23060: द्वितीया ब्राह्मणे

Padacheda: द्वितीया | S | 1 | 1 |

ब्राह्मणे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The object of the verb दिव् when having the above-mentioned sense of ‘dealing’ or ‘stalking’, takes the 2nd case, in the ब्राह्मण literature.

Vasu English Translation

The object of the verb दिव् when having the above-mentioned sense of ‘dealing’ or ‘stalking’, takes the 2nd case, in the ब्राह्मण literature. Ex. गामस्य तदहः सभायां दीव्येयुः (Maitr.S.1.6.11) In the Vedic literature the simple verb div takes the accusative instead of the genitive. And with upasargas it is optional. The anuvritti of the word शेष does not extend to this sutra, or the following.

Bhashya

द्वितीया ब्राह्मणे 518 (327 द्वितीयासूत्रम् ॥ 2.3.3 आ.5) (आक्षेपभाष्यम्) किमुदाहरणम्? ॥ (समाधानभाष्यम्) गां निघ्नन्ति। गां प्रदीव्यन्ति। गां सभासद्भ्य उपरहन्ति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति। पूर्वेणाप्येतत्सिद्धम् ॥ (समाधानभाष्यम्) इदं तर्हि - गामस्य तदहः सभायां दीव्येयुः ॥ द्वितीया ॥ 60 ॥

Kashika

ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति। गा॑म॒स्य॒ त॑द॑हः॒ स॒भा॑यां॒ दीव्येयुः॒ (मै०सं० १.६.११)। अनुपसर्गस्य षष्ठ्यां प्राप्तायामिदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाषयापि सिध्यति॥

Siddhanta Kaumudi

ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥

Padamanjari

द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्,’स्वमोर्नपुंसकात्’ इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति।’दिवस्तदर्थस्य’ इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह - सोपसर्गस्येत्यादि॥

Nyaas

ब्राआहृणे; इति। ब्राआहृणशब्दः शथपथस्याख्या। `ग्रामस्य इति। शेषषष्ठी। सभायामित्येतदपेक्षया। तदहः इति। एतदुहारणम्। स्वमोर्नपुंसकात् (7.1.23) इत्यमो लुक्। अहन् (8.2.68) इत्यनुवर्तमाने रोऽसुपि (8.2.69) इति नकारस्य रेफः, विसर्जनीयः। दीव्येयुः इति। लिङ, झेर्जुस्, अतो येयः (7.2.80) इतीयादेशः, लिङ सलोपोऽनन्त्तयस्य (7.2.79) इति सलोपः। सोपसर्गस्य विभाषया षष्ठआं प्राप्तायां नित्यं द्वितीयाविधानार्थं वचनं कस्मान्न भवतीत्याह - सोपसर्गस्य इति। विभाषोपसर्गे (2.3.59) इत्यनेन व्यवस्थितविभाषयापि च्छन्दसि नित्यं द्वितीया भविष्यतीति तदर्थकमिदं वचनं नोपपद्यते॥

Prakriyasarvasvam

द्यूतार्थे दिवः कर्मणि षष्ठ्युक्ता ब्राह्मणे तु द्वितीयैव स्यात् । (गामस्य तदहः सभायां दीव्येयुः ।)