविभज्य बोध्यन्ते येनेति करणे ल्युट् ।

Padamanjari

उभयप्राप्तौ कर्मणि॥ उभयशब्देन प्रकृतत्वात्कर्तृ कर्मणी संबध्येते। उभयप्राप्ताविति बहुव्रीहिरिति। न तत्पुरुषः। उभयोः कर्तृकर्मणोः षष्ठीप्राप्तौ सत्यामिति। अत्र प्रयोजनं वक्ष्यति - कर्मण्येवेति। विपरीतस्तु नियमो न भवति - उभयप्राप्तावेव कर्मणीति। एवं हि पूर्वसूत्रे कर्मग्रहणमनर्थकं स्याद्, अनेनैव विशिष्टविधानमाश्रयणीयं भावः। आश्चर्य इति। सकर्मकेभ्यो भावे कृति विहिते कर्मणि कर्तरि च षष्ठी प्राप्ता नियमेन कर्तुरपनीयते। प्राप्तिग्रहणाच्च प्राप्तिमात्रे नियम इति कर्तृकर्मणोः प्रयोगेऽपि कर्तरि तृतीया भवति, ठन्तर्धौ येनादर्शनमिच्छतिऽ इति अत्र ह्यात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। अत्र च ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इति कर्तृकर्मणोरिति प्राप्तिर्नियम्यते, शेषषष्ठी तु कर्मर्यति भवत्येव। नियमस्य प्रयोजनं पक्षे तृतीयाश्रवणम्। कर्मापि यदा शेषत्वेन विवक्ष्यते तदा तत्रापि शेषषष्ठी भवत्येव। तस्याश्च’कर्मणि च’ इति निषेधाभावात्समासेऽपि भवति। निषेधस्य तु प्रयोजनं कृत्स्वरो मा भूदिति। एतदपि सूचितम् - पूर्वेण षष्ठी प्राप्तौ नियम्यत इति। आश्चर्यमिदमित्येतावदेकं वाक्यम्, किं तदित्याह - ओदनरयेति। अत्र पाके ओदनस्य कर्मत्वम्, प्रादुर्भावे च ब्राह्मणानां कर्तृत्वमित्यनेकत्वात्कृदुभयप्राप्तिर्भवति भेदिकेति। पर्यायादिषु ण्वुच्। चिकीर्षेति। ठ प्रत्ययात्ऽ। अत्रोभयत्रापि कर्तरि तृतीया न भवति। षष्ठी तु शेषविवक्षयापि सिद्ध्यति। समासोऽप्यत्र भवति - धर्मजिज्ञासा देवदतस्य, शिष्यस्याचार्यशुश्रूषेति’शेषे विभाषा’ इति। तत्र यदा नियमेन कर्तरि तृतीया तदा’कर्मणि च’ इति निषेधात्पाणिनिना सूत्रकृतिः, आचार्येण शब्दानुशासनमित्यसाधुः समासः; पाणिनेः सूत्रकृतिः, आचार्यस्य शब्दानुशासनमिति तु साधुः॥

Nyaas

उभयप्राप्ताविति बहुव्रीहिः इति। तेन तत्पुरुषशङ्कां निरस्यति। बहुव्रीहेराश्रयणस्य प्रयोजनं वक्ष्यति। उभयग्रहणमेन प्रकृतत्वात् कर्त्तृकर्मणी सम्बध्येते। उभयोः प्राप्तिर्यस्मिन् कृति`इत्यनेनैकस्मिन्नेवेत्यभिप्रायः। `कर्मण्येव इति नियमस्य स्वरूपं दर्शयति। उभयप्राप्तावेव कर्मणीत्येष तु विपरीतनियमो न भवति। मा भूत् पूर्वसूत्रेण कर्मणि षष्ठीविधानस्य वैयथ्र्यमिति। आश्चर्यो गवां दोहोऽगोपालकेन इति। दुहेर्भावे घञ्। तत्रोभयोप्राप्तौ कर्मण्येव गोषु षष्ठी भवति; नाऽगोपालके कर्तरि। अत्र च कृत्वोऽर्थप्रयोगे (2.3.64) इत्यतः प्रयोगग्रहणं नानुवर्तते। तेन गम्यमानेऽपि कर्मणि षष्ठी भवति, यथा - अन्तर्धौ येनादर्शनमिच्छति (1.4.28) इत्यत्र ह्रप्रयुज्यमानस्यात्मनः कर्मत्वं गम्यते। पानम् इति। ल्युट् च (3.3.115) इति भावे ल्युट्। इह तु न भवति - आश्चर्यमिदमोदनस्य च पाको ब्राआहृणानाञ्च पादुर्भाव इति। न ह्यत्रैकस्मिन् कृत्युभयोः प्राप्तिः। तथा ह्रोदनस्य पाक इत्यत्र कर्मण्येवौदने प्राप्तिः, न तु ब्राआहृणेषु कर्त्तुषु। न हि पाकस्य कर्त्तृत्वेन विवक्षिता ब्राआहृणाः, किं तर्हि? प्रादुर्भावस्य कर्त्तृत्वेन। ब्राआहृणानां नच प्रादुर्भाव इत्यत्रापि प्रादुर्भाव इत्येतस्मिन् कृति कर्त्तृष्वेव ब्राआहृणेषु प्राप्तिः, न कर्मण्योदने। न हि प्रादुर्भावस्योदनः कर्म; भवतेरकर्मकत्वात्। पाकस्यैव त्वोदनः कर्मत्वेन विवक्षितः।अकाकारयोः`इत्यादि। नियमस्यायं प्रतिषेधः। अकाकारयोः प्रयोगे नियमो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `चतुथ्र्यर्थे बहुलं छन्दसि (2.3.62) इत्यतो बहुलग्रहणमनुवर्तते, तेनाकाकारयोः प्रयोगे नियमो न भविष्यतीति।शेषे विभाषा इति। अस्याप्यर्थो बहुलग्रहणसमाश्रयणेन व्याख्यातव्यः। भेदिका इति। पूर्ववद्भावे ण्वुच्। चिकीर्षा इति। अ प्रत्ययात् (3.3.102) इत्यकारप्रत्ययः॥

Praudhamanorama

स्त्रीप्रत्यययोरिति। कथं तर्हि ‘सुट्तिथोः’ इति सूत्रे ‘सुटा सियुटो बाधो न’ इति वृत्तिः। करणत्वविवक्षायां तृतीयेति गृहाण।

Prakriyasarvasvam

कर्तरि कर्मणि च सहप्राप्तौ कर्मण्येव षष्ठी स्यात् । कर्तर्यपि वेति वृत्तिः । <karika>अद्भुतं खलु बालेन शैलस्योद्धरणं तदा । विकल्पादिह बालस्य शैलस्योद्धार इत्यपि ॥ ५५९ ॥</karika> <karika>स्त्रीलिङ्गे यावकाकारौ तत्र षष्ठ्येव तु द्वयाः । जाता कृष्णस्य कंसस्य बिभित्सा भेदिकापि च ॥ ५६० ॥</karika> <karika>समासप्रतिषेधोऽत्र द्वयोः षष्ठयां न जायते । विप्रस्य धर्मजिज्ञासा कृष्णस्य गिरिधारणम् ॥ ५६१ ॥</karika> <karika>येनादर्शनमित्युक्तेरर्थप्राप्ते तु कर्मणि । तृतीया कर्तरि भवेत् साधु कृष्णेन रक्षणम् ॥ ५६२ ॥</karika>

Vartika

स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः ।