11051: उरण् रपरः

Padacheda: उः | S | 6 | 1 |

अण् | S | 1 | 1 |

रपरः | S | 1 | 1 |

Sutrartha

ऋवर्णस्य/ऌवर्णस्य आदेशरूपेण विधीयमानात् अवर्णात्/इवर्णात्/उवर्णात् अनन्तरम् नित्यम् (यथासङ्ख्यम्) रेफः / लकारः विधीयते ।

<pt> अण् = अ, आ, इ, ई, उ, ऊ । = र्, ल् । </pt> ऋवर्णस्य स्थाने (इत्युक्ते, ऋकारस्य, दीर्घ-ॠकारस्य, ऌकारस्य च स्थाने) यत्र अण्-वर्णस्य (अ/आ/इ/ई/उ/ऊ-कारस्य) आदेशः भवति, तत्र तस्मात् अण्-वर्णात् नित्यम् रेफः अपि विधीयते । एवमेव, ऌवर्णस्य स्थाने यत्र अण्-वर्णस्य (अ/आ/इ/ई/उ/ऊ-कारस्य) आदेशः भवति, तत्र तस्मात् अण्-वर्णात् नित्यम् लकारः अपि विधीयते । <note> सूत्रे प्रयुक्तः ‘उः’ इति शब्दः ऋ-शब्दस्य षष्ठ्येकवचनम् अस्ति । अत्र विद्यमानः ऋ-शब्दः सवर्णग्रहणं करोति । अतः अत्र ऋ-इत्यनेन ऋकारस्य 18 भेदाः, ऌकारस्य च 12 भेदाः इति आहत्य 30 भेदाः निर्दिश्यन्ते ।</note>

क्रमेण उदाहरणानि एतानि —

<hlb>1. ह्रस्व-ऋकारस्य स्थाने विधीयमानः अण्-वर्णः रपरः भवति —</hlb> 1. “ब्रह्म + ऋषि” इत्यत्र अकार-ऋकारयोः गुणैकादेशः रपरः अकारः विधीयते —

ब्रह्मणाम् ऋषिः [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ ब्रह्म + ऋषि [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ ब्रह्म् अर् षि [**आद्गुणः** (6.1.87) इति गुणैकादेशः । अकार-ऋकारयोः गुणैकादेशः अकारः रपरः सन् विधीयते ]
→ ब्रह्मर्षि
  1. “प्र + ऋच्छति” इत्यत्र उपसर्गादृति धातौ (6.1.91) इत्यनेन अकार-ऋकारयोः वृद्ध्येकादेशः रपरः आकारादेशः विधीयते —

प्र + ऋच्छति
→ प् र् आर् च्छति [**उपसर्गादृति धातौ** (6.1.91) इति वृद्ध्येकादेशः । अकार-ऋकारयोः वृद्ध्येकादेशः आकारः रपरः सन् विधीयते ।]
  1. ऋकारान्तशब्दानाम् पञ्चम्येकवचनस्य रूपे ऋत उत् (6.1.111) इति सूत्रेण ऋकार-अकारयोः एकादेशरूपेण विहितः उकारः रपरः भवति —

पितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ पितृ + अस् [इत्संज्ञालोपः]
→ पित् उ र् स् [**ऋत उत्** (6.1.111) इति रपरः उकारः एकादेशः]
→ पितुर् [**रात्सस्य** (8.2.24) इति सकारलोपः]
→ पितुः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

<hlb>2. दीर्घ-ऋकारस्य स्थाने विधीयमानः अण्-वर्णः रपरः भवति —</hlb> 1. ॠत इत् धातोः (7.1.100) अनेन सूत्रेण धात्वन्ते विद्यमानस्य दीर्घ-ॠकारस्य स्थाने यः इकारादेशः भवति सः प्रकृतसूत्रेण रपरः सन् विधीयते —

कॄ  (विक्षेपे, तुदादिः, (6.145))
→ कॄ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्-लकारः]
→ कॄ + तिप् [**तिप्तस्झि..** (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ कृ + श + ति [**तुदादिभ्यः शः** (3.1.77) इति श-विकरणप्रत्ययः]
→ [**ॠत इत् धातोः** (7.1.100) इति ॠकारस्य इकारः । सः च **उरण् रपरः** (1.1.51) इति रपरः ।]
→ किरति
  1. उपधायाश्च (7.1.101) इत्यनेन कॄत्-धातोः दीर्घ-ॠकारस्य स्थाने यः इकारादेशः भवति सः प्रकृतसूत्रेण रपरः सन् विधीयते —

कॄतँ  (संशब्दने, चुरादिः, (10.155))
कॄत् + णिच् [**सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्** (3.1.25) इति स्वार्थे णिच्]
→ किर् त् + इ [दीर्घ-ॠकारस्य स्थाने रपरः इकारादेशः]
→ किर्ति [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा]
→ किर्ति + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ किर्त् + अनीय [**णेरनिटि** (6.4.51) इति णिलोपः]
→ कीर्तनीय [**उपधायां च** (8.2.78) इति दीर्घः]

<hlb>3. ऌ स्थाने विधीयमानः अण्-वर्णः रपरः भवति —</hlb> 1. “तव + ऌकारः” इत्यत्र अकार-ऌकारयोः आद्गुणः (6।1।87) इति गुण-एकादेशः भवति । अत्र अकार-ऌकारयोः गुणः अकारः, सः च उरण् रपरः (1.1.51) इति लपरः भवति, अतः ‘अल्’ इत्यस्यैव प्रयोगं कृत्वा ‘तवल्कारः’ इति सन्धिरूपं सिद्ध्यति —

तव + ऌकारः
→ तव् अल् कारः [**आद्गुणः** (6।1।87) इति गुणैकादेशः । अकारऌकारयोः गुणः लपरः अकारः]
→ तवल्कारः
  1. “गमॢ”-शब्दस्य षष्ठ्येकवचनस्य रूपे ऋत उत् (6.1.111) इति सूत्रेण ऌकार-अकारयोः एकादेशरूपेण विहितः उकारः लपरः भवति —

गमॢ + ङसि् [षष्ठ्येकवचनस्य प्रत्ययः]
→ गमॢ + अस् [इत्संज्ञालोपः]
→ गम् उ ल् स् [**ऋत उत्** (6.1.111) इति रपरः उकारः एकादेशः]
→ गमुलः [**ससजुषो रुः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

दलकृत्यम्

  1. **उः (ऋवर्णस्य) इति किमर्थम् ? ** “दशरथस्य अपत्यम् दाशरथिः” इत्यत्र दकारोत्तस्य अकारस्य स्थाने विधीयमानः वृद्धिसंज्ञकः आकारः रपरः न भवति । प्रक्रिया इयम् —

दशरथस्य अपत्यं पुमान्
→ दशरथ + इञ् [**अत इञ्** (4.1.95) इति इञ्-प्रत्ययः]
→ दाशरथ् + इ [दकारोत्तस्य अकारस्य **तद्धितेष्वचामादेः** (7.2.117) इति वृद्धिः आकारः । थकारोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः]
→ दाशरथि
  1. अणः इति किमर्थम् ? ** “सुधातृ” शब्दात् इञ्-प्रत्यये कृते **सुधातुरकङ् च (4.1.97) इत्यनेन ऋकारस्य “अक्” इति आदेशः भवति । “अक्” इति शब्दः अण्-प्रत्याहारे नास्ति, अतः अत्र आदेशः रपरः न भवति । यद्यपि “अक्”-इत्यस्य अवयवः अकारः अण्-प्रत्याहारे विद्यते, तथापि अकारः स्वयम् आदेशरूपेण नैव विधीयते, अतः तस्य विषये रपरत्वं नैव प्रवर्तते । प्रक्रिया इयम् —

सुधातुः अपत्यम्
→ सुधातृ + इञ् [**सुधातुरकङ् च** (4.1.97) इति इञ्-प्रत्ययः]
→ सुधात् अक् + इ [**सुधातुरकङ् च** (4.1.97) इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्त्वात् **ङिच्च** (1.1.53) इति अन्त्यादेशः । ]
→ सौधातकि [**तद्धितेष्वचामादेः** (7.2.117) इति उकारस्य वृद्धिः औकारः]

अण्-प्रत्याहारः पूर्वेण णकारेण गृह्यते

प्रकृतसूत्रे प्रयुक्तः अण्-प्रत्याहारः अइउण्-**सूत्रस्य णकारेण निर्मितः अस्ति, न हि **लण्-सूत्रस्य णकारेण । यदि अयम् णकारः लण्-प्रत्याहारस्य णकारेण निर्मितः स्यात्, तर्हि तेन दीर्घ-ॠकारस्यापि ग्रहणे कृते “पितॄन्, पितॄणाम्” एतादृशेषु शब्देषु ऋकारस्य प्राप्तः दीर्घ-ॠकारादेशः अपि रपरः स्यात्, येन ‘पितॄर्न्, पितॄर्णाम्’ इति अशुद्धानि रूपाणि अभविष्यन् । अतः अण्-प्रत्याहारः अत्र पूर्वणकारेण एव गृह्यते, येन अण्-प्रत्याहारेण केवलम् अवर्ण-इवर्ण-उवर्णानाम् एव ग्रहणं भवति ।

र-प्रत्याहारेण रेफ-लकारयोः ग्रहणम्

प्रकृतसूत्रे विद्यमानः रपरः इति शब्दः रः परः यस्मात् सः इति बहुव्रीहिसमासेन निर्मितः अस्ति । अत्र विग्रहवाक्ये (समस्तपदे च) प्रयुक्तः ‘रः’ इति शब्दः र-प्रत्याहारस्य निर्देशं करोति । लण्-इत्यस्मिन् माहेश्वरसूत्रे विद्यमानः लकारोत्तरम् अकारं इत्संज्ञकं मत्त्वा; हयवरट्-सूत्रस्य रेफेण सह तस्य ग्रहणं कृत्वा ‘र् + अ = र’ इति प्रत्याहारः सिद्ध्यति । अनेन प्रत्याहारेण रेफस्य लकारस्य च ग्रहणं क्रियते ।

Sutrartha (English)

Any अ, आ, इ, ई, उ, ऊ letter appearing as an आदेश in place of a ऋकार/ऌकार is always followed by the letter र्/ल् respectively.

Vasu English Summary

When a letter of अण् प्रत्यहार comes as a substitute for ऋ it is always followed by र्।

Vasu English Translation

When a letter of अण् प्रत्यहार comes as a substitute for ऋ it is always followed by र्। This sutra consists of three words viz., उः which is the genitive singular of ॠ and means literally ‘of ॠ’ or ‘in the place of ॠ’; the second word is अण्, a pratyahara denoting अ, इ and उ long and short; the third word is रपरः which qualifies अण् and means ‘having a र after.’

This sutra is useful in fixing the proper substitutes of ॠ. Thus, there are only three guna vowels अ, ए and ओ. Of these what is the proper guna for ॠ? By the application of the rule of ‘nearness of place’ we see that अ is the nearest substitute. So that अ is the guna of ॠ; and further by this rule, this अ must have a र् after it. Thus though technically speaking अ is the guna of ॠ, the actual substitute is अर्. Thus कृ + ता = कर्त्ता; similarly हर्ता.

So also when ॠ is replaced by इ as by sutra (7.1.100), this substitute इ must be followed by a र्. As कॄ + अति = कि + र् + अति = किरति ‘he scatters;’ similarly गिरति ‘he swallows.’

So also when ॠ is replaced by उ, as by sutra (4.1.115) this उ must be followed by a र्. As द्वि + मातृ + अण् = द्वैमातुरः ‘son of two mothers’

This र् is to be added only when ॠ is replaced by अ, इ or उ (अण्) vowels, and not when it is replaced by any other letter.

Thus by (4.1.97), “the ॠ of the word सुधातृ is replaced by अक् (technically अकङ्) when the affix इञ् is added.” Thus, सुधातृ + इञ् = सुधात् + अक् + इ = सौधातकिः, ‘a descendant of Sudhatri’ Here the substitute of ॠ, that is to say, the syllable अक् is not followed by र्.

The र in the text has been taken by some to be a pratyahara formed by the letter र् and अ of लण्; and thus it includes the letters र् and ल्. In that case the sutra would mean that अण् substitutes of ॠ and लृ are always followed by र् and ल् respectively. Thus guna of ri = ar, of li = al.

Bhashya

उरण् रपरः किमिदमुरण्रपरवचनमन्यनिवृत्त्यर्थम्। उः स्थाने अणेव भवति रपरश्चेति। आहोस्विद् रपरत्वमात्रमनेन विधीयते। उः स्थाने अण् च अनण् च। अण् तु रपर इति। कश्चात्र विशेषः? ॥ उरण्रपरवचनमन्यनिवृत्यर्थमिति चेदुदात्तादिषु दोषः ॥ उरण्रपरवचनमन्यनिवृत्त्यर्थं चेदुदात्तादिषु दोषो भवति। के पुनरुदात्तादयः? उदात्तानुदात्तस्वरितानुनासिकाः। कृतिः हृतिः। कृतं हृतम्। प्रकृतं प्रहृतम्। नॄँँ पाहि। अस्तु तर्हि उः स्थाने अण् च अनण् च। अण् तु रपर इति। ॥ य उः स्थानेऽण् स रपर इति चेद् गुणवृद्ध्योरवर्णाप्रतिपत्तिः ॥ य उः स्थाने अण् स रपर इति चेद् गुणवृद्ध्योरवर्णस्याप्रतिपत्तिः। कर्ता हर्ता वार्षगण्यः। किं हि साधीयः - ऋवर्णस्यासवर्णे यदवर्णं स्यात् न पुनरेङैचौ? पूर्वस्मिन्नपि पक्षे एष दोषः। किं हि साधीयः? तत्रापि ऋवर्णस्यासवर्णे यदवर्णं स्यात् न पुनरिकारोकारौ। अथ मतमेतत्- उः स्थान अणश्चानणश्च प्रसङ्गे अणेव भवति रपरश्चेति सिद्धा पूर्वस्मिन् पक्षेऽवर्णस्य प्रतिपत्तिः। यत्तु तदुक्तमुदात्तादिषु दोष इति स इह दोषो जायते न वा जायते। जायते स दोषः। कथम्? उदात्त इत्यनेनाणोपि प्रतिनिर्दिश्यन्ते अनणोपि। यद्यपि अणोपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति। किं कारणम्? स्थानेन्तरतमो भवतीति। कुतो नु खल्वेतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थानेन्तरतम इति उरण् रपर इति च, स्थानेन्तरतम इत्यनया परिभाषया व्यवस्था भविष्यति न पुनरुरण् रपर इति। अतः किम् ? अत एष दोषो जायते उदात्तादिषु दोष इति। ये चाप्येते ऋवर्णस्य स्थाने प्रतिपदमादेशा उच्यन्ते तेषु रपरत्वं न प्राप्नोति। ऋत इद् धातोरुदोष्ठ्य पूर्वस्येति। ॥ सिद्धं तु प्रसङ्गे रपरत्वात् ॥ सिद्धमेतत्। कथम्? प्रसङ्गे रपरत्वात्। उः स्थाने अण् प्रसज्यमान एव रपरो भवति। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते? स्थान इति वर्तते। स्थानशब्दश्च प्रसङ्गवाची। यद्येवमादेशोऽविशेषितो भवति। आदेशश्च विशेषितः। कथम्? द्वितीयं स्थानग्रहणं प्रकृतमनुवर्तते। तत्रैवमभिसम्बन्धः करिष्यते। उः स्थाने अण् स्थाने इति। उः स्थाने प्रसङ्गे अण् प्रसज्यमान एव रपरो भवति। अथाण् ग्रहणं किमर्थम्? न ऊ रपरो भवतीत्येवोच्येत। ऊ रपरः इतीयत्युच्यमाने क इदानीं रपरः स्यात् ? यः स्थाने भवति। कश्च स्थाने भवति। आदेशः। ॥ आदेशो रपर इति चेद्रीरिविधिषु रपरप्रतिषेधः ॥ आदेशो रपर इति चेद्रीरिविधिषु रपरत्वस्य प्रतिषेधो वक्तव्यः। के पुना रीरिविधयः ? ॥ अकङ्लोपानङनङ्रीङ्रिङादेशाः।इ/एऊ अकङ् सौधातकिः। अकङ्। लोप पैतृष्वसेयः। लोप । आनङ् होतापोतारौ। आनङ्। अनङ्- कर्ता हर्ता। अनङ्। रीङ्- मन्त्रीयति पित्रीयति। रीङ्। रिङ् क्रियते ह्रियते। रिङ्। ॥ उदात्तादिषु च ॥ उदात्तादिषु च किम्? रपरत्वस्य प्रतिषेधो वक्तव्यः। कृतिः। हृतिः। कृतं हृतम्। प्रकृतं प्रहृतम्। नॄँ पाहि। तस्मादण्ग्रहणं कर्तव्यम्। ॥ एकादेशस्योपसङ्ख्यानं कर्तव्यम् ॥ एकादेशस्योपसङ्ख्यानं कर्तव्यम्। खर्ट्वश्यः। मार्लश्यः। किं पुनः कारणं न सिध्यति? उः स्थानेऽण् प्रसज्यमान एव रपरो भवतीत्युच्यते, न चायमुरेव स्थानेऽण् शिष्यते। किं तर्हि? उश्चान्यस्य च। ॥ अवयवग्रहणात् सिद्धम् ॥ यदत्र ऋवर्णं तदाश्रयं रपरत्वं भविष्यति। तद्यथा माषा न भोक्तव्या इत्युक्ते मिश्रा अपि न भुज्यन्ते। ॥ अवयवग्रहणात् सिद्धमिति चेदादेशे रान्तप्रतिषेधः ॥ अवयवग्रहणात् सिद्धमिति चेदादेशे रान्तस्य प्रतिषेधो वक्तव्यः। होतापोतारौ। यथैवोश्चान्यस्य च स्थानेऽण् रपरो भवतीति एवं य उः स्थानेऽण् चानण् च सोपि रपरः स्यात्। यदि पुनॠवर्णान्तस्य स्थानिनो रपरत्वमुच्येत- खर्ट्वश्यः। मार्लश्यः। नैवं शक्यम्। इह न प्रसज्येत। कर्ता हर्ता। किरति गिरति। ऋवर्णान्तस्येत्युच्यते न चैतद् ऋवर्णान्तम्। ननु चैतदपि व्यपदेशिवद्भावेन ऋवर्णान्तम्। अर्थवता व्यपदेशिवद्भावः। न चैषोऽर्थवान्। तस्मान्नैवं शक्यम्। न चेदेवमुपसङ्ख्यानं कर्तव्यम्। इह च रपरत्वस्य प्रतिषेधो वक्तव्यः। मातुः पितुरिति। उभयं न वक्तव्यम्। कथम्। यो द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभतेऽसावन्यतरतो व्यपदेशम्। तद्यथा देवदत्तस्य पुत्रः। देवदत्तायाः पुत्र इति। कथं मातुः पितुरिति ? अस्त्वत्र रपरत्वम्। का रूपसिद्धिः। रात्सस्येति सकारस्य लोपः। रेफस्य विसर्जनीयः। नैवं शक्यम्। इह हि मातुः करोति पितुः करोतीति। अप्रत्ययविसर्जनीयस्येति षत्वं प्रसज्येत। अप्रत्ययविसर्जनीयस्येत्युच्यते। प्रत्ययविसर्जनीयश्चायम्। लुप्यतेऽत्र प्रत्ययो रात्सस्येति। एवं तर्हि। ॥ भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तात् षत्वप्रतिषेधस्य ॥ यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति तज्ज्ञापयत्याचार्यो नैकादेशनिमित्तात् षत्वं भवतीति । किं पुनरयं पूर्वान्तः, आहोस्वित् परादिः, आहोस्विदभक्तः ? कथं वाऽयं पूर्वान्तः स्यात्, कथं वा परादिः, कथं वा अभक्तः ? यद्यन्त इति वर्तते ततः पूर्वान्तः। अथादिरिति वर्तते ततः परादिः। अथोभयं निवृत्तम्। ततोऽभक्तः। कश्चात्र विशेषः? ॥ अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिःशेषविसर्जनीयप्रतिषेधः ॥ ॥ प्रत्ययाव्यवस्था च ॥ यद्यभक्तः दीर्घत्वं न प्राप्नोति - गीः पूः। रेफवकारान्तस्य धातोरिति दीर्घत्वं न प्राप्नोति। किं पुनः कारणं रेफवकारभ्यां धातुर्विशेष्यते न पुनः पदं विशेष्येत - रेफवकारान्तस्य पदस्येति। नैवं शक्यम्। इहापि प्रसज्येत- अग्निर्वायुरिति। एवं तर्हि रेफवकाराभ्यां पदं विशेषयिष्यामो धातुनैकम्। रेफवकारान्तस्य पदस्येको धातोरिति। एवं प्रियं ग्रामणि कुलमस्य प्रियग्रामणिः, प्रियसेनानिः अत्रापि प्राप्नोति। तस्माद् धातुरेव विशेष्यते। धातौ च विशेष्यमाणे इह दीर्घत्वं न प्राप्नोति गीः पूः । दीर्घ। लत्व। लत्वं च न सिध्यति। निजेगिल्यते। ग्रो यङीति लत्वं न प्राप्नोति। नैष दोषः। ग्र इत्यनन्तरस्यैेैषा षष्ठी। एवमपि स्वर्जेगिल्यते इत्यत्रापि प्राप्नोति। एवं तर्हि यङा आनन्तर्यं विशेषयिष्यामः। अथवा ग्र इति पञ्चमी। लत्व। यक्स्वर। यक्स्वरश्च न सिध्यति। गीर्यते स्वयमेव पूर्यते स्वयमेव। अचः कर्तृयकीत्येष स्वरो न प्राप्नोति। रेफेण व्यवहितत्वात्। नैष दोषः। स्वरविधौ व्यञ्ञ्जनमविद्यमानवद् भवतीति नास्ति व्यवधानम्। यक्स्वर। अभ्यस्तस्वर। अभ्यस्तस्वरश्च न सिध्यति। मा हि स्म ते पिपरुः। मा हि स्म ते बिभरुः। अभ्यस्तानामादिरुदात्तो भवति अजादौ लसार्वधातुके इत्येष स्वरो न प्राप्नोति। रेफेण व्यवहितत्वात्। नैष दोषः। स्वरविधौ व्यञ्ञ्जनमविद्यमानवद् भवतीति नास्ति व्यवधानम्। अभ्यस्तस्वर। हलादिः शेष। हलादिः शेषश्च न सिध्यति। ववृते ववृधे। अभ्यासस्येति हलादिः शेषो न प्राप्नोति। हलादिः शेष। विसर्जनीय। विसर्जनीयस्य प्रतिषेधो वक्तव्यः। नार्कुटो नार्पत्यः। खरवसानयोर्विसर्जनीय इति विसर्जनीयः प्राप्नोति। विसर्जनीय। प्रत्ययाव्यवस्था च, प्रत्यये च व्यवस्था न प्रकल्पते। किरतः गिरतः। रेफोऽप्यभक्तः प्रत्ययोपि, तत्र व्यवस्था न प्रकल्पते। एवं तर्हि पूर्वान्तः करिष्यते। पूर्वान्तर्ववधारणं विसर्जनीयप्रतिषेधो यक्स्वरश्च। यदि पूर्वान्तः रोरवधारणं कर्तव्यम्। रोः सुपि रोरेव सुपि नान्यस्य। सर्पिष्षु, धनुष्षु। इह मा भूत्- गीर्षु पूर्षु। परादावपि सत्यवधारणं कर्तव्यम्। चतुर्षु इत्येवमर्थम्। विसर्जनीयप्रतिषेधः। विसर्जनीयस्य च प्रतिषेधो वक्तव्यः। नार्कुटः,नार्पत्यः खरवसानयोर्विसर्जनीयः प्राप्नोति। परादावपि विसर्जनीयस्य प्रतिषेधो वक्तव्यः। नार्कल्पिरित्येवमर्थम्। कल्पिपदसंघातभक्तोऽसौ नोत्सहतेऽवयवस्य पदान्ततां विहन्तुमिति विसर्जनीयः प्राप्नोति। यक्स्वर। यक्स्वरश्च न सिध्यति। गीर्यते स्वयमेव। स्तीर्यते स्वयमेव। अचः कर्तृयकि इत्येष स्वरो न प्राप्नोति। नैष दोषः। उपदेश इति वर्तते। अथवा पुनरस्तु परादिः। ॥ परादावकारलोपौत्त्वपुक्प्रतिषेधश्चङ्युपधाह्रस्वत्वमिटोऽव्यवस्थाऽभ्यासलोपोऽभ्यस्ततादिस्वरो दीर्घत्वं च ॥। यदि परादिः। अकारलोपः प्रतिषेध्यः। कर्ता हर्ता। अतो लोपः आर्धधातुके इत्यकारलोपः प्राप्नोति। नैष दोषः। उपदेश इति वर्तते। यद्युपदेश इति वर्तते, धिनुतः कृणुतः अत्र लोपो न प्राप्नोति। नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते। किं तर्हिं? आर्धधातुकमभिसम्बध्यते आर्धधातुकोपदेशे यदकारान्तमिति। अकारलोप। औत्त्व। औत्त्वं च प्रतिषेध्यम्। चकार, जहार। आत औ णलः इत्यौत्वं प्राप्नोति। नैष दोषः। निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भविष्यति। यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति? रेफेण व्यवहितत्वात्। औत्व। पुक्प्रतिषेध। पुक् च प्रतिषेध्यः। कारयति, हारयति। आतः पुगिति पुक् प्राप्नोति। पुक् प्रतिषेध। चङ्युपधाह्रस्व। चङ्युपधाह्रस्वत्वं च न सिध्यति। अचीकरत्। अजीहरत्। णौ चङ्युपधाया ह्रस्व इति ह्रस्वत्वं न प्राप्नोति। इटोऽव्यवस्था। इटश्च व्यवस्था न प्रकल्पते। आस्तरिता। निपरिता। इडपि परादिः। रेफोऽपि। तत्र व्यवस्था न प्रकल्पते। अभ्यास लोपः। अभ्यासलोपश्च वक्तव्यः। ववृते ववृधे। अभ्यासस्य हलादिः शेषो न प्राप्नोति। अभ्यासलोप। अभ्यस्तस्वर। अभ्यस्तस्वरश्च न सिध्यति। मा हि स्म ते पिपरुः। मा हि स्म ते बिभरुः । अभ्यस्तानामादिरुदात्तो भवति अजादौ लसार्वधातुके इत्येष स्वरो न प्राप्नोति। अभ्यस्तस्वर। तादिस्वर। तादिस्वरश्च न सिध्यति। प्रकर्ता, प्रकर्तुम्। तादौ च निति कृत्यतौ इत्येष स्वरो न प्राप्नोति। नैष दोषः। उक्तमेतत्- कृदुपदेशे वा ताद्यर्थमिडर्थमिति। तादिस्वर। दीर्घः। दीर्घत्वं च न सिध्यति। गीः पूः। रेफवकारान्तस्य धातोरिति दीर्घत्वं न प्राप्नोति। दीर्घः ।

Kashika

उः स्थानेऽण् प्रसज्यमान एव रपरो वेदितव्यः। कर्ता। हर्ता। किरति। गिरति। द्वैमातुरः। त्रैमातुरः। उरिति किम्? खेयम्। गेयम्। अण्ग्रहणं किम्? सुधातुरकङ् च (४.१.९७) — सौधातकिः॥

Siddhanta Kaumudi

ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् द्वे (SK51) इति पक्षे द्वित्वम् ॥

Laghu Siddhanta Kaumudi

ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

Laghu Shabdendushekhar

उरण् । “उ: स्थाने” इति षष्ठी स्थानेयोगा (१.१.४९) इति परिभाषया लब्धम्, उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (८.२.४) इतिवत् । स्थानेऽन्तरतमः (१.१.५०) इत्यतः स्थानेग्रहणमनुर्त्तते, तस्य लक्षणया प्रसङ्गावस्थायामित्यर्थस्तदाह - रपरः सन्नेवेति । रपर इत्यवयववाचिना परशब्देन षष्ठ्यर्थे बहुव्रीहिः, तेनास्यावयवत्वात् “यदागमा” (** यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ** (PB११)) इति न्यायेन विशिष्टस्य गुणवृद्धित्वेन ऋकारस्य गुणवृद्धी अरारावेव इति नियमोपपत्तिः । अत एव रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इति सूत्रे थलि च सेटि (६.४.१२१) इति सूत्रे च भाष्ये गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसञ्ज्ञकोऽभिनिर्वर्त्तते इत्युक्तम् । उ: स्थानेऽण् प्रसज्यमान एव रपरो भवति, पूर्वभक्तश्च रेफ इत्यर्थ इति कैयटः । अवयवत्वं वाचनिकमेव तत्सादृश्यबोधनपर्यवसायि । अन्यथा वर्णस्य वर्णान्तरावयवत्वं हलन्ताच्च (१.२.१०) इति सूत्रभाष्योक्तरीत्याऽसङ्गतं स्यात् । पञ्चम्यर्थे बहुव्रीहिणाऽनवयवत्वे तु गुणवृद्धिशब्देनाकारादेरेव रेफपरस्यैतदेकवाक्यतया विधानं स्यात् । गुणत्वादिकन्त्वकारादिनिष्ठमेव स्यात् इत्युक्तनियमानुपपत्तिः । अत एव “वव्रे” इत्यादौ हलादिः शेषः (७.४.६०) सिद्धिः अभ्यासावयवस्यैवानादेस्तेन निवृत्तेः । एतेनाणमनूद्य रपरत्वं विधीयते इति परास्तम् । उक्तनियमानुपपत्तेः । अत्र पक्षे क्व रपरत्वं क्व लपरत्वमिति व्यवस्थाऽनुपपत्तिस्तु न । रेफवत्स्थानिकस्य रेफपरत्वं, लकारवत्स्थानिकस्य लपरत्वमिति व्यवस्थासम्भवात् । तत्रान्तरतम्यादिति । स्थानत इति भावः । रेफादिद्वाराऽऽदेशस्यापि मूर्धादिस्थानत्वात् । तत्र तत्राऽऽदेशानेव रलपरांश्चोच्चार्येदं सूत्रं न कार्यमिति तु न वाच्यम् । आप्ज्ञप्यृधामीत् (७.४.५५), भृञामित् (७.४.७६) इत्यादौ दोषापत्तेः । अत्राण् पूर्वेणैव “प्रशास्तॄणाम्” इति निर्देशात् । वस्तुतो रप्रत्याहाराभावेन रपर इत्यस्य स्थान र्लपर इति पठनीयमिति लपरत्वं वक्ष्यामि इति तुल्यास्यसूत्रभाष्याल्लभ्यते ॥

Balamanorama

उरण् रपरः - ऌकारेण तु स्थानिना न कस्यापि स्थानसाम्यं, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते — उरण्रपरः । इत्युक्तमिति । ‘अणुदित्सूत्रे’ इति शेषः । उरितिऋ॑इत्यस्य षष्ठएकवचनम् । ‘षष्ठी स्थाने’ इति परिभाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततो ।ञनुवर्तते । तदाह — तत्स्थाने योऽणिति । ‘स्थानेऽन्तरतम’ इत्यतो ।ञपि स्थानेग्रहणमनुवर्तते । स्थानं प्रसह्ग इत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षितः । तदाह — रपरः सन्नेव प्रवर्तत इति । अत्र ‘र’ इति प्रत्याहारो विवक्षितः । ततश्च रेफशिरस्को लकारशिरस्कश्च प्रवर्तत इति लभ्यते । तयोव्र्यवस्थां दर्शयति — तत्रेति । रेफलकारशिरस्कयोर्मध्ये कृष्णर्दिंधरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यादिति । त्रिषु गुणेषु प्रसज्यमानेषु अकारस्याऽणो रेफलकारशिरस्कतया तस्य अर् अलित्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारेण रेफांशे ऋकारेण, लकारांशे ऌकारेण च स्थानसाम्यादकारञकारयोः स्याने अरेव भवति । अकारऌकारयोः स्थानेऽलेव भवति । एकारोकारौ तु गुणौ न भवत एव, तयोरृकारेण ऌकारेण च स्थानसाम्या.ञभावादित्यर्थः । नच एकार ओकारश्च कथं रपरो न स्यातामिति वाच्यं, पूर्वेणैव णकारेण ह्यत्राण् गृह्रते, प्रशास्तृणामित्यादिनिर्देशादित्यलम् ।पक्षे द्वित्वमिति । ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम् । तत्र अरादेशे रेफात्परस्य धकारस्याऽचो रहाभ्यामिति कदाचिद्द्वित्वमित्यर्थः ।

Tattvabodhini

उरण् रपरः - उरण् रपरः । अनुवादेषष्ठी स्थानेयोगे॑ति परिभाषया अनुपस्थितावपि स्थानेग्रहणं ततोऽनुवर्तत इत्याशयेनाह-तत्स्थानेयोऽणिति ।स्थानेऽन्तरतमः॑ इत्यतोऽपिस्थाने॑ग्रहणमिहानुवर्तते । तेन प्रसङ्गावस्तायामेवाऽण् रपरो भवति । तदेतद्व्याचष्टे-रपरः सन्ने प्रवर्तत इति । उः किम् ,ईद्यति॑-गेयम्, देयम् । अण् किम् , रीङादीनां रपरत्वं मा भूत् ।रीङृतः॑-मात्रीयति । रिङ्-॒क्रियते॑ । आन्तरतम्यादिति । रेफशिरस्कस्यअ॑रित्यस्य रेफद्वारेण ॠकारेण स्थानसाम्यादित्यर्थः । पक्षे द्वित्वमिति । ॠधेर्धस्येति भावः ।

Padamanjari

अत्र चत्वारः पक्षाः सम्भवन्ति - ‘उः स्थाने रपरोऽण् भवतीत्यनेन रपरत्वविशिष्टोऽण् भाव्यते’ इति प्रथमः पक्षः । ‘उः स्थानेऽणेव भवति,स च रपर इति अणनण्प्रसङ्गेऽण् नियम्यते, तस्य च रपत्वं विधीयते’ इति द्वितीयः पक्षः । ‘य उः स्थानेऽण्विधीयते इत्यनूद्य तस्य प्रसङ्गावस्थायामेव रपत्वमात्रं विधीयते’ इति चतुर्थः पक्षः । तत्र प्रथमपक्षे - नाप्राप्तेषूदातादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्याभावात् । एवं हि तदा वचनव्यक्तिः, षष्ठीनिर्द्दिष्टमात्रस्याभावान्नादेशोऽन्तरतमो भवति, ऋवर्णस्य त्वण् रपर इति, ततश्च कृतिरित्यत्र ‘ञ्नित्यादिर्नित्यम्’ इति प्राप्तमृकारं बाधित्वाण् रपरः स्यात्; प्रकृतमिति शेषनिघातः स्वरितश्च, नृÄः पाहीति पूर्वसवर्णदीर्घत्वमनुनासिकं च बाधित्वाण् रपरः स्यात्, कर्ता, कारक इति च गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावादिकारोकारावपि रपरौ स्याताम्; ये चामी प्रातिपदमुः स्थान आदेशाः ‘आञ्त इद्धातोः’ इत्यादयः-तेषु रपरत्वं न स्यात् । द्वितीये तु कामं गुणवृद्ध्योर्दोषो न स्यात् । तथा हि - ‘सर्वेषु गुणवृद्धिसंज्ञकेषु प्राप्तेषु अणेव भवति’ इति नियमादकाराकारावेव गुणवृद्धी रपरे भवत इति सिद्धं कर्तेत्यादि, शास्त्रान्तरेण योऽण् प्रसक्तः स एव नियमादपि भवतीतीकारोकारावपि न प्राप्नुतः । ननु ‘अनुयमप्रसङ्गे नियमः’ इति वृद्धावेव स्याद्, अस्ति तत्रानियमप्रसङ्ग इति कृत्वा; गुणस्तु कर्तेत्यादौ मात्रिकस्य मात्रिकोऽकार एव प्राप्नोति;तरितेत्यादौ द्विमात्रस्य द्विमात्र एव भवेद्, अणेवेति त्र नियमाभावात् तरितेत्यादावेणेóव गुणः स्यात्; कर्तेत्यादौ तु यद्यप्यकार एव गुणो लभ्यते, तस्य रपत्वं तु न लभ्यते, यो ह्यणनण्प्रसङ्गेऽणेवेति भवतीति नियमतो योऽण् तस्यैव रपरत्वं विहितम्; अतो निमयमपक्षेऽपि गुणविषये दोषस्तदवस्थ एव ? उच्यते, द्वे एते परिभाषे आदेशनियमार्थे - श्थानेऽन्तरमः’ इति च ‘उरण् रपरः’ इति च । तत्र पूर्वस्या अवकाशः ‘चजोः कुघिण्ण्यतोः’ इत्यादि, अस्या अवकाशो यत्रान्तरतम्ये विशेषो नास्ति, यथा तारक इत्यादौ, वृद्धीनां कर्ता तारितेत्यादौ । गुणो भवतीत्युक्ते सर्वेषु गुणेषु प्राप्तेषु श्थानेऽन्तरतमः’ इति नियमोऽस्तु, ‘उरण् रपरः’ इति वा परत्वात् ‘उरण्रपरः’ इत्ययमेव भविष्यति । अतः सुष्ठूअक्तम्-ङियमपक्षे गुणविषये न कश्चिद्दोषः’ इति । किन्तूदातादिषु दोषस्तदवस्थ एव स्यात्,तथा हि-कृतिरित्यादावुदातो भवतीत्युक्ते सर्वेषदातसंज्ञकेषु प्राप्तेषु परत्वादनेनाण एवोदाताः स्युः ते च रपराः । एवमनुदातादिष्वपि द्रष्टव्यम् । ये च प्रतिपदामादेशाः ‘ऋत इद्धातोः’ इत्येवमादयः, तेष्वनियमप्रसङ्गाभावादस्ति नियमे रपत्वं न स्यात्, तदाह - ‘उरण् रपरवचनमन्यनिवृत्यर्थं चेदुदातादिषु दोषः’ इति । तृतीय पक्षे उदातादिषु न दोषः; ञ्नित्यादिभिरन्तरतमस्यैव विधानात् । किरतीत्यादौ च न दौषः । गुणवृद्ध्योरुक्तदोषः स्यादेव, तथा हि - विहितस्य पश्चादनेन रपरत्वं विधीयते, विधानकाले त्वान्तर्यतो मात्रिकस्य; मात्रिके गुणे रपरे कर्तेत्यादि यद्यपि सिध्यति, तरितेत्यादौ त्वेणेóव गुणः स्याद्; वृद्धिषु च विधानसमये कस्याश्चिदान्तर्याभावात् तिसृषु प्रवृतास्वाकारस्याण्त्वात् रपरत्वे कारकस्तारक इति यद्यपि सिद्धति, वायकस्तावक इत्यद्यनिष्टमनुसज्यत एव । अत एवमेतेषु पक्षेषु दोषसद्भावाच्चतुर्थं पक्षमाश्रित्याह - उः स्थानेऽण्प्रसज्यमान एवेत्यादि । एतच्च स्थानद्वयग्रहणानुवृतेर्लभ्यते । तत्रैकमुः स्थाने योऽण् विधीयत इत्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु सोऽण् प्रसङ्ग एव प्रसज्यमानावस्थायामेव रपरो भवतीति रपरत्वस्य कालविधानार्थम् । श्थानेऽन्तरतमः’ इत्यत्र हि यद्यपि ताल्वादिवचनः स्थानशब्दः, तथापि न तेनात्र कश्चिदर्थोऽस्तीति प्रसङ्गवचन एवेह सम्पद्यते । एवं च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो परपाः सम्पन्ना इति प्रमाणतोऽन्तरतमावेण्èóचौ बाधित्वा स्थानतोऽन्तरतम एव भविष्यतीति न कश्चिद्दोषः । न चानेकाल्त्वात्सर्वादेशप्रसङ्गः; आनुपूर्व्या सिद्धेः । यदाङ्गस्येति षष्ठी अन्त्येऽल्यनुसंहृता तदायमुः स्थाने, यदायमुः स्थाने तदा रपरः, यदा रपरस्तदानेकालिति न पुनः परावृत्य सर्वादेशो युज्यते । द्वैमातुर इति । ‘मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः’ । खेयमिति । ‘ई च खनः’ । सौधातकिरिति । शुधातुरकङ् च ‘ । अत्रायमकङदेशोऽनण्त्वाद्रपरो न भवति । अथ योऽत्राण् स परः कस्मान्न भवति ? अनादेशत्वात्, समुदायो ह्यत्रादेशः । यद्येवम्, खट्वर्श्य इत्यादावपि रपरत्वं न स्यात्, पूर्वपरयोर्हि समुदायोऽत्र स्थानी नावयव ऋकारः, उच्यते; पूर्वपरयोरिति द्विवचननिर्द्दिशातयोरेव स्थानित्वं न समुदायस्य, अनुर्देअशात् । अत एव द्वयोः स्थानिनोर्भिन्नादिषु नत्ववत् द्वावादेशौ सायाताम् इति तत्रैकग्रहणं क्रियते । तत ऋकारस्यापि स्थानित्वमस्त्येव । तदिदमुच्यते-‘यो ह्युभयोः स्थाने भवति लभते सोऽन्यतरब्यपदेशम्’ इति । अतस्तत्रापि रपरत्वं भविष्यति ॥

Nyaas

अत्र त्रयः पक्षाः सम्भवन्ति- उः स्थानेऽण् रपरत्वं चानेनोभयं विधीयते इत्येकः पक्षः। लक्षणान्तरेण विहितस्याण उः स्थाने पश्चादनेन रपरत्वमात्रं क्रियते इति द्वितीयः पक्षः। उः स्थाने लक्षणान्तरेण विधीयमानोऽण विधानकाल एव तेन लक्षणान्तरेण सह संहत्य रपरत्वविशिष्टोऽनेन भाव्यते इति तृतीयः। तत्र यद्याद्यः पक्ष आश्रीयते, ऋकारस्य स्थान उदात्तादयो न स्युः, अनेन बाधित्वात्; कृति इत्यत्र ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तो न स्यात्, प्रकृतम् इत्यत्र पूर्वपद्सयाद्युदात्तस्य गतिरनन्तरः (6.2.49) इति प्रकृतिस्वरे कृते अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनुदात्तो न स्यात्, उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति स्वरितश्च। यद्यचः स्थाने उदात्तादयो विधीयन्ते, तथापि तेषामन्योऽजवकाश इतिऋवर्णस्थाने प्रतिपदोक्तोऽणेव रपरः स्यात्। ये चाप्यन्य ऋवर्णस्थाने प्रतिपदमादेशा उच्यन्ते, ऋत इद्धातोः (7.1.100) इत्येवमादिभिर्लक्षणान्तरैस्तेषु रपरत्वं नस्यात्; ततश्च किरति इत्यादि न सिध्येत्।अथ द्वितीयः पक्ष आश्रीयते, तरतेस्तृजादौ गुणो विधीयमानः प्रमाणत आन्तरतम्याद् दीर्घस्य दीर्घ एव स्यात्, तथा च तरिता इत्यादि न सिध्येत्। किं च-ण्वुलादौ वृद्धौ विधीयमानामृकारस्य केनचिद् वृद्धिसंज्ञकेनान्तरतम्यविशेषो नास्तीति सर्वे वृद्धिसंज्ञकाः पर्यायेण प्रसज्येरन्। तथा च पक्षे नायकः, स्तावकः इत्या-द्यप्यनिष्टं रूपं स्यात्। इत्येवमाद्ययोः पक्षयोर्दोषवत्तां दृष्ट्वा, तृतीयं पक्षमाश्रित्याह- उः स्थानेऽण् प्रसज्यमान एव`इत्यादि। एतेन लक्षणान्तरेण विधीयमान-स्याणो विधानकाल एव तेन सह संहत्य रपरत्वविशिष्टस् विधावियं परिभाषा व्याप्रियत इति दर्शयति। एतच्च स्थानद्वयग्रहणस्यात्रानुवृत्तेर्लभ्यन्ते। पूर्वकेण हि स्थानग्रह-णेनेहानुवृत्तौ `उः स्थाने इत्यतदर्थरूपं लभ्यते। द्वितीयेन तु प्रसज्यमानइत्येतत्। तथा हि- स्थानग्रहणं सप्तम्यन्तं प्रकृतमनुवर्तमाने तत्सामर्थ्यात् प्रथमान्तं सम्पद्यते, स्थानशपब्दश्चायं प्रसङ्गवाची। ततश्च यदा स्थानेनाण् विशिष्यते-अण् स्थानम् इति, तदा अण् प्रसज्यमान एव इत्येषोऽर्थो जायते।प्रसज्यमानः इति। प्रसङ्गेनाभिसम्बध्यमान इति यावत्। एव इति। अवधारणं पुनरत्र व्यवच्छेद फलत्वेन सर्ववाक्यानां सावधारणत्वाल्लभ्यते। कथं पुनरण् स्थानं भवति? नैव हि स स्थानं भवति, तद्योगात्तु तत्र स्थानव्यपदेशो भवति, यथा-यष्टीः प्रवेशय इत यष्टियोगात् पुरुषाणां व्यपदेश-। ननु च स्थानेऽन्तरतमः लभ्यते? नैष दोषः, स्वरितत्वचिह्नाद्धि यो यत्रोपष्ठते, स तत्र सामर्थ्यात् तत्कार्ययोग्यस्यै-वार्थस्याभिधाता सन्नुपतिष्ठते। तेन यद्यपि पूर्वसूत्रे स्थानशब्दस्तवादिस्थानवचनः, तथापीहोपतिष्ठमानः प्रसङ्गवचन एवोपतिष्ठते। तेदवं यस्मान्नेदं स्वतन्त्रमणो रपरत्वविशिष्टस्य च विधायकम्। तस्मादाद्ये पक्षे यो दोषः स इह न भवति ततश्च लक्षणान्तरेण विहितस्याणः पश्चादनेन रपरत्वं न विधीयते, किं तर्हि? प्रसज्यमान एवाण् लक्षणान्तरेण तत्सहायं प्रतिपद्य रपरो भाव्यते। तेन द्वितीये पक्षे यो दोषः, सोऽप्यस्मिन्न भवत्येव। प्रसज्यमानस्यैव हि रपरत्वविधौ यथा ऋवर्णो रश्रुतिमान्, एवमादेशोऽपिरश्रुतिमानेव भवति। ततश्चान्तरतम्यादृकारस्य रश्रुतिमतस्तादृश एव रश्रुतिमानेदेशो भवति। अन्ये गुणवृद्धिसंज्ञका व्यावर्तिता भवन्ति। यदि तर्हि प्रसज्यमान एव रपरोभवति, अनेकल्त्वात् सर्वादेशः प्रसज्येत, नैष दोषः; यदयं तरति इति निर्देशं करोति; ततो ज्ञाप्यते-सर्वादेशो न भवतीति।कर्ता, हर्ता`इति। `डुकुञ् करणे`(धातुपाठः-1473) `ह्मञ् हरणे (धातुपाठः-899)आभ्यां ण्वुल्तृचौ (3.1.133) इति तृच्, सार्वधातुकार्धकयोः (7.3.84) इति गुणः, अचो रहाभ्यां द्वे (8.4.46) इति द्वित्वम्। किरति, गिरति इति। कृ विक्षेपे (धातुपाठः-1410) गृ निगरणे (धातुपाठः-1411)- आभ्यां लट्, शेषात् कर्तरि परस्मैपदम् (1.3.78) इति तिप्, तुदादित्वाच्छः, ऋत इद् धातोः (7.1.100) इतीत्त्वम्। द्वैमातुरः, त्रैमातुरः इति। द्वयोर्मात्रोरपत्यम्, तिसृणां मातृणामपत्यमिति मातुरुत् संख्यासम्भद्रपूर्वायाः (4.1.115) इत्यण्, उकारश्चान्तादेशः। तद्धितेष्वचामादेः (7.2.117) इति वृद्धिः। खेयम् इति। ई च खनः (3.1.111) इति क्यप्, इकारश्चान्तादेशः, आद्गुणः (6.1.87) । सौधातकिः इति। सुधातुरकङ च (4.1.97) इतीञ्। तत्संयोगेनाकङादेशः क्रियमाणो रपरो न भवति, अनण्त्वात्। अथ योऽत्राण्, स रपरः कस्मान्न भवति? अनादेश्त्वात्। समुदायो ह्यत्रादेशो न तदवयवः। नैष दोषः; यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते सोऽन्यतरव्यपदेशम्, यथा- देवदत्तस्य पुत्रो देवदत्तायाः पुत्रः` इति॥

Praudhamanorama

आन्तरतम्यादिति। रेफशिरस्कस्यार् इत्यस्य रेफद्वारा ऋकारेण स्थानसाम्यादित्यर्थः। पक्षे द्वित्वमिति। ऋधेर्धस्येति भावः॥

Prakriyasarvasvam

ऋवर्णस्यादेशोऽण् रप्रत्याहारपरः स्यात् । ऋवर्णेन सावर्ण्याद् ऌवर्णस्यापि ग्रहः । तेन तयोः अर् अल् इति गुणः । कृष्णर्द्धिः१ । ‘अचो रहाभ्यां द्वे’ (८-४-४६) इति धस्य द्वित्वम् । तवल्कारः । अत्र<!यणः परस्य मयो द्वे स्त!> (वा० ६-१-४४) इति द्वित्वम् ।

Sarala

उः - षष्ठ्यन्तम्, अण् - प्रथमान्तं, रपरः - प्रथमान्तम् । त्रिंशत इति । तेन ऋपदेन ऋकारलृकारयोरुभयोर्ग्रहणं बोध्यम् । तत्स्थाने - ऋलृवर्णयोः स्थाने । रपर इति । ऋकारस्थाने रपरः, लृकारस्थाने लपर इत्यर्थः । “कृष्ण-ऋद्धिः” इत्यवस्थायाम् - आद्गुणः (६.१.८७) इत्यनेन आकार - ऋकारयोः कण्ठमूर्द्धस्थानिकयोः स्थाने उरण् रपरः (१.१.५१) इति सूत्रसहकारेण कण्ठमूर्धस्थानिके गुणे अरादेशे जलतुम्विकान्यायेन रेफस्योद्ध्रवगमने च “कृष्णर्द्धिः” इति सिद्धम् । कृष्णस्य ऋद्धिः - कृष्णर्द्धिः = भगवतः कृष्णस्य समृद्धिः । “तव-लृकार” इत्यवस्थायाम् - आद्गुणः (६.१.८७) इत्यनेन पूर्वपरयोः कण्ठदन्तस्थानिकयोः अकारलृकारयोः स्थाने उरण् रपरः (१.१.५१) इति सूत्रसहकारेण कण्ठदन्तस्थानिके अलादेशे कृते “तवल्कार” इति सिद्धम् । तव लृकारो वर्ण इत्यर्थः ॥

Sudha

उरणिति । ** उः इति ‘ऋ’ इत्यस्य षष्ठ्येकवचनम् । **त्रिंशतः इति । अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) इत्यनेनेति भावः । तत्स्थाने इति । ** **स्थानेऽन्तरतमः (1.1.50) इत्यतः स्थानग्रहणमनुवर्तते । <ऽविधौ परिभाषोपतिष्ठते नानुवादेऽ> इति परिभाषया उरण् रपरः (1.1.51) इत्यत्र षष्ठी स्थानेयोगा (1.1.49) इति परिभाषा नोपतिष्ठते इति भावः । रपरः सन्नेवेति । अत्र ‘र’ इति प्रत्याहारो ग्राह्यः । तेन रेफशिरस्कः लकारशिरस्कः च प्रवर्तते । कृष्णर्द्धिरिति । ** “कृष्ण-ऋद्धिः” इति स्थिते अत्र **आद्गुणः (6.1.87) इति सूत्रेण कृष्ण इत्यस्य णकारोत्तवर्तिः अकारः तस्मात् अचि परे (नाम ऋकारे परे) पूर्वपरयोः (अकार-ऋकारयोः) स्थाने गुणे प्राप्ते, गुणकसंज्ञकाश्च अदेङ्गुणः (1.1.2) इति सूत्रेण अ, ए, ओ इति, एषां त्रयाणां मध्ये कः कर्तव्यः ? एकारस्य तु कण्ठतालुस्थानम्, ओकारस्य कण्ठोष्ठस्थानम् एतौ ए ओ इति न भवतः, आन्तरतम्याभावात्, किन्तु परिशेषात् अ एव भवति, स च उरण् रपरः (1.1.51) इति सूत्रेण रपरः (रेफशिरस्कः) सन् भवति । तेन “कृष्णर्द्धिः” इति रूपम् । तवल्कार इति । “तव-ऌकारः” इति स्थिते अत्र आद्गुणः (6.1.87) इति सूत्रेण अत्र वकारोत्तवर्तिः अकारः तस्य ऌकारस्य च उभयोः स्थाने अ-रूपगुणे उरण् रपरः (1.1.51) इति सूत्रेण लपरे च कृते “तवल्कारः” इति रूपम्भवति ॥

Vartika

लपर इति वक्तव्यम् ।