11044: न वेति विभाषा¶
Padacheda: न | S | 0 | 0 |
वा | S | 0 | 0 |
इति | S | 0 | 0 |
विभाषा | S | 1 | 1 |
Sutrartha¶
‘वैकल्पिकः निषेधः’ तथा च ‘वैकल्पिकी प्राप्तिः’ एतयोः ‘विभाषा’ इति संज्ञा भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतेषु अन्यतमा अस्ति विभाषा इति संज्ञा । वैकल्पिकः निषेधः (optional negation of a rule) तथा च वैकल्पिकी प्राप्तिः (optional application of a rule) एतौ अर्थौ प्रदर्शयितुम् व्याकरणशास्त्रे विभाषा इति संज्ञा प्रयुज्यते, इति अस्य सूत्रस्य आशयः ।
पाक्षिकनिषेधनिर्देशार्थम् विभाषाशब्दस्य प्रयोगः (प्राप्तविभाषा)
यत्र आचार्यः प्रारम्भे कञ्चन विधिं पाठयित्वा ततः तस्य वैकल्पिकनिषेधार्थम् विभाषा इति शब्दं प्रयुङ्क्ते, तत्र सा विभाषा प्राप्तविभाषा नाम्ना ज्ञायते । पूर्वेण नित्यं प्राप्ते पाक्षिकः निषेधः इति अस्य अर्थः । द्वे उदाहरणे एतादृशे — 1. ऋहलोर्ण्यत् (3.1.124) इत्यनेन सूत्रेण सर्वेभ्यः हलन्तधातुभ्यः “ण्यत्” इति कश्चन कृत्प्रत्ययः विधीयते । परन्तु धातोः उपधायाम् ऋकारः अस्ति चेत् एतम् ण्यत्-प्रत्ययं बाधित्वा ऋदुपधाच्चाकॢपिचृतेः (3.1.110) इत्यनेन सूत्रेण “क्यप्” इति प्रत्ययः विधीयते । अतः “मृज्”-इति धातोः अनेन सूत्रेण क्यप्-प्रत्ययः एव भवेत्, न हि ण्यत्-प्रत्ययः । परन्तु मृज्-धातोः विषये द्वावपि प्रत्ययौ इष्येते । एतत् साधयितुम् मृजेर्विभाषा (3.1.113) इति सूत्रम् पाठितम् अस्ति । ऋदुपधाच्चाकॢपिचृतेः (3.1.110) इत्यनेन पूर्वसूत्रेण नित्यं पाठितस्य क्यप्-प्रत्ययस्य अत्र वैकल्पिकः निषेधः क्रियते, येन पक्षे ऋहलोर्ण्यत् (3.1.124) इति ण्यत्-प्रत्ययः अपि भवितुम् अर्हति । अत्र विभाषा शब्दम् उपयुज्यत पूर्वसूत्रेण प्राप्तस्य नित्यविधेः पाक्षिकः निषेधः कृतः अस्ति । इयम् प्राप्तविभाषा इति नाम्ना ज्ञायते । ** 2. “दिवुँ(4.0001)” अयं धातुः यदा ‘व्यवहारः’ अस्मिन् अर्थे प्रयुज्यते, तदा अस्य धातोः कर्मपदस्य **दिवस्तदर्थस्य (2.3.58) अनेन सूत्रेण षष्ठीविभक्तिः भवति । यथा - “देवदत्तः शतस्य दीव्यति” (Devadatta does a transaction of 100) । परन्तु यदि दिव्-शब्दः उपसर्गेण सह प्रयुज्यते, तर्हि तत्र कर्मपदस्य षष्ठी तथा द्वितीया एते द्वे अपि विभक्ती इष्येते । अतः विभाषोपसर्गे (2.3.59) इत्यनेन सूत्रेण आचार्यः पूर्वेण नित्यं प्राप्तां षष्ठीं विकल्पेन निषेधयति, येन “देवदत्तः शतस्य प्रतिदीव्यति” तथा च “देवदत्तः शतम् प्रतिदीव्यति” इति द्वे अपि वाक्ये साधुत्वं प्राप्नुतः । अत्रापि पूर्वसूत्रेण नित्यं प्राप्तः विधिः विभाषाशब्देन विकल्प्यते, अतः इयम् प्राप्तविभाषा ।
विकल्पनिर्देशार्थम् विभाषाशब्दस्य प्रयोगः (अप्राप्तविभाषा)
यत्र आचार्यः पूर्वम् अनुक्तस्य विधेः विकल्पेन विधानं कर्तुम् विभाषा इति शब्दं प्रयुङ्क्ते , तत्र सा विभाषा अप्राप्तविभाषा नाम्ना ज्ञायते । पूर्वेण नैव प्राप्ते पाक्षिकम् विधानम् इति अस्य अर्थः । द्वे उदाहरणे एतादृशे — 1. गाङ् लिटि (2.4.49) अनेन सूत्रेण “इङ् (2.0041)” धातोः लिट्लकारस्य विवक्षायाम् “गाङ्” इति आदेशः भवति । एतादृशः गाङ्-आदेशः लुङ्लकारस्य विषये, लृङ्लकारस्य विषये अपि विकल्पेन इष्यते, अतः आचार्यः गाङ् लिटि (2.4.49) इत्यस्मात् अनन्तरम् विभाषा लुङ्लृङोः (2.4.50) इति सूत्रम् पाठयति । पूर्वसूत्रेण यः विधिः लुङ्लकारस्य लृङ्लकारस्य विषये च नैव प्राप्तः, सः अनेन सूत्रेण विभाषा-शब्दस्य साहाय्येन विकल्पेन विधीयते, अतः अत्र विभाषा-शब्देन ‘अप्राप्तविभाषा’ निर्दिष्टा अस्ति इति उच्यते । 2. “गॄ (6.0146)” अस्य धातोः रेफस्य “यङ्”-प्रत्यये परे ग्रोः यङि (8.2.20) इत्यनेन लकारादेशः भवति । एतादृशः लकारादेशः अजादिप्रत्ययस्य विषये अपि विकल्पेन इष्यते; अतः आचार्यः ग्रोः यङिः (8.2.20) अस्मात् सूत्रात् अनन्तरम् अचि विभाषा (8.2.21) इति सूत्रम् पाठयति । पूर्वसूत्रेण यः विधिः अजादिप्रत्ययस्य विषये नैव प्राप्तः, सः अनेन सूत्रेण विभाषाशब्दस्य साहाय्येन विकल्पेन विधीयते । पूर्वेण नैव प्राप्ते इदं पाक्षिकविधानं कृतम्, अतः इयमपि अप्राप्तविभाषा ।
एकस्मिन्नेव सूत्रे वैकल्पिकनिषेधनिर्देशार्थम् वैकल्पिकविधानार्थम् च विभाषाशब्दस्य प्रयोगः (उभयविभाषा)
कुत्रचित् आचार्यः एकेन एव विभाषाशब्देन निषेधविधानम् अपि करोति, विकल्पविधानम् च अपि करोति । एतादृशी विभाषा उभयविभाषा नाम्ना ज्ञायते । नित्यं प्राप्तस्य कुत्रचित् पाक्षिकः निषेधः, अप्राप्तस्य कुत्रचित् पाक्षिकः विकल्पः — इति उभयविभाषा । द्वे उदाहरणे एतादृशे — 1. येषु धातुषु उपधायाम् ऋकारः अस्ति, तेभ्यः ऋदुपधाच्चाकॢपिचृतेः (3.1.110) इत्यनेन सूत्रेण “क्यप्”-प्रत्ययः विधीयते । अतः “वृष्”-धातोः अनेन सूत्रेण क्यप् प्रत्ययः नित्यं प्राप्नोति । “कृ” धातोः उपधायाम् तु ऋकारः नास्ति, अतः अस्मात् क्यप्-प्रत्ययः नैव प्राप्नोति । परन्तु एतयोः द्वयोः अपि धात्वोः विषये “क्यप्” इति प्रत्ययः विकल्पेन इष्यते । इत्युक्ते, “वृष्”-धातोः विषये ऋदुपधाच्चाकॢपिचृतेः (3.1.110) इत्यनेन सूत्रेण नित्यं क्यप्-प्रत्यये प्राप्ते तस्य वैकल्पिकः निषेधः इष्यते, तथा च “कृ”-धातोः विषये पूर्वेण अप्राप्ते अपि पाक्षिकः “क्यप्”-प्रत्ययः इष्यते । एते द्वयोः अपि विधानार्थम् आचार्यः विभाषा कृवृषोः (3.1.120) इति एकमेव सूत्रम् निर्माति । अस्मिन् सूत्रे प्रयुक्तः विभाषा शब्दः “कृ”-धातोः विषये पूर्वेण अप्राप्तं विधिं विकल्पेन विदधाति, अतः अप्राप्तविभाषारूपेण प्रयुक्तः अस्ति; “वृष्”-धातोः विषये तु पूर्वेण नित्यं प्राप्तं विधिं विकल्पेन निषेधयति, अतः प्राप्तविभाषारूपेण प्रयुक्तः अस्ति । अनेन प्रकारेण एकस्मिन् एव सूत्रे विभाषाशब्दस्य प्राप्तविभाषा तथा अप्राप्तविभाषा इति उभयथा प्रयोगः दृश्यते, अतः इयम् उभयविभाषा अस्ति । 2. सर्वादीनि सर्वनामानि (1.1.27) अनेन सूत्रेण “नेम”-इति शब्दस्य नित्यं सर्वनामसंज्ञा भवति । परन्तु “जस्”-प्रत्यये परे इयं सर्वनामसंज्ञा विकल्पेनैव इष्यते, येन “नेमे” तथा “नेमाः” एते द्वे अपि रूपे साधुत्वं प्राप्नुयाताम् । एवमेव, “प्रथम, चरम, तय, अल्प, अर्ध, कतिपय” एतेषां शब्दानां विषये केन अपि सूत्रेण सर्वनामसंज्ञा न पाठिता अस्ति, तथापि जस्-प्रत्यये परे एतेषाम् विकल्पेन सर्वनामसंज्ञा अवश्यम् इष्यते । एतत् सर्वम् साधयितुम् आचार्येण प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (1.1.33) इति सूत्रं पाठ्यते । अस्मिन् सूत्रे विभाषा इति शब्दः अनुवृत्तिरूपेण आगच्छति । अयं विभाषाशब्दः अस्मिन् सूत्रे विद्यामानानाम् “प्रथम, चरम, तय, अल्प, अर्ध, कतिपय” एतेषां शब्दानाम् पूर्वेण अप्राप्तां सर्वनामसंज्ञाम् विकल्पेन विदधाति, “नेम”शब्दस्य विषये च पूर्वेण नित्यां प्राप्तां सर्वनामसंज्ञां विकल्पेन प्रतिषेधयति । एतादृशं एकस्मिन् एव सूत्रे विभाषा-शब्दस्य प्राप्तविभाषा तथा अप्राप्तविभाषा — इति उभयथा प्रयोगः दृश्यते, अतः इयम् उभयविभाषा अस्ति ।
व्यवस्थाम् दर्शयितुम् विभाषाशब्दस्य प्रयोगः (व्यवस्थितविभाषा)
कुत्रचित् विभाषाशब्दः ‘व्यवस्थाम्’ (system of usage) दर्शयितुम् प्रयुज्यते । इत्युक्ते, तत्र निषेधः कुत्र भवति विधानं च कुत्र भवति इत्यस्य व्यवस्था व्याख्यानेनैव दीयते, इयं विभाषा विवक्षाम् नैव अनुसरति । एतादृशी विभाषा व्यवस्थितविभाषा नाम्ना ज्ञायते । द्वे उदाहरणे एतादृशे — 1. विभाषा ग्रहः (3.1.143) इत्यनेन सूत्रेण “ग्रह्”-धातोः “ण”-प्रत्ययः विधीयते, येन “ग्राह”-इति रूपं सिद्ध्यति । अत्र सूत्रे यद्यपि “विभाषा” इति शब्दः प्रयुक्तः अस्ति, तथापि अत्र प्रयोगकर्तुः विवक्षा (the choice of the user) नैव इष्यते, अपितु अत्र “ग्रह्”-धातोः “ण”-प्रत्ययः कदा भवेत् — इति व्याख्यातृभिः एव स्पष्टीकृतम् अस्ति । तत्र व्याख्यानैः एतद् उच्यते — जलचरस्य (aquatic animal) निर्देशार्थम् “ण”-प्रत्ययं कृत्वा “ग्राह”-इति रूपं भवेत्, परन्तु ज्योतिषः निर्देशार्थम् (planetary bodies) “ण”-प्रत्ययः नैव भवेत् । अनेन प्रकारेण अत्र विभाषाशब्दः व्यवस्थाम् (system of usage) दर्शयितुम् प्रयुक्तः अस्ति, अतः अत्र इयम् व्यवस्थितविभाषा । 2. प्यायः पी (6.1.28) इत्यनेन सूत्रेण “प्याय्”-धातोः निष्ठाप्रत्यये परे “पी”-आदेशः कृतः अस्ति । अस्मिन् सूत्रे विभाषा-शब्दः अनुवृत्तिरूपेण आगच्छति यः अत्र विभाषाशब्दः व्यवस्थितविभाषां दर्शयति, यतः — उपसर्गभिन्नस्य एव “प्याय्”-धातोः निष्ठाप्रत्यये परे “पी”-आदेशः भवेत्, न हि सोपसर्गस्य “प्याय्”-धातोः — इति व्यवस्था (system of usage) अत्र व्याख्यानैः स्पष्टी भवति । अतः अत्र यद्यपि विभाषा-शब्दः प्रयुज्यते, तथापि अत्र “पी”-आदेशस्य विषये व्यवस्था उक्ता अस्ति, तत्र साक्षात् विकल्पः नास्ति (it is not left to the choice of the user), अतः इयम् व्यवस्थितविभाषा ।
बह्वर्थे प्रयुक्तः विभाषाशब्दः
कुत्रचित् एकः एव विभाषा-शब्दः व्यवस्थितविभाषारूपेण अपि प्रयुज्यते, तथा च प्राप्तविभाषा/अप्राप्तविभाषा/उभयविभाषा-एतस्मिन् अर्थे अपि प्रयुज्यते । यथा, विभाषा चिञ्णमुलोः (7.1.69) अनेन सूत्रेण “लभ्”-धातोः “णमुल्”-प्रत्यये परे विकल्पेन नुमागमः भवति । अयं नुमागमः पूर्वसूत्रैः नैव पाठितः अस्ति, अतः इयम् अप्राप्तविभाषा । अपि च, उपसर्गस्य विषये इयमेव विभाषा व्यवस्थितविभाषा अपि अस्ति । इत्युक्ते, उपसर्गपूर्वकस्य “लभ्”-धातोः “णमुल्”-प्रत्यये परे नित्यम् नुमागमः — इति व्यवस्था अत्र क्रियते । अनेन प्रकारेण अत्र विद्यमानः विभाषाशब्दः अनुपसर्गस्य लभ्-धातोः विषये अप्राप्तविभाषारूपेण नुमागमस्य विकल्पं प्रदर्शयति (येन “लाभंलाभम्” तथा “लम्भंलम्भम्” इति द्वे अपि रूपे भवतः) परन्तु सोपसर्गस्य लभ्-धातोः विषये व्यवस्थितविभाषारूपेण नित्यं नुमागमं विदधाति (येन “प्रलम्भंप्रलम्भम्” इति एकमेव रूपं सिद्ध्यति), अतः अयम् बह्वर्थे प्रयुक्तः विभाषाशब्दः अस्ति ।
विभाषाप्रतिपादनार्थम् प्रयुक्ताः अन्ये शब्दाः
अष्टाध्याय्यां विभाषाम् प्रदर्शयितुम् त्रयः शब्दाः प्रयुक्ताः दृश्यन्ते - वा, अन्यतरस्याम् तथा विभाषा । एतेषाम् त्रयाणाम् अर्थाः तु समानाः एव । These three words are typically seen used in the same meaning, without any particular obvious pattern. However, in this context, one of the western scholars of the recent era, Paul Kiparsky has written a book called Panini as a Variationist, in which he analyses various occurrences of वा, अन्यतरस्याम् and विभाषा from अष्टाध्यायी and tries to build a framework explaining the fine-grained differences between these three words. Interested readers may seek a printed copy of this book. The soft-copies of this book are not available as the book is still copyrighted.
Sutrartha (English)¶
The word विभाषा is used to indicate the meaning of ‘optional negation’ and ‘optional application’.
Vasu English Summary¶
May or may not’ is called विभाषा or option.
Vasu English Translation¶
May or may not’ is called विभाषा or option. This sutra * defines the word विभाषा. We had already had occasion to use this word in *sutras (1.1.28) and (1.1.32). Where there is a prohibition as well as an alternative course left open, it is called option or vibhasha. The commentators mention three kinds of vibhasha:- prapta-vibhasha., aprapta-vibhasha and praptaprapta-vibhasha. The first occurs where there is a general rule already given, and then follows the optional rule; the second belongs to that class where there is no such general rule, but there is an optional rule, the third is intermediate between the two.
Thus the root श्वि, ‘to swell,’ by virtue of the rule विभाषा श्वे (5.1.30), forms its perfect tense, either by samprasarana, or in the ordinary way. Thus the third person singular is either शुशाव or शिश्वाय.
Bhashya¶
न वेति विभाषा ॥ न वेति विभाषायामर्थसञ्ज्ञा करणम् ॥। नवेति विभाषायामर्थस्य सञ्ज्ञा कर्तव्या। नवाशब्दस्य योऽर्थस्तस्य सञ्ज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम् ? ॥ शब्दसञ्ज्ञायां ह्यर्थासम्प्रत्ययो यथान्यत्र । शब्दसञ्ज्ञायां हि सत्यामर्थस्यासम्प्रत्ययः स्यात्। यथान्यत्र। अन्यत्रापि हि शब्दसञ्ज्ञायां शब्दस्यैव सम्प्रत्ययो भवति नार्थस्य। क्वान्यत्र ? दाधाघ्वदाप् तरप् तमपौ घ इति। घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययो भवति नार्थस्य। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। ॥ इतिकरणोऽर्थनिर्देशार्थः । इतिकरणः क्रियते सोऽर्थनिर्देशार्थो भविष्यति। किं गतमेतदितिना, आहोस्विच्छब्दाधिक्यादर्थाधिक्यम् । गतमित्याह। कुतः? लोकतः तद्यथा लोके गौरित्ययमाहेति गोशब्दादितिकरणः प्रयुज्यमानो गोशब्दं स्वस्मात् पदार्थात् प्रच्यावयति। सोऽसौ स्वस्मात् पदार्थात् प्रच्युतो योसावर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते। एवमिहापि नवा शब्दादितिकरणः प्रयुज्यमानो नवाशब्द स्वस्मात् पदार्थात् प्रच्यावयति। सोऽसौ स्वस्मात् पदार्थात् प्रच्युतो यासौ शब्दपदार्थकता तस्या लौकिकमर्थं प्रत्याययति न वेति यद् गम्यते, न वेति यत् प्रतीयते इति। ॥ समानशब्दप्रतिषेधः । समानशब्दानां प्रतिषेधो वक्तव्यः। नवा कुण्डिका नवा घटिकेति। किंच स्यात्, यद्येतेषामपि विभाषासञ्ज्ञा स्यात्। विभाषा दिक्समासे बहुव्रीहौ - दक्षिणपूर्वस्यां शालायाम्। अचिरकृतायां सम्प्रत्ययः स्यात्। ॥ न वा विधिपूर्वकत्वात् प्रतिषेधसम्प्रत्ययो यथा लोके । न वा एष दोषः। किं कारणम्? विधिपूर्वकत्वात्। विधाय किंचिन्नवेत्युच्यते। तेन प्रतिषेधवाचिनः सम्प्रत्ययो भवति। तद्यथा लोके - ग्रामो भवता गन्तव्यो न वा। नेति गम्यते। अस्ति कारणं - येन नवेति लोके प्रतिषेधवाचिनः सम्प्रत्ययो भवति। किं कारणम्? विलिङ्गं हि भवान् लोके निर्देशं करोति। अङ्ग हि समानलिङ्गो निर्देशः क्रियतां प्रत्यग्रवाचिनः सम्प्रत्ययो भविष्यति। तद्यथा ग्रामो भवता गन्तव्यो नवः। प्रत्यग्र इति गम्यते। एतच्चैव न जानीमः - क्वचिद् व्याकरणे समानलिङ्गो निर्देशः क्रियते इति। अपि चात्र कामचारः प्रयोक्तुः शब्दानामभिसम्बन्धे। तद्यथा - यवागूर्भवता भोक्तव्या नवा। यदा यवागूशब्दो भुजिना सम्बध्यते भुजिर्नवाशब्देन, तदा प्रतिषेधवाचिनः सम्प्रत्ययो भवति - यवागूर्भवता भोक्तव्या नवा। नेति गम्यते। यदा तु यवागूशब्दो नवाशब्देनाभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययो भवति। यथा - यवागूर्नवा भवता भोक्तव्या। प्रत्यग्रेति गम्यते। न चेह वयं विभाषाग्रहणेन सर्वादीन्यभिसंबध्नीमः - दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्तीति। किं तर्हि सर्वनामसञ्ज्ञाभिसम्बध्यते - दिक्समासे सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति विभाषेति। ॥ विध्यनित्यत्वमनुपपन्नं प्रतिषेधसञ्ज्ञाकरणात् । विधेरनित्यत्वं नोपपद्यते। शुशाव - शुशुवतुः- शुशुवुः। शिश्वाय- शिश्वियतुः- शिश्वियुः। किं कारणम्? प्रतिषेधसञ्ज्ञाकरणात्। प्रतिषेधस्येयं सञ्ज्ञा क्रियते। तेन विभाषाप्रदेशेषु प्रतिषेधस्यैव सम्प्रत्ययः स्यात्। ॥ सिद्धं तु प्रसज्यप्रतिषेधात् । सिद्धमेतत्। कथम्? प्रसज्यप्रतिषेधात्। विधाय किंचिन्नवेत्युच्यते तेनोभयं भविष्यति। ॥ विप्रतिषिद्धं तु । विप्रतिषिद्धं तु भवति। अत्र न विज्ञायते - केनाभिप्रायेण प्रसजति। केन निवृत्तिं करोतीति। ॥ न वा प्रसङ्गसार्मथ्यादन्यत्र प्रतिषेधविषयात् । न वा एष दोषः। किं कारणम्? प्रसङ्गसार्मथ्यात्। प्रसङ्गसार्मथ्याच्च विधिर्भविष्यति अन्यत्र प्रतिषेधविषयात्। प्रतिषेधसार्मथ्याच्च प्रतिषेधो भविष्यति अन्यत्र विधिविषयात्। तदेतत् क्व सिद्धं भवति - या अप्राप्ते विभाषा या हि प्राप्ते विभाषा कृतसार्मथ्यस्तत्र पूर्वेणैव विधिरिति कृत्वा प्रतिषेधस्यैव सम्प्रत्ययः स्यात्। एतदपि सिद्धम्। कथम्? विभाषेति महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनमुभयोः सञ्ज्ञा यथा विज्ञायेत। नेति च वेति च। तत्र या तावद् अप्राप्ते विभाषा तत्र प्रतिषेध्यं नास्तीति कृत्वा वेत्यनेन विकल्पो भविष्यति। या हि प्राप्ते विभाषा, तत्रोभयमुपस्थितं भवति नेति च वेति च। तत्र नेत्यनेन प्रतिषिद्धे वेत्यनेन विकल्पो भविष्यति। एवमपि। ॥ विधिप्रतिषेधयोर्युगपद्वचनानुपपत्तिः । विधिप्रतिषेधयोर्युगपद्वचनं नोपपद्यते। शुशाव, शुशुवतुः, शुशुवुः। शिश्वाय, शिश्वियतुः, शिश्वुयुः। किं कारणम्? ॥ भवतीति चेन्न प्रतिषेधः । भवतीति चेत् प्रतिषेधो न प्राप्नोति। ॥ नेति चेन्न विधिः । नेति चेद्विधिर्न सिध्यति। ॥ सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् । सिद्धमेतत्। कथम्? पूर्वं विधिमुत्तरो विधिर्बाधते। इतिकरणोऽर्थनिर्देशार्थ इत्युक्तम्। ॥ साध्वनुशासनेऽस्मिन् शास्त्रे यस्य विभाषा तस्य साधुत्वम् । साध्वनुशासनेऽस्मिन् शास्त्रे यस्य विभाषा क्रियते स विभाषा साधुः स्यात्। समासश्चैव हि विभाषा क्रियते, तेन समासस्यैव विभाषा साधुत्वं स्यात्। अस्तु यः साधुः स प्रयोक्ष्यते असाधुर्न प्रयोक्ष्यते। न चैव हि कदाचिद् व्याकरणे राजपुरुष इत्येतस्यामवस्थायामसाधुत्वमिष्यते। अपि च- ॥ द्वेधाऽप्रतिपत्तिः । द्वैधं शब्दानामप्रतिपत्तिः स्यात्। इच्छामश्च - पुनर्विभाषाप्रदेशेषु द्वैधं शब्दानां प्रतिपत्तिः स्यादिति। तच्च न सिध्यति। यस्य पुनः कार्याः शब्दाः। विभाषासौ समासं निर्वर्तयति। यस्यापि नित्याः शब्दास्तस्याप्येष दोषो न भवति। कथम्? न विभाषाग्रहणेन साधुत्वमभिसम्बध्यते। किं तर्हि? समाससञ्ज्ञाभिसम्बध्यते। समास इत्येषां सञ्ज्ञा विभाषा भवतीति । तद्यथा - मेध्यः पशुर्विभाषितः मेध्योऽनङ्वान् विभाषितः इति। नैतद् विचार्यते - अनड्वान् नानड्वान् इति। किं तर्हि? आलब्धव्यो नालब्धव्य इति। ॥ कार्येषु युगपदन्वाचययौगपद्यम् । कार्येषु शब्देषु युगपदन्वाचयेन च यदुच्यते तस्य युगपद्वचनता प्राप्नोति। तव्यत्तव्यानीयरः। ढक् च मण्डूकादिति। यस्य पुनर्नित्याः शब्दाः प्रयुक्तानामसौ साधुत्वमन्वाचष्टे। ननु च यस्यापि कार्यास्तस्याप्येष न दोषः। कथम्? प्रत्ययः परो भवतीत्युच्यते। न चैकस्याः प्रकृतेरनेकस्य प्रत्ययस्य युगपत्परत्वेन संभवोस्ति। नापि ब्रूमः - प्रत्ययमाला प्राप्नोतीति। किं तर्हि? कर्तव्यमिति प्रयोक्तव्ये युगपद् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोतीति। नैष दोषः। अर्थगत्यर्थः शब्दप्रयोगः। अर्थं सम्प्रत्याययिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात् तस्यार्थस्य द्वितीयस्य तृतीयस्य च प्रयोगेण न भवितव्यम् - उक्तार्थानामप्रयोगः इति। ॥ आचार्यदेशशीलनेन च तद्विषयत्वम् ॥। आचार्यदेशशीलनेन च यदुच्यते तस्य तद्विषयता प्राप्नोति। इको ह्रस्वोऽङ्यो गालवस्य। प्राचामवृद्धात् फिन् बहुलम् इति। गालवा एव हि ह्रस्वान् प्रयुञ्ञ्जीरन्। प्राक्षु चैव हि फिन् स्यात्। तद्यथा - जमदग्निर्वा एतत्पञ्चममवदानमवाद्यत्। तस्मान्नाजामदग्न्यः पञ्ञ्चावृत्तं जुहोति। यस्य पुनर्नित्याः शब्दाः गालवग्रहणं तस्य पूजार्थम्। देशग्रहणं च कीर्त्त्यर्थम्। ननु च यस्यापि कार्याः शब्दास्तस्यापि गालवग्रहणं पूजार्थं स्यात्। देशग्रहणं च कीर्त्यर्थम्। ॥ तत्कीर्तने च द्वेधाऽप्रतिपत्तिः । तत्कीर्तने च द्वैधं शब्दानामप्रतिपत्तिः स्यात्। इच्छामश्च पुनराचार्यग्रहणेषु देशग्रहणेषु च द्वैधं शब्दानां प्रतिपत्तिः स्यादिति। तच्च न सिध्यति। ॥ अशिष्यो वा विदितत्वात् । अशिष्यो वा पुनरयं योगः। किं कारणम्? विदितत्वात्। यदनेन योगेन प्रार्थ्यते तस्यार्थस्य विदितत्वात्। येपि ह्येतां सञ्ञ्ज्ञां नारभन्ते तेपि विभाषेत्युक्तेऽनित्यत्वमवगच्छन्ति। याज्ञिकाः खल्वपि सञ्ज्ञामनारभमाणा विभाषेत्युक्तेऽनित्यत्वमवगच्छन्ति। तद्यथा - मेध्यः पशुर्विभाषितो मेध्योऽनड्वान् विभाषित इति। आलब्धव्यो नालब्धव्य इति गम्यते। आचार्यः खल्वपि सञ्ज्ञामारभमाणो भूयिष्ठमन्यैरपि शब्दैरेतमर्थं सम्प्रत्याययति - बहुलमन्यतरस्यामुभयथा वा एकेषामिति। ॥ अप्राप्ते त्रिसंशयाः । इत उत्तरं या विभाषा अनुक्रमिष्यामः अप्राप्ते ता द्रष्टव्याः। त्रिंसंशयास्तु भवन्ति। प्राप्ते अप्राप्ते उभयत्र वेति। ॥ द्वन्द्वे च विभाषा जसि । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्रेति? उभयशब्दः सर्वादिषु पठ्यते। तयपश्चायजादेशः क्रियते। तेन वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति। अप्राप्ते। अयच् प्रत्ययान्तरम्। यदि प्रत्ययान्तरम्। उभयी इति ईकारो न प्राप्नोति । मा भूदेवम्। मात्रच् इत्येवं भविष्यति। कथम्? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृत्या अयचश्चकारात्। यदि प्रत्याहारग्रहणम्। कति तिष्ठन्ति अत्रापि प्राप्नोति। अत इति वर्तते। एवमपि - तैलमात्रा घृतमात्रा अत्रापि प्राप्नोति। सदृशस्याप्यसंनिविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम्। ॥ ऊर्णोतेर्विभाषा । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र ? असंयोगाल्लिट् किदिति वा नित्ये प्राप्ते। अन्यत्र वा अप्राप्ते। उभयत्र वेति। अप्राप्ते। अन्यद्धि कित्त्वमन्यद्धि ङित्त्वम्। एकं चेन्ङित्कितौ। यद्येकं ङित्कितौ ततः संदेहः। अथ हि नाना, नास्ति सन्देहः। यद्यपि नाना, एवमपि सन्देहः - प्रौर्णुवीति। सार्वधातुकमपिदिति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते, उभयत्र वेति। अप्राप्ते। ॥ विभाषोपयमने ॥ प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र ? गन्धन इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। गन्धने इति निवृत्तम्। ॥ अनुपसर्गाद्वा । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। वृत्त्यादिष्विति निवृत्तम्। ॥ विभाषा वृक्षमृगादीनाम् । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? जातिरप्राणिनाम् इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। जातिरप्राणिनाम् इति निवृत्तम्। ॥ उषविदजागृभ्योऽन्यतरस्याम् । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? प्रत्ययान्तादिति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। अभयत्र वेति। अप्राप्ते। प्रत्ययान्ता धात्वान्तराणि । ॥ दीपादीनां विभाषा । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र ? भावकर्मणोरिति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। कर्तरीति हि वर्तते। एवमपि सन्देहः। सकर्मकस्य कर्ता कर्मवद् भवति। अकर्मकाश्च दीपादयः। अकर्मका अपि वै सोपसर्गाः सकर्मका भवन्ति। कर्मापदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां च भवन्ति। कर्तृस्थभावकाश्च दीपादयः। ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ प्राप्ते अप्राप्ते, उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? आभीक्ष्ण्ये इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। आभीक्ष्ण्ये इति निवृत्तम्। ॥ तृन्नादीनां विभाषा । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? आक्रोशे इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। आक्रोशे इति निवृत्तम्। ॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? उदकस्योदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। सञ्ज्ञायामिति निवृत्तम्। ॥ श्वादेरिञ्ञि पदान्तस्यान्यतरस्याम् । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? इञ्ञि इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। इञ्ञीति निवृत्तम्। ॥ सपूर्वायाः प्रथमाया विभाषा । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? चादिभिर्योगे इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। चादिभिर्योगे इति निवृत्तम्। ॥ ग्रो यङि। अचि विभाषा । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? यङीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। अप्राप्ते। यङीति निवृत्तम्। ॥ प्राप्ते च । इत उत्तरं या विभाषा अनुक्रमिष्यामः प्राप्ते ता द्रष्टव्याः। त्रिसंशयास्तु भवन्ति। प्राप्ते अप्राप्ते उभयत्र वेति। ॥ विभाषा विप्रलापे । प्राप्ते, अप्राप्ते, उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? व्यक्तवाचामिति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। प्राप्ते। व्यक्तवाचामिति हि वर्तते। ॥ विभाषोपपदेन प्रतीयमाने । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? स्वरितञ्ञितीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। प्राप्ते। स्वरितञ्ञितीति हि वर्तते। ॥ तिरोन्तर्घौ,विभाषा कृञ्ञि ॥ प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? अन्तर्धाविति नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। प्राप्ते। अन्तर्धाविति हि वर्तते। ॥ अधिरीश्वरे। विभाषा कृञ्ञि । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? प्राप्ते। अधिरीश्वरे इति वर्तते। ॥ दिवस्तदर्थस्य। विभाषोपसर्गे । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? तदर्थस्येति नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। प्राप्ते। तदर्थस्येति वर्तते। ॥ उभयत्र च । इत उत्तरं या विभाषा अनुक्रमिष्याम उभयत्र ता द्रष्टव्याः। त्रिसंशयास्तु भवन्ति प्राप्ते अप्राप्ते उभयत्र वेति। ॥ हृक्रोरन्यतरस्याम् । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णाविति ॥ नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। उभयत्र। प्राप्ते तावत्। अभ्यवहारयति सैन्धवान् अभ्यवहारयति सैन्धवैः। विकारयति सैन्धवान्, विकारयति सैन्धवैः। अप्राप्ते। हरति भारं देवदत्तः। हारयति भारं देवदत्तम् हारयति भारं देवदत्तेन। करोति कटं देवदत्तः। कारयति कटं देवदत्तम् कारयति कटं देवदत्तेन। ॥ न यदि। विभाषा साकाङ्क्षे । प्राप्ते अप्राप्ते उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते?कथं चोभयत्र? यदीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। उभयत्र। प्राप्ते तावत् अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः। यत् कश्मीरेष्ववसाम। यत्तत्रौदनं भोक्ष्यामहे। यत्तत्रौदनमभुञ्ञ्ज्महि। अप्राप्ते - अभिजानासि देवदत्त कश्मीरान् गमिष्यामः। कश्मीरानगच्छाम। तत्रौदनं भोक्ष्यामहे। तत्रौदनमभुञ्ञ्जमहि। ॥ विभाषा श्वेः । प्राप्ते, अप्राप्ते, उभयत्र वेति सन्देहः। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? कितीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। उभयत्र। प्राप्ते तावत्। शुशुवतुः , शुशुवुः। शिश्वियतुः, शिश्वियुः। अप्राप्ते। शुशविथ। शिश्वाय, शिश्वयिथ। ॥ विभाषा संघुषास्वनाम् ॥। संपूर्वाद् घुषेः प्राप्ते अप्राप्ते उभयत्र वेति सन्देह। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? घुषिरविशब्देन इति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। उभयत्र। प्राप्ते तावत्। संघुष्टा संघुषिता वा रज्जुः। अप्राप्ते संघुष्टं संघुषितं वा वाक्यमाह। आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वति। कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र? मनसीति वा नित्ये प्राप्ते। अन्यत्र वाऽप्राप्ते। उभयत्र वेति। उभयत्र। प्राप्ते तावत्। आस्वान्तं मनः। आस्वनितं मनः। अप्राप्ते। आस्वनितो देवदत्तः। आस्वान्तो देवदत्त इति ॥44 ॥
Kashika¶
नेति प्रतिषेधो वेति विकल्पः, तयोः प्रतिषेधविकल्पयोर्विभाषेति संज्ञा भवति। इतिकरणोऽर्थनिर्देशार्थः। विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते। तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते। उभयत्रविभाषाः प्रयोजयन्ति। विभाषा श्वेः (६.१.३०) — शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। विभाषाप्रदेशाः — **विभाषा श्वेः**(६.१.३०) इत्येवमादयः॥
Siddhanta Kaumudi¶
निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥
Laghu Shabdendushekhar¶
न वेति विभाषा । इतिर्लोकिऽर्थपदार्थकस्य शब्दपदार्थकत्वकृत्। यथा ‘गवित्ययमाहे’त्यादावनुकरणे। इह तु स्वं रूपम् (1.1.68) इति परिभाषणाच्छव्दपदार्थकस्यार्थपदार्थकत्वकृत् । क्वचिदितेर्न पदार्थविपर्यासकत्वं यथाऽनुवादवाक्ये । स च नवाशब्दाभ्यां प्रत्येकं सम्बध्यते, व्याख्यानात् । तेन नवाशब्दयोरर्थौ सञ्ज्ञिनौ । स्वं रूपम् (1.1.68) इत्यस्य प्रत्याख्याने त्वितिशब्दो व्यर्थ एव, अर्थे कार्यस्याबाधात् । तयोरेव सञ्ज्ञित्वे तु विभाषा श्वे: (6.1.30) इत्यादौ नवाशब्दावादेशौ स्याताम्। प्राप्तविभाषासु नास्योपयोगः, तासां पक्षे निवृत्तिमात्रफलकत्वात् । अप्राप्तविभाषास्वपि न, तासां पक्षे विधिमात्रार्थत्वात्। अप्राप्तत्वेन निषेधासम्भवाच्च, तस्मादुभयत्र विभाषार्थमिदम् । विभाषा श्वे: (6.1.30) इत्यादौ एतदभावे यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव विकल्पः स्यात्, कित्सु तु नित्यमेव सम्प्रसारणं स्यात् । निषेधमुखेन प्रवृत्तौ कित्स्वेव प्रवर्तेत न पित्सु । उभयथा प्रवृत्तिस्तु- वैरूप्याद्वाक्यभेदापत्तेश्चाशक्या। सञ्ज्ञाकरणे तु श्रुतक्रमानुरोधात्पूर्वं कित्सु निषेधस्ततः किदकिद्रूपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति ‘पक्षे भवती’त्येकरूपेण विधिमुखेनैव विकल्पः । भाष्यकृतस्तु- एवं हि हृक्रोरन्यतरस्याम् (1.4.53) इत्यादावनुपपत्तिर्विभाषापदाभावात् । इतिशब्दस्य विभाषेत्यत्रापि ((1.1.44)) सम्बन्याद्विभाषापदार्थः सञ्ज्ञा इति तु न युक्तम्, अर्थे सञ्ज्ञात्वस्यादृष्टत्वात् । अर्थाक्षिप्तशब्दमात्रं सञ्ज्ञेत्यपि न युक्तम्, एकस्यार्थस्य - समानफलकानेकसञ्ज्ञाकरणस्य अनाकृतिः सञ्ज्ञा इति वृद्धिसञ्ज्ञासूत्रस्थभाष्येण तिरस्कारात्। तस्मात्तत्र लक्ष्यानुसारेणैवोभयमुखेन प्रवृत्तिर्वाच्येति- विभाषापदघटितेऽपि तथैवास्तु, किं सूत्रेणेति- जातिव्यक्तिपक्षयोरुभयोरपि सूत्रं प्रत्याचख्युः ।
Balamanorama¶
न वेति विभाषा - न वेति विभाषा। मेध्यः पशुरनड्वान् विभाषितः इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः। इह तु शास्त्रे निषेधो विकल्पश्चेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुम् इदमारभ्यते। इतिशब्दाभावे, स्वं रूपं शब्दस्येति न-वा-शब्दयोः स्वरूपपरत्वान्नवाशब्दयोर्विभाषासंज्ञेत्यर्थः स्यात्। ततश्च ‘विभाषा ओ’रित्यादौ नवाशब्दावादेशौ स्याताम्। इतिकरणे तु नायं दोषः। इतिर्हि प्रत्येकं संबध्यते। ततश्च ‘न’ इति शब्देन योऽर्थो गम्यते निषेधः, ‘वा’ इति शब्देन योऽर्थो गम्यते विकल्पस्तदुभयस्य मिलितस्य विभाषासंज्ञा स्याद् इत्यर्थः फलति। एवं च नवाशब्दार्थयोरेव संज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः। तदाह-निषेधविकल्पयोरित्यादि। उभयत्रविभाषार्थम् इदं सूत्रम्। तथाहि– (प्राप्तविभाषा अप्राप्तविभाषा उभयत्रविभाषेति) त्रिविधा विभाषा। प्राप्तविभाषा यथा– विभाषा जसीति। वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र हि द्वन्द्वे चेति नित्यतया सर्वनामसंज्ञानिषेधे प्राप्ते विभाषेयम्। अप्राप्तविभाषा यथा– तीयस्य ङित्सु विभाषेति। द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाऽभावादप्राप्तायां सर्वनामसंज्ञायां विभाषेयम्। उभयत्रविभाषा यथा– विभाषा ओरिति। आयतेर्लिटि यङि च सम्प्रसारणविभाषेयम्। तत्र लिटि शुशाव शिश्वाय, शुशुवतुः शिश्वियतुरित्याद्युदाहरणम्। यङि तु शोशूयते इति। अत्र यङंशेऽप्राप्तविभाषैवेयम्। लिटि तु द्विवचनबहुवचनेष्वपित्सु वचिस्वपियजादीनां कितीति नित्यतया सम्प्रसारणं प्राप्तम्, पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव। असंयोगाल्लिट् कित् इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः। एवं च प्राप्तेऽप्राप्ते चारम्भाद् विभाषा ओरित्युभयत्र विभाषेति स्थितिः। तत्र यदि ‘नवेति विभाषा’ इति सूत्रं नारभ्येत, तर्हि ‘अनड्वान्विभाषितः’ इत्यादियाज्ञिकप्रयोग इव विभाषा ओरित्यत्रापि केवलविकल्पः प्रतीयेत। भावोऽभावश्चेति द्वयं तावद् विकल्पः। ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विधेयम् इति लभ्यते। तत्र यदि विभाषा श्वेः इति विकल्पो विधिमुखः– लिटि आयतेः सम्प्रसारणं भवति न भवतीति तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात्। तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भवनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम्। कित्सु तु प्रवृत्तिर्न स्यात्। तेषु हि वचिस्वपियजादीनां कितीति प्राप्तत्वात् प्रथमं भवनांशो न विधेयः। न भवतीत्यंश एव विधेयः। एवं च उभयांशविधेयत्वाऽलाभात् तत्र विकल्पविधिरयं न प्रवर्तेत, तत्र नित्यम् एव सम्प्रसारणं स्यात्। यदि तु विकल्पो निषेधमुखः– लिटि आयतेः सम्प्रसारणं न भवति भवतीति, तर्हि कित्स्वेव प्रवृत्तिः स्यात्। तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम्। अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम्। पित्सु तु प्रवृत्तिर्न स्यात्। तत्र सम्प्रसारणस्याऽप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनर्हत्वात्। न च पित्सु विधिमुखः कित्सु निषेधमुख इत्युभयथापि प्रवृत्तिरिति वाच्यम्। सकृच्छ्रुतस्य विभाषाशब्दस्य क्वचिद् विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात्। आवृत्त्या तद्बोधने तु स एव दोषः। नवेति विभाषेत्यारम्भे तु श्रुतक्रमानुरोधेन बोधान्नेत्यंशेन कित्सु पूर्वं निषेधः प्रवर्तते। ततः किदकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते। तदेवमुभयत्र विभाषार्थम् इदं सूत्रम्। प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात्। अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात्। न चैवमपि ‘उणादयो बहुलम्’ ‘हृक्रोरन्यतरस्याम्’ ‘छन्दस्युभयथा’ ‘अनुपसर्गाद्वा’ इत्यादिविधिषु विभाषाशब्दाऽभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारम् इति वाच्यं, विभाषाशब्दस्याऽत्र सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवं च लोके ये विकल्पपर्यायाः शब्दास्ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम्। भाष्ये तु विभाषादिशब्दानां लोकवद् एव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद् विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्तेरेतत्सूत्रं प्रत्याख्यातम् इत्यलं बहुना।
Tattvabodhini¶
न वेति विभाषा - न वेति विभाषा ।ने॑ति प्रतिषेधोवे॑ति विकल्पस्तदाह-निषेधविकल्पयोरिति ।विभाषाश्वेः॑ इत्यादिषु प्रतिषेधविकल्पावुपतिष्ठेते, तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते । शुशाव शिआआयेत्यत्राऽप्राप्तौ विकल्पः, शुशुवतुः शिइआयतुरित्यादौ तुवचिस्वपी॑ति नित्यप्राप्ताविति विवेकः । अत्रेदं बोध्यम्-॒इति॑ शब्दः काकाक्षिन्यायेनेभाभ्यां सम्बध्यते । स च पदार्थविपर्यासकृत् । तेन निषेधो विकल्पश्च नवाशब्दार्थः संज्ञी । विभाषाशब्दार्थो विकल्पः संज्ञा । उभयत्रविभाषार्थं चेदं सूत्रम् । प्राप्तविभाषायामप्राप्तविभाषायां च नास्योपयोगः । प्राप्तविभाषायां भावांऽशस्य सिद्धत्वेन विभाषाश्रुत्यापक्षे भवती॑ति भावांषमनूद्यपक्षे न भवती॑त्यभावांशमनूद्यपक्षे भवती॑ति भावांशमात्रकरणात् ।विभाषा श्वेः॑ इत्युभयत्रविभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव सम्प्रसारणविकल्पः स्यात् , कित्सु तु यजादित्वात्वचिस्वपि-॑ इति नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव प्रवृत्तिः-स्यान्न तु पित्सु । नच पित्सु विधिमुखेन कित्सु तु निषेधमुखेनेत्युभयथापि प्रवृत्तिरस्त्विति वाच्यम्, वैरूप्यलक्षणवाक्यबेदप्रसङ्गात् । संज्ञाकरणे तु श्रुतक्रमानुरोधेनने॑ति प्रतिषेधः प्रथमं कित्सु प्रवर्तते, ततः किदकिद्रूप सर्वस्मिल्लिटि एकरूपं प्रापिते सतिपक्षे भवती॑त्यकरूपेण विधिमुखेनैव प्रवर्तते । इतीति किम् घुसंज्ञावत्स्वं रूप॑मिति वचनाच्छब्दस्य संज्ञा मा भूत् । तथाहि सतिविभाषा श्वेः॑ इत्यस्य नवाशब्दः आयतेरादेश इत्यर्थः स्यात् । इतिशब्दे तु सति अर्थः संज्ञीति लभ्यते । तथाहि-लोके ह्रर्थप्रधानः शब्दः ।गौरित्ययमाहे॑त्यादौ तु शब्दस्वरूपपरः संपद्यते । व्याकरणे तुस्वं रूप॑मिति परिभाषाणात्स्वरूपपरत्वमौत्सर्गिकम् । इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः । इदमेवोतिशब्दस्य पदार्थविपर्यासकत्वं नाम । संज्ञात्वमर्थस्यैव नतु विभाषाशब्दस्येति व्याख्यानस्यह्मक्रोरन्यतरस्या॑-मित्यादौ वैरूप्योद्धारः फलम् । उभयत्रविभांषा हि तत्सूत्रम्, अभ्यवपूर्वस्य हरतेर्भक्षणार्थत्वाद्विकारार्थस्य करोतेरकर्मकत्वाच्चगतिबुद्धी॑त्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते अर्थान्तरे चाऽप्राप्ते तदारम्भात् । उदाहृतं च भाष्ये-॒प्राप्ते तावत्-अभ्यवहारयति सैन्धवान्, अभ्यवहारयति सैन्धवैः । विकारयत#इ सैन्धवान्, विकारयति सैन्धवैः । अप्राप्ते तु-हरति भारं देवदत्तः, हारयति भारं देवदत्तम्, हारयति भारं देवदत्तेन । करोति कटं देवदत्तः, कारयति कटं देवदत्तम् , कारयति कटं देवदत्तेने॑ति दिक् ।
Padamanjari¶
नवाशब्दोऽयमेकनिपातोऽप्यस्ति प्रतिषेधवावी, नवोक्तार्थत्वादिति यता, तस्य ग्रहणे ‘विभाषादिक्समासे’ इति प्रकृते ‘ न बहुव्रीहौ’ इति प्रतिषेधोऽनर्थकः स्याद् । विभाषाप्रदेशेषु च न शब्द एवोपादेयः स्याद् । अत एव संख्यावाचिनो नकारान्तस्याप्यग्रहणम् । प्रत्यग्रस्त्रीलिङ्गवचनोऽपि न गृह्यते; प्रदेशेष्वसम्भवात् । न हि ‘विभाषा श्वेः’ इत्यादौ विधेयस्य नवपुराण्त्वं स्त्रीलिङ्गता वा सम्भवति । तस्मान्निपातसमुदायोऽयमित्याह-नेति । प्रतिषेध इत्यादि । तयोः प्रतिषेधविकल्पयोरित्यनेनार्थयोरेषा संज्ञेति दर्शतम् । ननु च श्व रूपं शब्दस्य’ इति वचनान्नवाशब्दयोरेव ग्रहणं युक्तम्, तत्राह-इतिकरण इत्यादि । कर्माणि ल्युट्, इतिश्चासौ करणश्च सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः । इतिशब्दो हि पदार्थविपर्यासकृत् । तत्र लोके बाह्यार्थप्रधानेषु शब्देष्वितिशब्दः प्रयुक्तः, अर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति गौरित्ययमाहेति । इह तु व्याकरणे श्वं रूपम्’ इति वचनात् स्वरूपपदार्थः । ततश्च नवाशब्दाभ्यां परत्र प्रयुक्त इति शब्दस्तौ स्वरूपपदार्थकत्वात्प्रच्याव्यार्थपदार्थकत्वे व्यावस्थापयति । तस्मादर्थयोरेव संज्ञा । विभाषाप्रदेशेषु इत्यादिना प्रतिषेधविकल्पयोरेकस्मिन्नेव योगे सहोपस्थापनं विषयभेदेनेति तं दर्शयति । तथा सति विषयभेदो दुर्ज्ञानः स्यादिति भावः । तत्रेत्यादिना पूर्वं प्रतिषेधः प्रवर्तते, पञ्चाद्विकल्प इति दर्शयति । यदि तु पूर्वं विकल्पः प्रवर्तेत पश्चात्प्रतिषेधः, ततो विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च संज्ञाविधिवाक्ये श्रुतैव प्रदेशवाक्येष्वप्याश्रयितुं युक्ता । उभयत्रविभाषाः प्रयोजयन्तीति । प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् । तथा हि - प्राप्तविभाषायां तावद् ‘विभाषोपपदेन प्रतीयमाने’ इति श्वरितञितः’ इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषा विधीयते । विभाषाशब्दश्चायं ‘वा’ ‘अन्यतरस्याम्’ इत्यादिवद्विकल्पवाचित्वेन प्रसिद्धः । तेन भावाभावयोः प्रतिपादितयोर्भावांशस्य प्राप्तत्वादभावांशपरता विज्ञायते, भावांशः स्थित एव । अप्राप्तविभाषायामपि ‘विभाषोर्णोः’ इत्यभावांशस्य प्राप्तत्वाद् भावांशपरता विज्ञायते ‘विभाषा श्वेः’ इत्यत्र तु यदि विधिमुखेन विभाषा श्रुतिः प्रवर्तते, पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु तु यजादित्वान्नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तदा कित्स्वेन विकल्पः स्यान्न पित्सु । न च शक्यं वक्तुम् - पित्सु विधिमुखेन प्रवर्तते, कित्सु प्रतिषेधमुखेनेति; एकत्वाद्वाक्यस्य तस्य चान्यतरविकल्प एवोपक्षीणत्वात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृते किदकिदाख्यो लिट् सर्व एव समीकृतो भवति; सर्वस्यासम्प्रसारणनिमितत्वात् । ततो विकल्पः सर्वत्र विधिमुखेन पक्षे सम्प्रसारणं सम्पादयति । एतच्च - ‘आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते’ इति दर्शने प्रयोजनम् । यदा तु प्रतिलक्ष्यं ‘विभाषा श्वेः’ इत्यस्य व्यापारः, तदा क्वचिद्विधिमुखेन क्विचितप्रतिषेधमुखेन प्रवर्तत इति संज्ञाकरणमन्तरेणापीष्ट्ंअ सिद्ध्यति । तता च ‘हृक्रोरन्यतरस्याम्’ इत्यादावन्यतरस्यांग्रहणे वा ग्रहणे चोभयत्रविभाषास्विष्टसिद्धः । सूत्रारम्भे तु संज्ञाप्यर्थः, विभाषेत्यर्थः । संज्ञा नवार्थयोरिति व्याख्येयम् । शुशावेति । श्वयतेर्लिटि तिपो णलि सम्प्रसारणे वृद्ध्यावादेशौ ॥
Nyaas¶
नवेति शब्दोऽयमेको निपातोऽप्यस्ति प्रतिषेधवाची, यथा-नवा वक्तव्यंभुक्तार्थत्वात् इत्यादौ भाष्यवाक्ये। तस्येह यदि ग्रहणं स्यात् विभाषा दिक्समासे बहुव्रीहौ (1.1.28) इत्युक्त्वा न बहुव्रीहौ (1.1.29) इत्यत्र तु पुनः प्रति-षेधोपादानमनर्थकं स्यात्। तस्मान्न निपातसमुदायोऽयमिति दर्शयन्नाह- नेति प्रतिषे-धः इत्यादि। ननु चान्यत्र संज्ञासंज्ञिसम्बन्धप्रक्रियाया हि शास्त्रे शब्दस्यैव ग्रहणं प्रसिद्धम्, यथा तरप्तमपौ घः` (1.1.21) दाधा घ्वदाप् (1.1.20) इति, तथेहापि नवाशब्दयोरेव ग्रहणं युक्तम्। तत् कथं तदर्थयोः संज्ञा लभ्यत इत्याह-इतिकरणः इत्यादि। क्रियत इति करणः, इतश्चासौ करणश्चेतीतिकरणः, सोऽर्थस्य संज्ञिनोनिर्देशो यथा स्यादित्येवमर्थः। इतिशब्दो हि विपर्यासकृत्। यथा गवित्यर्थमाहेति गोशब्दात् परतः प्रयुज्यमान इतशब्दस्तमर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वेव्यवस्थापयति, तथा नवा शब्दाभ्यां परः इति शब्दः प्रयुज्यमानः, तौ स्वरूपपदार्थक-त्वात्प्रच्याव्यार्थपदार्थकत्वे व्यवस्थापयति। तस्मादर्थनिर्देशार्थ एवेतिशब्दः कृत इति नवेति यावर्थौ प्रतीयेते प्रतिषेधविकल्पौ, तयोरेवेयं संज्ञा भवति; न नवाशब्द-योः। तत्र प्रतिषेधेन इत्यादिना प्रतिषेधविकल्पयोः प्रवृत्तिक्रमं व्यापारबेदं च दर्शयति। समीकृते इति। तुल्यतामापादिते। विकल्पः प्रवर्तते इति। पक्षे कार्यसम्पादनाय। ननु च वाशब्द एव विकल्पार्थत्वेन लोके प्रसिद्धः, प्रदेशेष्वयमुपादीयमानो विकल्पेन कार्यं सम्पादयिषयति। तथा हि प्राप्ते वा कार्ये विकल्पः क्रियताम्? यदि प्राप्ते? तत्र प्राप्तिरस्त्येवेति प्रतिषेध एव पक्षे कर्तव्यः। अथाप्राप्ते? तत्र प्राप्तिपूर्वकत्वात् प्रतिषेधस्य तामन्तरेण स न युज्यत इति विधिरेव पक्षेकर्तव्यः, न प्रतिषेधः। एतच्चोभयं वाशब्द एव शक्तः प्रयुज्यमानः सम्पादयितुम्।तत् किमर्थमियं संज्ञा क्रियत इत्याह- उभयत्र विभाषाः प्रयोजन्ति इति। प्रकृतत्वात् संज्ञामिति गम्यते। विभाषा श्वेः (6.1.30) इत्यत्र प्रतिषेधमुखेन वाशब्दस्य प्रवृत्तिः स्यात्? विधिमुखेन वा? तत्र यदि प्रतिषेधमुखेन वा न भवतीत्येवं प्रवृत्तिः? प्राप्तिपूर्वकत्वात् प्रतिषेधस्य यत्र स एव तस्य विषय इति कित्स्वेव विकल्पेन प्रतिषेधायेदं प्रवर्तते। तत्र वचिस्वपि (6.1.15) इत्यादिना आयतेः सम्प्रसारणस्य विहितत्वात्, न पित्सु; तत्र तस्य न केनचिद्विहितत्वात्। एकत्वच्चा-स्य वाक्यस्य कित्सु च प्रतिषेधसम्पादन एव चरितार्थत्वात् नोपपद्यते पुनर्विधिमुखेन प्रवृत्तिः। अथ विधिमुखेन वा भवतीत्येवं प्रवृत्तिः स्यात्? यत्र प्राप्तिर्ना-स्ति स एव विधिविषय इति पित्स्वेव विकल्पेन विध्यर्थः प्रवर्तते;तत्र चरितार्थ-त्वात् न कित्सु। संज्ञाविधाने तु न दोषः; तस्यां हि सत्यां प्रतिषेधः प्रवर्त-मानो योऽसौ सम्प्रसारणनिमित्तानिमित्तभेदाद्विषय आसीत् तं समीकरोति। सर्वस्याःसम्प्रसारणनिमित्ततया तुल्यतामापादयति।तस्मिन् समीकृते किति च पिति च विकल्पः प्रव-र्तमानो विधिमुकेन सर्वत्र पाक्षिकं कार्यं सम्पादयति, सम्प्रसारणं पक्षे भवतीति। अप्राप्तिस्तु पक्षे स्थितैवेति सर्वमिष्टं सिध्यति। तस्मादुभयत्र प्राप्तावप्रा-प्तौ विभाषार्थमियं संज्ञा विधीयते। शुशावेति। टुओश्विगतिवृद्ध्योः (धातुपाठः-1010), लिट्, णल्, संप्रसारणे कृते वृद्ध्यावादेशौ। शुशुवतुः,शिइआयतुः इति। अचि श्नुधातु (6.4.77) इत्यादिना इयङुवङौ॥