Sutras 41 - 60¶
- 11041: अव्ययीभावश्च
- 11042: शि सर्वनामस्थानम्
- 11043: सुडनपुंसकस्य
- 11044: न वेति विभाषा
- 11045: इग्यणः सम्प्रसारणम्
- 11046: आद्यन्तौ टकितौ
- 11047: मिदचोऽन्त्यात्परः
- 11048: एच इग्घ्रस्वादेशे
- 11049: षष्ठी स्थानेयोगा
- 11050: स्थानेऽन्तरतमः
- 11051: उरण् रपरः
- 11052: अलोऽन्त्यस्य
- 11053: ङिच्च
- 11054: आदेः परस्य
- 11055: अनेकाल्शित्सर्वस्य
- 11056: स्थानिवदादेशोऽनल्विधौ
- 11057: अचः परस्मिन् पूर्वविधौ
- 11058: न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु
- 11059: द्विर्वचनेऽचि
- 11060: अदर्शनं लोपः