23061: प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने¶
Padacheda: प्रेष्य-ब्रुवोः | S | 6 | 2 |
हविषः | S | 6 | 1 |
देवता-सम्प्रदाने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The object of the verb प्रेष्य and ब्रूहि (imperative singular of दिवादि verb, meaning ‘send’ and ‘utter’) denoting sacrificial food, takes the 6th-Case-affix, when making offerings to deity is meant or when deity is the recipient.
Vasu English Translation¶
The object of the verb प्रेष्य and ब्रूहि (imperative singular of दिवादि verb, meaning ‘send’ and ‘utter’) denoting sacrificial food, takes the 6th-Case-affix, when making offerings to deity is meant or when deity is the recipient. Ex. अग्नये छागस्य हविषोवपाया मेदसोऽनुब्रूहि प्रेष्य वा ‘send to fire as oblation, the goat, the fat, and the marrow.’ But not here —अग्नये छागं हविर्वपां मेदो जुहुधि. Because the verb is not preshya or bruhi So also not here अग्नये गोमयान् प्रेष्य. Because it is not an oblation. Not here too माणवकाय पुरोडाशं प्रेष्य. Because the recepient is not a diety. Compare (8.2.91).
Vart:- This rule does not apply when the word ‘set out’ qualifies the word हविः as; इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य ‘send to Indra and Agni the oblation set out for them’ &c.
Bhashya¶
प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने 519 (328 षष्ठीसूत्रम् ॥ 2.3.3। आ.6 सू.) (1534 शेषपूरकवार्तिकम् ॥ 1) - हविषोऽप्रस्थितस्य - (भाष्यम्) हविषः अप्रस्थितस्येति वक्तव्यम्। इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य ॥ प्रेष्य ॥ 61 ॥
Kashika¶
प्रेष्य इति इष्यतेर्दैवादिकस्य लोण्मध्यमपुरुषस्यैकवचनम्, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते। प्रेष्यब्रुवोर्हविषः कर्मणः षष्ठी विभक्तिर्भवति देवतासंप्रदाने सति। अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य (का०श्रौ० ६.६.२४)। अग्नये छागस्य हविषो वपायै मेदसोऽनुब्रू३हि (का०श्रौ० ६.६.२२)। प्रेष्यब्रुवोरिति किम्? अग्नये छागं हविर्वपां मेदो जुहुधि। हविष इति किम्? अग्नये गोमयानि पे्रष्य। देवतासंप्रदान इति किम्? माणवकाय पुरोडाशं प्रेष्य॥ हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः॥ इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रे३ष्य (का०श्रौ० ६.६.२५)॥
Siddhanta Kaumudi¶
देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥
Tattvabodhini¶
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने - प्रेष्यब्राउवोः । इष्यतेक्दैवादिकस्य लोटो मध्यमपुरुषैकवचनं -प्रेष्यति । तत्साहचर्याद्द्र विरपि तथाभूत एव गृह्रते । अत एवेह शेषग्रहणं न सम्बध्यते । तिङन्तेन सह समासस्याऽप्रसक्तत्वात् । प्रेष्याब्राउवोः किम् । अग्नेय छागस्य हहविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवता सम्प्रदाने किम् । माणवकाय पुरोडाशान्प्रेष्य ।हविषः प्रस्थितत्वेन विशेषणे प्रतिषेधो वक्तव्यः॑ । इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रेष्य ।
Padamanjari¶
प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने॥ इष्यतेद्êअवादिकस्येति। ठिषु गतौऽ इत्यस्य श्यना निर्देश इच्छतीष्णात्योरिच्छाभीक्ष्ण्यार्थयोर्निवृत्यर्थः। तद्विषय एवेति। लोण्मध्यमैकवचनान्तः। देवतासंप्रदान इति। देवता संप्रदानं यस्यार्थस्य तत्र वर्तमानयोः कर्मणि कारक इत्यन्वयः। हविषः हविर्विशेषवाचिन इत्यर्थः। प्रे3ष्येति।’ब्रूहिप्रेष्य’ इत्यादिना प्लुतः। अग्यये गोमयानि प्रेष्येति। गोमयं हविष्ट्वेन क्वापि न चोदितम्। हविषः प्रस्थितस्येति। प्रस्थितशब्देन यद्विशेष्यते तस्येत्यर्थः। इदं च भाषायामपि भवति; उतरत्र च्छन्दोग्रहणात्॥
Nyaas¶
इष्यतेर्दैवादिकस्य इति। इष गतौ (धातुपाठः- 1127) इत्यस्य श्यना निर्देश इष्यन्तराणां निवृत्त्यर्थः। लोण्मध्यमपुरुषैकवचनेन निर्देशस्तु लकारान्तरस्य पुरुषान्तरस्य वचनान्तरस्य च निवृत्त्यर्थः। तद्विषय एव इति। लोण्मध्यमपुरुषैकवचनविषय एव। अग्नये छागस्य इत्यादि। छागस्य विकारश्चछागः। तत्राग्निर्देवता सम्प्रदानम्। कछागविकारो वपादि सम्प्रदेयं हविः कर्म। {नास्ति-काशिका, पदमञ्जरी च} ननु प्रेष्य इति। अतो हेः (6.4.105) इति हर्लुक्। ` अनुब्राऊहि` इति। सेह्र्रपिच्च (3.4.87) इति हिरादेशः। अदादित्वाच्छपो लुक्। भाषाविषयेऽप्ययं योगः; उत्तरसूत्रे छन्दोग्रहणात्। जुहुधि इति। हुझल्भ्यो हेर्धिः (6.4.101) इति धिभावः। अग्नये गोमयानि प्रेष्य इति। ननु च गोमयानि हर्वीषि भवन्त्येव, तत्कथं प्रत्युदाहरणम्? नैवम्; देवतासम्प्रदानग्रहणादेव सम्बन्धिशब्दात्वाद्धविग्र्रहणे सिद्धे पुनर्हविग्र्रहणादभ्यवहार्यस्य हविषो ग्रहणं विज्ञायते। न च गोमयान्यभ्यवहार्याणि भवन्तीति युक्तं प्रत्युदाहरणम्।हविषः प्रस्थितस्य इत्यादि। प्रस्थितशब्देन यद्विशिष्यते हविस्तत् प्रस्थितम्। तस्य षष्ठ्याः प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - विभाषोपसर्गे (2.3.59) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन हविषः प्रस्थितस्य न भवति॥
Praudhamanorama¶
इष्यतेर्दैवादिकस्य गत्यर्थस्य लोण्मध्यमपुरुषैकवचनं ‘प्रेष्य’ इति, तत्साहचर्यात् ब्रुविरपि तथाभूत एव गृह्यते। अत एवेह शेषग्रहणं न सम्बध्यते तिङन्तेन सह समासस्याऽप्रसक्तत्वात्।
Vartika¶
हविषोऽप्रस्थितस्य ।