11060: अदर्शनं लोपः

Padacheda: अदर्शनं | S | 1 | 1 |

लोपः | S | 1 | 1 |

Sutrartha

वर्णस्य वर्णसमूहस्य वा अदर्शनम् ‘लोपः’ नाम्ना ज्ञायते ।

व्याकरणशास्त्रस्य संज्ञासु अन्यतमा अस्ति ‘लोपः’ इति संज्ञा । प्रक्रियायाम् वर्णस्य वर्णसमूहस्य वा जायमानम् अदर्शनम् अनया संज्ञया निर्दिश्यते । प्रक्रियायाः प्रारम्भिकसोपानेषु अयं वर्णः (समूहः वा) दृश्यते, परन्तु लोपे कृते तस्य दर्शनम् न भवति, इति अत्र आशयः । <note>अत्र ‘अदर्शनम्’ इत्यनेन केवलम् नेत्रविशिष्टं कार्यम् एव न गृह्यते, अपि तु अयं शब्दः ‘अनुच्चारणम्’ / ‘अश्रवणम्’ एतान् अर्थान् अपि गृह्णाति । </note>

लोपसंज्ञायाः सूत्रेषु प्रयोगः

व्याकरणशास्त्रस्य प्रक्रियासु लोपकार्यम् बहु प्राचुर्येण कृतं दृश्यते । अष्टाध्याय्यां तु पञ्चाशतः अपि अधिकेषु सूत्रेषु लोपसंज्ञायाः प्रयोगः कृतः लभ्यते । यथा — (1) तस्य लोपः (1.3.9) इत्यनेन सूत्रेण इत्संज्ञकवर्णस्य लोपः भवति, (2) संयोगान्तस्य लोपः (8.2.23) इत्यनेन पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति, (3) हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन अपृक्तस्य ‘सुँ’प्रत्ययस्य लोपः क्रियते — आदयः । अधोदत्ते उदाहरणे एतानि त्रीणि अपि सूत्राणि प्रयुक्तानि दृश्यन्ते —

डुकृञ्
→ कृ ['डु' इत्यस्य **आदिर्ञिटुडवः** (1.3.5) इति इत्संज्ञा । ञकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । द्वयोः अपि **तस्य लोपः** (1.3.9) इति **लोपः**]
→ कृ + क्तवतुँ [**निष्ठा** (3.2.102) इति क्तवतुँ-प्रत्ययः]
→ कृ + तवत् [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा ।  द्वयोः अपि **तस्य लोपः** (1.3.9) इति **लोपः**]
→ कृतवत् + सुँ [प्रथमैकवचनस्य सुँप्रत्ययः]
→ कृतवत् + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा , **तस्य लोपः** (1.3.9) इति **लोपः**]
→ कृतवात् + स् [**अत्वसन्तस्य चाधातोः** (6.4.14) इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]
→ कृतवा नुम् त् + स् [**उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम्]
→ कृतवा न् त् + स् [मकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा,  **तस्य लोपः** (1.3.9) इति **लोपः** । उकारः उच्चारणार्थः, तस्यापि लोपः भवति ।]
→ कृतवा न् त् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तस्य 'सुँ'प्रत्ययस्य **लोपः** ।]
→ कृतवान् [**संयोगान्तस्य लोपः** (8.2.23) इति तकारस्य **लोपः**]

लुप्तवर्णस्य स्थानिवद्भावः

बह्वीषु प्रक्रियासु पूर्वसोपाने लुप्तः वर्णः स्थानिवद्भावेन अग्रिमसोपाने किञ्चित् कार्यम् कार्यनिषेधं वा अपि कारयति । यथा, ‘कथ’ धातोः अन्तिम-अकारस्य णिच्-प्रत्यये परे लोपः भवति, परन्तु अयमेव लुप्तः अकारः अग्रिमसोपाने स्थानिवद्भानेन उपधावृद्धेः निषेधम् अपि कारयति । प्रक्रिया इयम् —

कथ + णिच्
→ कथ + इ [णिच्-प्रत्ययस्य णकारचकारयोः इत्संज्ञा, लोपः । कथ-धातोः अन्तिमः अकारः तु अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा अपि न भवति ।]
→ कथ् + इ [**अतो लोपः** (6.4.48) इति थकारोत्तस्य अकारस्य लोपः । एतादृशे लोपे कृते ककारोत्तरः अकारः उपधास्थानं स्वीकरोति,  अतः अत्र प्रत्ययस्य णित्त्वात् **अत उपधायाः** (7.2.116) इति (अनिष्टा) उपधावृद्धिः प्राप्नोति । परन्तु अस्यां स्थितौ थकारोत्तरः लुप्तः अकारः **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन स्थानिवद्भावेन तस्य मूलस्थाने अतिदिश्यते, येन ककारोत्तरस्य अकारस्य उपधात्वं विनश्यन्ति, अतश्च **अत उपधायाः** (7.2.116) इत्यनेन प्राप्ता अनिष्टा उपधावृद्धिः अपि निवार्यते ।]
→ कथि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा]

<note>एतादृशः लुप्तः वर्णः स्थानिवद्भावेन कुत्र कार्यम् कार्यनिषेधं वा कारयितुम् समर्थः अस्ति अस्मिन् विषये जिज्ञासुभिः स्थानिवदादेशोऽनल्विधौ (1.1.56), अचः परस्मिन् पूर्वविधौ (1.1.57), न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (1.1.58) एतानि सूत्राणि द्रष्टव्यानि । </note>

Sutrartha (English)

non-appearance of a letter or a group of letters is called लोप.

Vasu English Summary

The substitution of a blank (लोप) signifies disappearance.

Vasu English Translation

The substitution of a blank (लोप) signifies disappearance. This defines elision. When a letter or word-form becomes latent, is neither heard, nor pronounced, nor written, it becomes lopa or is said to be elided. Lopa is the term for the disappearance of anything previously apparent. In Sanskrit Grammar, this “lopa” is considered as a substitute or adesa, and as such this grammatical zero has all the rights and liabilities of the thing which it replaces. This blank or lopa is in several places treated as having a real existence and rules are made applicable to it, in the same way as to any ordinary substitute that has an apparent form. The Grammarians do not content themselves with one sort of blank, but have invented several others; there are many kinds of them, such as lopa blank, slu blank, lup blank, and luk blank, which like different sorts of zeroes of a Mathematician, have different functions.

The word lopa occurs in sutras (6.1.66) and (6.4.118) &c. The lopa substitute is a sense substitute, and not a form substitute. Thus when we say ‘let the substitute lopa take the place of such and such a letter or word,’ we do not mean that the letters ल्, ओ, प् and अ should be substituted there, but the sense of the thing, namely ‘disappearance.’

Bhashya

अदर्शनं लोपः अर्थस्य सञ्ज्ञा कर्तव्या। शब्दस्य मा भूदित। इतरेतराश्रयं च भवति। का इतरेतराश्रयता ? सतोऽदर्शनस्य सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चादर्शनं भाष्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। लोपसञ्ज्ञायामर्थसतोरुक्तम्। किमुक्तम्? अर्थस्य तावदुक्तम्- इतिकरणोऽर्थनिर्देशार्थे इति। सतोऽप्युक्तम्। सिद्धं तु नित्यशब्दत्वादिति। नित्याः शब्दाः। नित्येषु शब्देषु च सतोऽदर्शनस्य सञ्ज्ञा क्रियते। न हि सञ्ञ्ज्ञया अदर्शनं भाव्यते। सर्वप्रसङ्गस्तु सर्वस्यान्यत्रादृष्टत्वात्। सर्वप्रसङ्गस्तु भवति। सर्वस्यादर्शनस्य लोपसञ्ज्ञा प्राप्नोति। किं कारणम्? सर्वस्यान्यत्रादृष्टत्वात्। सर्वो हि शब्दो यो यस्य प्रयोगविषयः स ततोऽन्यत्र न दृश्यते। त्रपु- जतु इत्यत्राणोऽदर्शनं तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। अचो ञ्ञ्णितीति वृद्धिः प्राप्नोति। नैष दोषः। ञ्ञ्णित्यङ्गस्याचो वृद्धिरुच्यते। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गं भवति। यस्माच्च प्रत्ययविधिर्न तत् प्रत्यये परतः। यच्च प्रत्यये परत, न तस्मात् प्रत्ययविधिः। क्विपस्तर्ह्यदर्शनम्। तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः। ह्रस्वस्य पिति कृति तुगित तुक् प्राप्नोति। सिद्धं तु प्रसक्तादर्शनस्य लोपसञ्ञ्ज्ञत्वात्। सिद्धमेतत्। कथम् ? प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीति वक्तव्यम्। यदि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवति इत्युच्यते, ग्रामणीः - सेनानीः,अत्र वृद्धिः प्राप्नोति। प्रसक्तादर्शनं लोपसंज्ञं भवति षष्ठीनिर्दिष्टस्य। यदि षष्ठीनिर्दिष्टस्येत्युच्यते - चाहलोप एवेत्यवधारणम्। चादिलोपे विभाषा अत्र लोपसञ्ज्ञा न प्राप्नोति। अथ प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यमाने कथमिवैतत् सिध्यति ? को हि शब्दस्य प्रसङ्गः? यत्र गम्यते चार्थो न च प्रयुज्यते। अस्तु तर्हि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्येव। कथं ग्रामणीः -सेनानीः ? योऽत्राणः प्रसङ्गः क्विपासौ बाध्यते ॥60 ॥

Kashika

अदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः, अभावः, वर्णविनाश इत्यनर्थान्तरम्। एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोप इतीयं संज्ञा भवति। अर्थस्येयं संज्ञा न शब्दस्य। प्रसक्तस्यादर्शनं लोपसंज्ञं भवति। गोधाया ढ्रक् (४.१.१२९) — गौधेरः। पचेरन्। जीवे रदानुक् (द०उ० १.१६३) — जीरदानुः। स्रिवेर्मनिन् — आस्रेमाणम्। यकारवकारयोरदर्शनमिहोदाहरणम्। अपरस्यानुबन्धादेः प्रसक्तस्य। लोपप्रदेशाः — लोपो व्योर्वलि (६.१.६६) इत्येवमादयः॥

Siddhanta Kaumudi

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्॥

Laghu Shabdendushekhar

अदर्शनम् । स्थाने इति वर्त्तते, प्रसङ्गे सतीति तदर्थस्तदाह – प्रसक्तस्येति । शास्त्रतोऽर्थतो वेति भावः । अत्र दृशिर्ज्ञानसामान्ये । तत्र ज्ञानस्याऽवर्जनीयतया तत्सामग्र्यन्तर्गता उच्चारणकृता सत्ता निषिद्ध्यते । तत्र प्रत्ययलोपे शास्त्रतोऽर्थतश्च प्रसक्तोच्चारणस्य लोपविधानेन तस्य तस्मिन् विषयेऽनुत्पत्तेरेवान्वाख्यानं प्रत्ययलक्षणार्थमिति बोद्ध्यम् । अर्थस्यैषा सञ्ज्ञा व्याख्यानात् । यत्तु प्रसक्तस्येति किं ? “ग्रामे तिष्ठति” इत्यादौ “ल्यब्लोप” (<!ल्यब्लोपे कर्मण्यधिकरणे च!> (वा० (२.३.२८))) इति पञ्चम्यापत्तेः। अस्ति चात्र ल्यपोऽदर्शनम् । शास्त्रतोऽर्थतश्च न तत्प्रसक्तिरिति न दोष इति । तन्न । तेन प्रत्यासत्त्या ल्यबन्तार्थकर्माधिकरणयोरेव पञ्चमीविधानेन तस्यात्राप्राप्तेः । तत्त्वे तु अस्त्येवार्थतो ल्यबन्तस्य प्रसक्तिः । तस्मात् “त्रपु” इत्यत्र क्विपोऽदर्शनसत्त्वेन प्रत्ययलक्षणेन तुगापत्तिर्दोषः । कृत्प्रत्ययेन प्रकृत्याक्षेपस्तु न । अत्रैव प्रकृतिं विनाऽतिदेशतः प्रत्ययज्ञानसत्त्वेन व्यभिचारात्तदाक्षेपासम्भवात् ॥

Balamanorama

अदर्शनं लोपः - सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह — अदर्शनं लोपः । शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम् । दर्शनस्याभावोऽदर्शनम् । अर्थाभावेऽव्ययीभावः । ‘स्थानेऽन्तरतमः’ इत्यतः स्थां इत्यनुवर्तते । स्थानं प्रसङ्ग इत्युक्तम् । शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः ।

Tattvabodhini

अदर्शनं लोपः - अदर्शनं लोपः । अत्र दृशिज्र्ञानसामान्यवचनः । दर्शनं ज्ञानं । तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते । तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम् । नन्वेवंलोपो व्योर्वली॑त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । अत्राहुः-असति च श्रवणे उच्चारणमनर्थकमवेति सामर्थ्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति । प्रसक्तस्येति । इहस्थाने॑ इत्यनुवर्तनादेताल्लभ्यते । प्रसक्तस्येति किम् दधि मध्वित्यादौ तुगागमो मा भूत् । अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक् ।

Padamanjari

इह दर्शनं ज्ञानमुपलब्धिः । तच्च शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति । श्रवणं च श्रोतृव्यापारः, तन्निषेधे ‘लोपो व्योर्वलि’ इत्यस्य वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति । ‘लोपो व्योर्वलि’ इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति । कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो न भिद्यत इत्यर्थः । श्वं रूपम्’ इति वचनाद् अदर्शनशब्दस्यैव संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह - एतैः शब्दैरिति । एतच्च ङवेति विभाषा’ इत्यत इतिकरणानुवृतेर्लभ्यते । अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्, प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे श्वं रूपम्’ इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् । सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति । अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा, संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते, अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् । अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं मन्यते-श्थाने’ इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते । सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं जनयति । तेन शत्सूद्विष’ इत्यस्य सन्निधौ ‘कर्मण्यण्’ इत्यनेन नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥

Nyaas

अदर्शनम् इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्रश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत्किमित्येवमाह - अनर्थान्तरम् इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद् विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामर्थ्याद् विशेषे शब्दानुपलब्धावेववर्तेते। इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य लोपः इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह - एतैः शब्दैः इत्यादि। कथं पुरेतल्लभ्यते? एवं मन्यते - न वेति विभाषा (1.1.44) इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवर्तते। तेन ह्रवधारणं गम्यते, यथा - क्रिया हि द्रव्यं विनयति नाद्रव्यम् इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा - तरप्तमपौ घः (1.1.22) इत्यत्र। तस्मादिति-करणानुवृत्तिसामर्थ्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य।किञ्च लोपः महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्, किं तर्हि? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तह्र्रर्थस्यैवैषा संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च त्रपुजतु इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एवञ्च सति प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति ह्रस्वस्य पिति कृति तुक्` (6.1.69) इति तुक् प्रसज्यतइत्यत आह - प्रसक्तस्य इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा? न किं तर्हि? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण क्विप्प्रसङ्गोऽस्ति, तत्कुतोऽस्तिप्रसङ्गः? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति, नापि तत् कृतम्? एवं मन्यते - स्थानिवत् इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः - इति पर्याया ह्रेते। तेनायमर्थो लभ्यते - प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति।गौधेरः इति। गोधाया ढ्रक् (4.1.129) एयादेशः, लोपो व्योर्वलि (6.1.66) इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। पचेरन इत्यत्रापि सीयुटः शारुओण। एवम-न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। जीरदानुः आस्त्रेमाणम् इति। पूर्वपद् वकारस्य लोपः। स्त्रिवु गतिशोषणयोः (धातुपाठः- 1109) यस्य सर्वधातुभ्यो मनिन् इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते आरुओमाणम् इति। अपरस्यानुबन्धादेः इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।

Prakriyasarvasvam

शब्दस्यादर्शनं लोपाख्यम् । इति⁶ । <karika>हल् प्रत्याहारसिद्धिस्तु नो हलन्त्यमितीत्त्वतः । तत्रैव हल्‌पदावृत्या सूत्रे हस्यो ल इद् भवेत् ॥ १० ॥</karika> तेषां व्यवस्था चेत्थम्- <karika>एकस्माण्णडटञवा द्वाभ्यां पस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः१ ॥ ११ ॥</karika> इति । णडटञवा एकस्माद् वर्णात् परा एव स्युः । यथा—अण् । एङ् । अट् । यञ् । छव् । पकारो द्वाभ्याम् । झष्, भष् । कणमास्त्रिभ्यः । अक्, इक्, उक् । अण्, इण्, यण् । एते परणकारेण । अम्, यम्, ङम् । चयौ चतुर्भ्यो ज्ञेयौ । अच्, इच्, एच्, ऐच् । यय्, मय्, झय्, खय् । रः पञ्चभ्यः । यर्, झर्, खर्, चर्, शर् । शलौ षड्भ्यः, अश्, हश्, वश्, झश्, जश्, बश् । अल्, हल्, वल्, रल्, झल्, शल् । इति । हकारादिष्वकार उच्चारणार्थः । लणित्यस्मिन्नकारोऽनुनासिक इति प्रतिज्ञातः ।

Sarala

अदर्शनमितिअदर्शनं - प्रथमान्तं, लोपः - प्रथमान्तम् । स्थानेऽन्तरतमः (१.१.५०) इत्यतः “स्थाने” इत्यनुवर्त्तते । “प्रसङ्गे सती”ति तदर्थः । तदाह - प्रसक्तस्येति । शास्त्रतोऽर्थतश्च प्रसक्तोच्चारणस्येत्यर्थः । विद्यमानस्येत्यर्थो वा । अदर्शनम् = उच्चारणाऽभावः । अत्र हि दृशिर्ज्ञानसामान्ये । तत्र ज्ञानस्याऽवर्जनीयत्वेन नञा ज्ञानसामग्रीमध्यगता उच्चारणकृता सत्ता निषिध्यते । उच्चारणाऽभावरूपस्याऽर्थस्यैषा लोपसञ्ज्ञा, व्याख्यानात् ॥

Sudha

**प्रसक्तस्येति । ** शास्त्रतोऽर्थतश्च प्रसक्तस्य प्राप्तोच्चारणस्येत्यर्थः । दृशेर्ज्ञानसामान्यार्थकत्वात्तस्य च निषेधाऽसम्भवादुच्चारणसत्ताया एव निषेध इति भावः ॥