11055: अनेकाल्शित्सर्वस्य

Padacheda: अनेकाल्-शित् | S | 1 | 1 |

सर्वस्य | S | 6 | 1 |

Sutrartha

अनेकाल् आदेशः, शित्-आदेशः च सम्पूर्णस्थानिनः स्थाने विधीयते ।

एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यस्मिन् आदेशे द्वौ वा अधिकाः वर्णाः विद्यन्ते तादृशः आदेशः, तथा च यस्मिन् आदेशे शकारः इत्संज्ञकः विद्यते तादृशः आदेशः सम्पूर्णस्य स्थानिनः स्थाने विधीयते — इति अस्य सूत्रस्य आशयः । अलोऽन्त्यस्य (1.1.52) इति सूत्रस्य अपवादरूपेण इदं सूत्रम् प्रवर्तते । <note>आदेशे कति वर्णाः सन्ति इति ज्ञातुम् आदौ तत्र उपस्थितानाम् सर्वेषाम् इत्संज्ञकवर्णानाम्, उच्चारणार्थं प्रयुक्तानां च वर्णानाम् लोपः करणीयः, तदनन्तरम् एव वर्णानाम् गणना कर्तव्या । यथा, दिवः औत् (7.1.84) अनेन सूत्रेण ‘औत्’ इति आदेशः दीयते । यद्यपि अस्मिने आदेशे द्वौ वर्णौ दृश्येते, तथापि अत्र तकारः केवलम् उच्चारणार्थः अस्ति ।तस्य लोपः क्रियते चेत् ‘औ’ इति एकः एव वर्णः अवशिष्यते । अतः औत् इति एकाल्-आदेशः एव । अतः औत्-आदेशस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।</note> अस्य सूत्रस्य द्वे उदाहरणे एतादृशे — 1. अस्तेर्भूः (2.4.52) इत्यनेन अस्-धातोः आर्धधातुकप्रत्ययस्य विवक्षायां भू-आदेशः विधीयते । अयम् अनेकाल्-आदेशः, अतः अयम् ‘अस्’ इत्यस्य सम्पूर्णशब्दस्य स्थाने आगच्छति । अतएव अस्-धातोः ‘क्त्वा’ अस्मिन् आर्धधातुके प्रत्यये परे ‘भूत्वा’ इति रूपं जायते । यथा -

असँ (भुवि, अदादिः, (2.60))
→ भू [आर्धधातुकप्रत्ययस्य विवक्षायाम् अस्-धातोः भू-आदेशः । अनेकाल्त्वात् **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः]
→ भू + क्त्वा [भू-आदेशस्य स्थानिवद्भावनेन धातुसंज्ञा ।**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वा-प्रत्ययः]
→ भूत्वा
  1. इदमः इश् (5.3.3) इति सूत्रेण इदम्-शब्दस्य केषुचन तद्धितप्रत्ययेषु परेषु इश्-आदेशः भवति । अस्मिन् आदेशे शकारः इत्संज्ञकः अस्ति, अतः अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयम् आदेशः सम्पूर्णरूपेण ‘इदम्’ शब्दस्य स्थाने विधीयते । यथा, इदम्-शब्दात् ह-प्रत्यये कृते इदम्-शब्दस्य ‘इ’ इति सर्वादेशं कृत्वा ‘इह’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —

इदम् + ह [**इदमो हः** (5.3.11) इति इदम्-शब्दात् सप्तम्यर्थे ह-प्रत्ययः]
→ इश् + ह [**इदमः इश्** (5.3.3) इति सूत्रेण इदम्-शब्दस्य इश्-आदेशः । शित्त्वात् **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः]
→ इ + ह [शकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ इह

ङिच्च तथा अनेकाल्शित्सर्वस्य एतयोर्मध्ये बाध्यबाधकभावः

ङिच्च (1.1.53) एतत् सूत्रम् अनेकाल्शित्सर्वस्य (1.1.55) इत्यस्य अपवादरूपेण विधीयते । इत्युक्ते, ङित्-आदेशः अनेकाल् भवेत् उत एकाल्, सः अन्त्यादेशरूपेणैव विधीयते । यथा, आनङ् ऋतो द्वन्द्वे (6.3.25) इति सूत्रेण केषुचन द्वन्द्वसमासेषु पूर्वपदस्य आनङ्-आदेशः भवति । अयम् आनङ्-आदेशः यद्यपि अनेकाल् अस्ति, तथापि ङित्त्वात् अयम् अन्त्यस्य स्थाने एव विधीयते । यथा, ‘माता च पिता च’ इत्यस्मिन् द्वन्द्वसमासे ‘होतृ’ इति पूर्वपदस्य आनङ्-इति अन्त्यादेशे कृते ‘मातापितरौ’ इति रूपं सिद्ध्यति । प्रक्रिया इयम् —

माता च पिता च [**चार्थे द्वन्द्वः** (2.2.29) इति द्वन्द्वसमासः]
→ मातृ सुँ पितृ सुँ [अलौकिकविग्रहः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ मातृ पितृ औ [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति विभक्तिप्रत्यययोः लुक् । ततः द्विवचनस्य निर्देशार्थम् औ-प्रत्ययः ।]
→ मात् आनङ् पितृ औ [**आनङ् ऋतो द्वन्द्वे** (6.3.25) इति मातृ-शब्दस्य आनङ्-आदेशः । **अनेकाल्शित्सर्वस्य** (1.1.55) इत्यनेन सर्वादेशे प्राप्ते, तद्बाधित्वा **ङिच्च** (1.1.53) इति अन्त्यादेशः]
→ मात् आन् पितृ औ [ङकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । नकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ मातान् पितर् ओ [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इति ऋकारस्य  सर्वनामस्थानसंज्ञके औ-प्रत्यये परे गुणादेशः । **उरण् रपरः** (1.1.51) इति रपरः]
→ मातापितरौ [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारस्य लोपः]

आदेः परस्य तथा अनेकाल्शित्सर्वस्य एतयोर्मध्ये बाध्यबाधकभावः

अनेकाल्शित्सर्वस्य (1.1.55) इति सूत्रम् परत्वात् आदेः परस्य (1.1.54) इत्यस्य बाधकरूपेण प्रवर्तते । अस्य द्वे उदाहरणे एतादृशे — 1. अष्टाभ्य औश् (7.1.21) इत्यनेन अष्टा-शब्दात् परस्य जस्-प्रत्ययस्य औश्-आदेशः भवति । अनेन सूत्रेण पूर्वनिमित्तम् उक्त्वा आदेशविधानम् क्रियते, अतः अयम् आदेशः वस्तुतः आदेः परस्य (1.1.54) इत्यनेन स्थानिनः आदिवर्णस्य स्थाने एव भवेत् । परन्तु अयम् आदेशः शित् अस्ति, अतः अनेकाल्शित्सर्वस्य (1.1.55) इति सूत्रेण सः सर्वादेशरूपेण प्रवर्तते । यथा‌ —

अष्टन् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ अष्टा + जस् [**अष्टन आ विभक्तौ** (7.2.84) इति आकारादेशः । **अलोऽन्त्यस्य** (1.1.52) इति अन्त्यादेशः]
→ अष्टा + औ [**आदेः परस्य** (1.1.54) इत्यनेन आदिवर्णस्य आदेशे प्राप्ते, तद्बाधित्वा**अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः]
→ अष्टौ [**वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः]
  1. अतो भिस ऐस् (7.1.9) इति सूत्रेण अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अत्रापि आदेः परस्य (1.1.54) इत्यनेन आदिवर्णस्यैव आदेशे प्राप्ते, तद्बाधित्वा ऐस्-आदेशस्य अनेकाल्त्वात् अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वादेशः भवति । प्रक्रिया इयम् —

राम + भिस् [तृतीयाबहुवचनस्य भिस्-प्रत्ययः]
→ राम + ऐस् [**अतो भिस ऐस्** (7.1.9) इति ऐस्-आदेशः । अनेकाल्त्वात् सर्वादेशः]
→ रामैः [**वृद्धिरेचि** (6.1.88) इति वृद्ध्येकादेशः । **ससजुषो रुः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]

जश्शसो शिः इत्यत्र आदेशविधानपद्धतिः

प्रकृतसूत्रस्य व्याख्याने काशिकायाम् एतत् उच्यते - <source> शित् खल्वपि - जश्शसोः शिः (7.1.20) कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ॥ <light>काशिका, 1.1.55 ॥</light> </source> अत्र काशिकाकारः ‘शित्’ इत्यस्य उदाहरणरूपेण जश्शसोः शिः (7.1.20) इदं सूत्रम् उदाहरति । वस्तुतः एतत् प्रामादिकम् एव । तत्कथम् इति चेत्, ‘शि’ इत्यस्य शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन तदा एव इत्संज्ञा भवितुम् अर्हति, यदा आदेशात् अनन्तरम् ‘शि’ इत्यस्य स्थानिवद्भावेन प्रत्ययसंज्ञा विधीयते । आदेशसमये तु अस्य प्रत्ययसंज्ञा नास्ति एव, अतः लशक्वतद्धिते (1.3.8) इत्यस्य आदेशसमये प्रसक्तिः एव न विद्यते । अतः जश्शसोः शिः (7.1.20) इत्यत्र अनेकाल्त्वात् एव सर्वादेशः भवति, न हि शित्त्वात् । प्रक्रियाक्रमः एतादृशः —

फल + जस्  [जस्-प्रत्ययविधानम्]
→ फल + शि [ **जश्शसोः शिः** (7.1.20) इत्यनेन जस्-प्रत्ययस्य 'शि' आदेशः । अत्र आदेशसमये 'शि' इति प्रत्ययसंज्ञकः नास्ति, अतः अत्र **लशक्वतद्धिते** (1.3.8) इत्यस्य प्रसक्तिरेव नास्ति । अतः अत्र **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः विधीयते ।]
→ फल + इ [आदेशात् अनन्तरम् **स्थानिवदादेशोऽनल्विधौ** (1.1.56) इति स्थानिवद्भावेन 'शि' इति प्रत्ययसंज्ञां प्राप्नोति । प्रत्ययसंज्ञायाम् सत्याम् शकारस्य **लशक्वतद्धिते** (1.3.8) इत्यनेन इत्संज्ञा, अग्रे **तस्य लोपः** (1.3.3) इत्यनेन लोपः भवति ।
→ फलानि [**नपुंसकस्य झलचः** (7.1.72) इत्यनेन नुमागम:, **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति उपधादीर्घः]

Sutrartha (English)

An आदेश which either has more than one letters, or is शित् - replaces the entire स्थानी.

Vasu English Summary

A substitute consisting of more than one letter and a substitute having an indicatory श् take the place of the whole of the original expression exhibited in the Genitive 6th-Case.

Vasu English Translation

A substitute consisting of more than one letter and a substitute having an indicatory श् take the place of the whole of the original expression exhibited in the Genitive 6th-Case. This sutra * is an exception to *sutra (1.1.52) by which it was declared that an adesa or substitute replaces only the last letter. This sutra on the contrary enjoins that an adesa consisting of more than one letter replaces the whole expression in the genitive case, and not only its last letter. Even where an adesa consists of a single letter, but if it has a श् as its indicatory letter, it replaces the whole word.

Thus, there is a sutra ब्रुवो वचिः (2.4.53) which means ‘in the place of ब्रू let there be वच्. Here the adesa वच् consists of three letters (more than one), and therefore, it replaces the whole word ब्रू and not only the last letter ऊ. That is to say in forming certain tenses the verb ब्रू is replaced by वच्. Thus the future tense of ब्रू is वक्ता ‘he will speak.’

So also there is a sutra (5.3.3) by which it is declared:– “In the place of इदम् there is इश्.” Here the adesa इ is an adesa having the श् for its indicatory letter, and though it consists of only one letter, it replaces the whole word इदम्, and not only its last letter म्.

Of course, it must be understood that the phrase ‘consisting of more than one letter’ applies to the actual substitute, and not to the substitute with its indicatory letters, the latter being for the purposes of counting regarded as mere surplusages and not to be taken into account. To see whether an affix is अनेकाल् or not, the indicatory letters must not be counted; and the affix must be stripped of all its इत् letters.

Bhashya

अनेकाल्शित् सर्वस्य शित्सर्वस्येति किमुदाहरणम् ? इदम इश्; इतः इह। नैतदस्ति प्रयोजनम्। शित्करणादेवात्र सर्वादेशो भविष्यति। इदं तर्हि अष्टाभ्य औश्। ननु चात्रापि शित्करणादेव सर्वादेशो भविष्यति। इदं तर्हि जसः शी। जश्शसोः शिः। ननु चात्रापि शित्करणादेव सर्वादेशो भविष्यति। अस्त्यन्यच्छित्करणे प्रयोजनम्। किम्? विशेषणार्थः शकारः। क्व विशेषणार्थेनार्थः। शि सर्वनामस्थानम्। विभाषा ङिश्योरिति। शित्सर्वस्येति शक्यमकर्तुम्। कथम्? अन्त्यस्यायं स्थाने भवन्नप्रत्ययः स्यात्। असत्यां प्रत्ययसञ्ज्ञायामित्संज्ञा न स्यात्। असत्यामित्संज्ञायां लोपो न स्यात्। असति लोपे अनेकाल्। यदा अनेकाल् , तदा सर्वादेशः। यदा सर्वादेशः तदा प्रत्ययः। यदा प्रत्ययस्तदेत्संज्ञा तदा लोपः। एवं तर्हि सिद्धे सति यच्छित्सर्वस्येत्याह तज्ज्ञापयत्याचार्यः भवत्येषा परिभाषा नानुबन्धकृतमनेकाल्त्वं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? तत्रासरूपसर्वादेशदाप्प्रतिषेधेषु पृथग् निर्देशोऽनाकारान्तत्वादित्युक्तं तन्न वक्तव्यं भवति। सप्तम आह्निकं समाप्तम् ।

Kashika

अनेकाल् य आदेशः शिच् च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। अस्तेर्भूः (२.४.५२) — भविता। भवितुम्। भवितव्यम्। शित् खल्वपि — जश्शसोः शिः (७.१.२०) — कुण्डानि तिष्ठन्ति। कुण्डानि पश्य॥

Siddhanta Kaumudi

स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औश् (SK372) इत्यादौ आदेः परस्य इत्येतदपि परत्वादनेन बाध्यते ॥

Laghu Siddhanta Kaumudi

इति प्राप्ते॥

Laghu Shabdendushekhar

अनेकाल् शित् सर्वस्य (1.1.55) । शित उदाहरणम् इदम् इश् (5.3.3) । ननु शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वे सिद्धे शिदिति व्यर्थम् । किञ्च सानुबन्धकनिर्देशे यथा नालः स्थानित्वं भोभगो.. (8.3.17)इति सूत्रे भाष्ये उक्तम्, तथाऽऽदेशत्वमपि सूत्रोपात्तस्यैवेति तद्व्यर्थम् । विधौ निर्दिष्टो योऽनेकाल्स सर्वस्येति सूत्रार्थः । उद्देश्यत्वविधेयत्वाख्यविषयतया बोधविषयता तु अनुबन्धविनिर्मुक्तस्येति न अणुदित् (1.1.69) सूत्रभाष्यविरोधः । ध्वसोः… (6.4.119) इति लोपस्य लोपो यि… [6.4.118]] इति प्रकृते पुनर्लोपग्रहणसामर्थ्यात्सर्वा देशत्वसिद्धिः । अनुबन्धानामेकान्तत्वमेव न्याय्यमित्युक्तमिति चेन्न, नानुबन्धकृतमनेकाल्त्वम् इति ज्ञापनेन चारितार्थ्यात् । तेन दिव औत् (7.1.84) इत्यादिना न सर्वादिशत्वम् । अस्य च यथेत्सञ्ज्ञा तथा वक्ष्यते । नानेकाल् शित्<hl> इति तु नोक्तम् । <hl>अनन्तरस्य इति न्यायेन आदेः परस्य (1.1.54) इत्यस्यैव निषेधापत्तेः । परत्वादितिआदेः परस्य (1.1.54) इत्यस्यावकाशः । द्व्यन्तरुपसर्गेभ्यो (6.3.97) — “द्वीपम्” । शित्सर्वस्य — इदम इश् (5.3.3) । एवम् अतो भिसः (7.1.9) इत्यादिविषये अनेकाल् (1.1.55) इत्यनेन आदेः परस्य (1.1.54) इति परत्वाद् बाध्यते । एतेन — **ङिच्च (1.1.5) इत्यत्र ङिदेवानेकालन्त्यस्य इति नियमेन सिद्धेऽनेकाग्रहणं व्यर्थम्** इत्यपास्तम् ।

Balamanorama

अनेकाल्शित्सर्वस्य - अनेकाल्शित्सर्वस्य । न एकोऽनेकः, अनेकोऽल् यस्य सोऽनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शिच्चेति समाहारद्वन्द्वः । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः । अस्तेर्भूरित्याद्युदाहरणम् । नन्वस्धातोर्भूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह-अलोऽन्त्यसूत्रापवाद इति ।अलोन्त्येति॑ति सूत्रैकदेशानुकरणम् । अनुकरणत्वादेव नापशब्दः, अधिरीश्वर इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणाल्लिङ्गात् । स्यादेतत् । अष्टन्शब्दाज्जसि शसि चअष्टन आ विभक्ता॑विति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारादष्टनः परयोर्जश्शसोर्विधीयमान औशादेशोऽलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः । अनेकाल्त्वाच्च सर्वादेशः प्राप्तः । एवम्अतो भिस ऐ॑सित्यादावपि । तत्र कतरच्छास्त्रं बाध्यं कतरच्च प्रवर्तत इत्यत्र किं विनिगमकम्रित्यत आह-अष्टाभ्य औशित्यादाविति । आदिनाअतो भिस ऐ॑सित्यादिसंग्रहः । अष्टाभ्य औ॑ शित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यत इत्यन्वयः । अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथाऽलोऽन्त्यस्येति बाध्यते तथ#आऽष्टाभ्या औशित्यादावादेः परस्येत्येतदपि बाध्यत इत्यर्थः । नन्वस्तेर्भूरित्यादावलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शित्सर्वस्येति नापवादः । अस्तेर्भूरित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह-परत्वादिति ।विप्रतिषेधे परं कार्य॑मिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भावः ।आदेः परस्ये॑त्यस्यावकाशोद्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादिः ।अनेकाल्शित्सर्वस्ये॑त्यस्यावकाशः-॒अस्तेर्भूः॒॑इदम इ॑शित्यादिः । अतस्तुल्यबलत्वमुभयोः ।

Tattvabodhini

अनेकाल्शित्सर्वस्य - अनेकाल् ।अस्तेर्भूः॑ । बभूव । ननुनिर्दिश्यमानस्यादेशा भवन्ती॑त्यनेकालादेशस्य सर्वादेशत्वं सिध्यति, तत्किमनेनाऽल्ग्रहणेन । न चअलोऽन्त्यस्येट॑त्यन्त्यस्य स्यादिति शङ्कयम्,ङिच्चे॑त्यस्य नियमार्थत्वाभ्युपगमात् । उच्यते-अनेकाल्ग्रहणाऽभावेरामै॑रित्यादावैसादेशःआदेः परस्ये॑ति भकारस्यैव स्थाने स्यान्नतु सर्वस्य स्थाने इति दिक् । शित उदाहरणम्-॒इदम इश्-इतः । इत्यादाविति । आदिशब्देनअतो भिस ऐ॑सित्यादि गृह्रते । परत्वादिति । अत एवआदेः परस्ये॑ति पृथक्रियत इत्युक्तम् । ननुअनेकाल्शित्सर्वस्ये॑त्यतः प्रागेवतस्मादित्युत्तरस्यादे॑रिति पठतां किमनेन पृथक्सूत्रकरणेन । न चैवंतस्मिन्निति निर्दिष्टे-॑ इत्यतो निदष्टग्रहणं नात्रानुवर्तेतेति वाच्यम्, तस्यापि सूत्रस्य प्राक् पठने बाधकाभावेन निर्दिष्टग्रहणाऽनुवृत्तिसिद्धेः । मैवम्ब्राआहृणा अष्टौ॑ इत्यत्र अष्टाभ्यः पूर्वयोरपि जश्शसोरौश्प्रसङ्गात् । यथाश्रुतसूत्राभ्युपगमे तुउत्तरस्ये॑त्यंशः प्रवर्तत एवेति नायं दोषः प्रसज्यत इति । अत्र केचिन्निष्कर्षमाहुः-अनेकाल्शित्सूत्रात्प्रागेव वर्णलाघवायतस्मादित्युत्तरस्यादे॑रिति सूत्रिते परत्वात्सर्वादेशेन आदेरित्यंशवदविशेषादुत्तरस्येत्यंशस्यापि बाधितत्वाद्वाक्यसंस्कारपक्षे ब्राआहृण अस् अष्टन् अस् इति स्थितेअष्टाभ्य[औश्] इत्यस्य दिग्योगे पञ्चमीत्वाव्द्याप्तिन्यायेनाऽष्टनोऽङ्गात्पूर्वयोरपि जश्शसोरौश्स्यात् । व्याप्तिन्यायस्तुप्राग्वीआरान्निपाता॑ इति पठितेऽपि प्रत्यासत्तिन्यायेनअधिरीश्वरे॑ इति सूत्रावधिकत्वसिद्धौईआरे तोसुन्कसुनौ॑ इति सूत्रावधिकत्वनिराकरणाय रेफविशिष्टग्रहणं कुर्वता सूत्रकृतैव ज्ञापितः । ततश्च सर्वादेशेनउत्तरस्ये॑त्यंशस्याऽबाधनार्थं, निर्दिष्टग्रहणानुवृत्त्यर्थं चतस्मिन्निति-॑ इति सूत्रात्परस्य कृते तुआदे॑रित्यस्य सर्वादेशबाधकत्वं स्यात् । तथा चअतो भिस ऐस् इत्याद्यादेश आदेरेव स्यात्, अनेकाल्सूत्रस्यअस्तेर्भू॑रित्यादौ चरितार्थत्वात् । यथान्यासे तुउत्तरस्ये॑त्यंशः प्रवर्तत एवेत्यष्टाभ्यः परयोरेव जश्शसोरौश्स्यात्, न तु पूर्वयोः । तथातस्मादित्युत्तरस्यादे॑रिति न सूत्रितमित्यादिमनोरमाग्रन्थस्याप्ययमेवाशय इति । अन्ये तु यथाश्रुतसूत्रनिराकरणपरतयैव मनोरमां योजयन्ति । तद्यथा-॒न सूतिंरत॑मित्यस्यअनेकाल्शित्सूत्रात्प्राङ् सूत्रित॑मित#इ नार्थः ।आदे॑रित्यंशस्य सर्वादेशबाधकत्वापत्तेरित्याद्यग्रिमग्रन्थविरोधात्, किंतु तद्ग्रन्थानुकूल्यायस्वं रूप॑मिति सूत्रात्प्राङ् सूत्रितमित्यर्थोऽभ्युपेयः । एवं च अनेकाल्सूत्रात्प्राक्सूत्रिते तु नास्त्येव दोष इति मनोरमाग्रन्थाशयः । एवं स्थिते निर्दिष्टग्रहणानुवृत्तिलाभायतस्मिन्निति निर्दिष्टे॑ इति सूत्रंतस्मादित्युत्तकस्यादेः परस्ये॑त्यस्मात्प्रागेव पठनीयम् ।अष्टनोऽङ्गात्पूर्वयोरप्यौश् स्या॑दित्युक्तदोषस्तु इत्थं परिहरणीयः,तस्मादित्युत्तरस्यादेः परस्ये॑त्यत्र आदे॑रिति पृथग्वाक्यम् । तत्रउत्तरस्ये॑त्यनुवर्तते । सा च स्थानषष्टी,षष्ठी स्थाने॑ इत्यस्य प्राप्तेः । तत्र चायमर्थः-॒पञ्चमीनिर्देशेन यत्कार्यं तदुत्तरसम्बन्धि॑उत्तरस्य स्थाने यद्विधीयते तदादेर्भवती॑ति । इत्थं वाक्यभेदेन व्याख्यानाश्रयणादनन्तरस्येति न्यायेनआदे॑रित्यंश एव सर्वादेशेन बाध्यते, न तूत्तरस्येत्यंशोऽपीति नास्त्येव पूर्वोक्तदोषः । वाक्यभेदेन व्याख्यानं तुउत्तरस्यादे॑रित्यसमस्तन्यासकरणेन ज्ञाप्यते । अन्यथाउत्तरादे॑रिति न सूत्रित॑मिति वदेत् । किंचअष्#आभ्य औ॑शित्यस्य दिग्योगे पञ्मीत्वेन पूर्वपरसाधारणतया अष्टनोऽङ्गाज्जश्शसोरित्युक्तेऽप्यनोऽङ्गसंज्ञानिमित्तभूतौ यौ जश्शसौ तावेव शीघ्रपस्थितिकावित्यष्टञ्शब्दादुत्तरयोरेव औश् स्यात्, न तु पूर्वयोरिति दिक्॥

Padamanjari

अनेकालग्रहणं किमर्थम् ? ‘अस्तेर्भूः’ सर्वस्य यथा स्यात्, अलोऽन्त्यस्य मा भूत्; नैतदस्ति प्रयोजनम्; ‘ङ्च्चि’ इत्येतन्नियमार्थं भविष्यति - ‘यद्यनेकालन्त्यस्य भवति, ङ्देवि’ इति । एवमप्यसत्यनेकाल्ग्रहणे ‘अतो भिस ऐस्’ इत्यादिषु पञ्चमीनिर्देशेष्वनेकालप्यादेश आदेः परस्य स्यात्, सति तु तस्मिन् द्वावेतौ ‘अलोऽन्त्यस्य’ इत्यस्यापवादौ - ‘आदेः परस्य’,’अनेकाल्शित्सर्वस्य’ इति; तत्र ‘आदेः परस्य’ इत्यस्यायमवकाशो य एकालदेशो लोपो वा - ‘ई दासः’ ‘बहोर्लोपो भू च वहोः’ आसीनः, भूयान् ; ‘अनेकाल्शित्सर्वस्य’ इत्यस्यावकाशो यत्र पञ्चमीनिर्देशो नास्ति-‘अस्तेर्भूः’ । इहोभयं प्राप्नोति-‘अतो भिस ऐस्’, अपवादविप्रतिषेधादनेकाल्शित्सर्वस्येत्ययमेव भवतीति सिद्धमिष्टम् । शिद्ग्रहणं किमर्थम् ? ‘जसः शी’ सर्वस्य यथा स्यात्, अनेकालित्येव भविष्यति, शकारे लुप्ते नानेकाल्, आनुपूर्व्यात्सिद्धम् । यदायं सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदालोपः, यदालोपस्तदैकाल् तदिह सर्वादेशत्वमन्तरेण नैकाल्त्वमुपपद्यते । इह तर्हि ‘इदम इश्’ ‘इदं किमोरीश्कीः’ ? अत्र ह्यन्तरेणापि सर्वादेशतां प्रगेवेत्संज्ञा भवति । नन्वत्रापि शकारः प्रयोजनान्तराभावाद् अनेकाल्त्वमादेशस्य संपाद्य निवर्तिष्यते । इह तर्हि ‘घ्वसोरेद्धावभ्यासलोपश्च’ इति ? लोपः शित्सर्वस्य यथा स्यात् । ‘इदम् इश्’ इत्यादावपि प्रयोजनाभावदित्संज्ञैव शकारस्य न स्यादिति श्रवणप्रसङ्गः ॥

Nyaas

शितः शकारानुबन्धेनानेकाल्त्वेऽपि शिदिति पृथक्करणं `नानुबन्धकृतमनेकाल्त्वम्`(व्या।प।14) इति ज्ञापनार्थम्। तस्य तु प्रयोजनम् - दिव उत् (6.1.131) इत्या-दिषु सर्वादेशाभावः॥

Praudhamanorama

शित उदाहरणम् ‘इदम इश्’ इतः। यत्तु वृत्तिकृता जश्शसोः शिः (7.1.20) इत्युदाहृतम्। तन्न, सर्वादेशतायाः प्राक् शित्त्वस्यैवालाभात्। तत्र हि डाणलोरिवानुपूर्व्यादनेनैव सर्वादेशत्वमिति सिद्धान्तः। इत्यादाविति। आदिशब्देन अतो भिस ऐस् (7.1.9) इति गृह्यते। परत्वादिति। अत एव आदेः परस्य (1.1.54) इति पृथक् क्रियते इत्युक्तम्। ‘उत्तरस्य’ इत्यंशस्तु औशैसोरपि प्रवर्तत एव। यत्तु प्राचा ‘आदेः’ इति सूत्रं विवृण्वता पञ्चमीनिर्देशेनेत्याद्युक्तं, तदसम्बद्धमिति स्पष्टमेव।

Prakriyasarvasvam

अनेकाक्ष⁶रः शिच्चादेशः सर्वस्य स्यात् ।

Sarala

(अनेकाल् यं आदेशः शिच्च स सर्वस्य षष्ठीनिर्द्दिष्टस्य स्थाने स्यात्) । अनेकालितिअलोऽन्त्यस्य (१.१.५२), आदेः परस्य (१.१.५४) इत्यनयोरपवादोऽयम् । आरम्भसामर्थ्यादाह - अनेकालपीति