11045: इग्यणः सम्प्रसारणम्¶
Padacheda: इक् | S | 1 | 1 |
यणः | S | 6 | 1 |
सम्प्रसारणम् | S | 1 | 1 |
Sutrartha¶
यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः सम्प्रसारणम् नाम्ना ज्ञायते ।
<pt>यण् = य्, व्, र्, ल् । इक् = इ, उ, ऋ, ऌ । </pt> व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति सम्प्रसारणम् इति संज्ञा । यण्-वर्णस्य स्थाने आदेशरूपेण विधीयमानः इक्-वर्णः अनेन सूत्रेण सम्प्रसारणसंज्ञां प्राप्नोति । अपि च, यण्-वर्णस्य इक्-वर्णे जायमानम् इदं परिवर्तनम् अपि सम्प्रसारणम् इति नाम्ना एव ज्ञायते । क्रमेण उदाहरणानि एतानि — कानिचन उदाहरणानि एतानि — 1. यकारस्य सम्प्रसारणम् इकारः ** — व्यच्-धातोः क्त-प्रत्यये परे **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च (6.1.16) इति सूत्रेण यकारस्य सम्प्रसारणे कृते अन्तिमम् रूपम् सिद्ध्यति —
व्यच् (व्याजीकरणे, तुदादिः, (6.13))
→ व्यच् + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
→ व्यच् + त [इत्संज्ञालोपः]
→ व्यच् + इट् + त [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः]
→ व् इअ च् + इ + त [**ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च** (6.1.16) इति यकारस्य सम्प्रसारणम् इकारः । अत्र केवलम् 'य्' इत्यस्य स्थाने एव इकारः विधीयते (न हि 'य' इति अक्षरस्य स्थाने), अतः यकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ]
→ व् इ च् + इ + त [**सम्प्रसारणाच्च** (6.1.108) इति इकार-अकारयोः पूर्वरूप-एकादेशः इकारः ।]
→ विचित ।
2. वकारस्य सम्प्रसारणम् उकारः ** — वच्-धातोः क्त-प्रत्यये परे **वचिस्वपियजादीनां किति (6.1.15) इति सूत्रेण वकारस्य सम्प्रसारणे कृते उकारादेशः जायते —
वचँ (परिभाषणे, अदादिः, (2.58))
→ वच् + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
→ वच् + त [इत्संज्ञालोपः]
→ उअच् + त [**वचिस्वपियजादीनां किति** (6.1.15) इति वकारस्य सम्प्रसारणम् उकारः । अत्र केवलम् 'व्' इत्यस्य स्थाने एव उकारः विधीयते (न हि 'व' इति अक्षरस्य स्थाने), अतः वकारोत्तरः अकारः पृथक् रूपेण दर्शितः अस्ति । ]
→ उच् + त [**सम्प्रसारणाच्च** (6.1.108) इति उकार-अकारयोः पूर्वरूप-एकादेशः उकारः ।]
→ उक्त [**चोः कुः** (8.2.30) इति कुत्वम्]
3. रेफस्य सम्प्रसारणम् ऋकारः — त्रि-शब्दात् पूरणार्थे त्रेः सम्प्रसारणं च (5.2.55) इति सूत्रेण तीय-इति प्रत्ययः तथा च सम्प्रसारणम् अपि भवति, येन ‘तृतीय’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
त्रयाणां पूरणम्
→ त्रि + तीय [**त्रेः सम्प्रसारणं च** (5.2.55) इति पूरणार्थे तीय-प्रत्ययः]
→ त् ऋ इ + तीय [**त्रेः सम्प्रसारणं च** (5.2.55) इति त्रि-शब्दस्य रेफस्य सम्प्रसारणे ऋकारः भवति । अत्र केवलम् 'र्' इत्यस्य स्थाने एव ऋकारः विधीयते (न हि 'रि' इति अक्षरस्य स्थाने), अतः रेफोत्तरः इकारः पृथक् रूपेण दर्शितः अस्ति । ]
→ त् ऋ + तीय [**सम्प्रसारणाच्च** (6.1.108) इति ऋकार-इकारयोः पूर्वरूप-एकादेशः ऋकारः ।]
→ तृतीय
ऌकारस्य सम्प्रसारणस्य उदाहरणानि न लभ्यन्ते ।
सवर्णग्रहणम्
प्रकृतसूत्रे “इक्” इति शब्दः विधीयमानः अस्ति, अतः “इक्”-इत्यनेन सवर्णग्रहणं न भवति । परन्तु “यण्”-इति शब्दः विधीयमानः नास्ति, अतः यण्-प्रत्याहारेण सवर्णग्रहणम् अवश्यं भवति । इत्युक्ते -
यकारस्य तथा यँकारस्य - उभयोः स्थाने सम्प्रसारणेन इकारः विधीयते ।
वकारस्य तथा वँकारस्य - उभयोः स्थाने सम्प्रसारणेन उकारः विधीयते ।
रेफस्य कोऽपि सवर्णः नास्ति, अतः केवलं रेफस्य स्थाने अनेन सूत्रेण ऋकारः विधीयते ।
ऌकारस्य तथा ऌँकारस्य - उभयोः स्थाने सम्प्रसारेण लकारः विधीयते ।
<note>**सम्प्रसारणम् इति यणादेशस्य विपरीतप्रक्रिया** । यणादेशे इक्-वर्णस्य स्थाने यण्-वर्णः आदेशरूपेण विधीयते । तद्विवरीतम् कार्यम् सम्प्रसारणे भवति ।</note>
संप्रसारणसंज्ञायाः सूत्रेषु प्रयोगः
अष्टाध्याय्यां सम्प्रसारणसंज्ञा साक्षात् नवसु सूत्रेषु प्रयुक्ता अस्ति ।
ह्वः सम्प्रसारणं च न्यभ्युपविषु (3.3.72)
त्रेः सम्प्रसारणं च (5.2.55)
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (6.1.13)
ह्वः सम्प्रसारणम् (6.1.32)
न सम्प्रसारणे सम्प्रसारणम् (6.1.37)
सम्प्रसारणाच्च (6.1.108)
सम्प्रसारणस्य (6.3.139)
वसोः सम्प्रसारणम् (6.4.131)
द्युतिस्वाप्योः सम्प्रसारणम् (7.4.67)
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
Sutrartha (English)¶
An ‘इक्’ letter that comes as a replacement for a ‘यण्’ letter is known as सम्प्रसारण.
Vasu English Summary¶
The इक् vowels which replace the semi-vowels यण् are called सम्प्रसारण।
Vasu English Translation¶
The इक् vowels which replace the semi-vowels यण् are called सम्प्रसारण। This defines the word samprasarana. It is the name given to the change of semi-vowels into vowels. The pratyahara ik includes the four simple vowels ई, उ, ऋ and लृ, and their corresponding semi-vowels are य्, व्, र्, and ल् included in the pratyahara yan. The word samprasarana is properly the name of the vowel which has replaced the semi-vowel. Thus the past participle of स्वप् ‘to sleep,’ is formed by adding the nishtha affix क्त (see sutra (1.1.26)). So that we have स्वप् + त. But there is a rule (6.1.15) by which there is samprasarana of the व of स्वप् before the कित् affixes, and we have the form सुप्तः ‘slept.’ Similarly from वद् - उदितः, यज् - इष्टम्, व्यध् - विद्धः, ग्रह् — गृहीतम् — प्रछ्- पृष्टम्. The term samprasarana is also employed to designate the whole process of the change of the semi-vowels into vowels as in (6.1.13); (6.4.131).
Bhashya¶
इग्यणः सम्प्रसारणम् किमियं वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते इग्यण इत्येतद् वाक्यं सम्प्रसारणसञ्ञ्ज्ञं भवतीति। आहोस्विद् वर्णस्य, इग् यो यणः स्थाने वर्णः स सम्प्रसारणसंज्ञो भवतीति। कश्चात्र विशेषः? ॥ सम्प्रसारणसञ्ज्ञायां वाक्यस्य सञ्ज्ञा चेद् वर्णविधिः । सम्प्रसारणसञ्ज्ञायां वाक्यस्य सञ्ज्ञा चेद् वर्णविधिर्न सिध्यति। सम्प्रसारणात् परः पूर्वो भवतीति। सम्प्रसारणस्य दीर्घो भवतीति। न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायां सत्यामेष निर्देश उपपद्यते। नाप्येतयोः कार्ययोः सम्भवोस्ति। अस्तु तर्हि वर्णस्य। ॥ वर्णस्य सञ्ज्ञा चेन्निर्वृत्तिः । वर्णस्य सञ्ज्ञा चेन्निर्वृत्तिर्न सिध्यति। ष्यङः सम्प्रसारणम् इति। स एव हि तावदिग् दुर्लभो यस्य सञ्ज्ञा क्रियते। अथापि कथं चिल्लभ्येत। केनासौ यणः स्थाने स्यात्। अनेन चैव ह्यसौ व्यवस्थाप्यते। तदितरेतरश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। ॥ विभक्तिविशेषणिर्देशस्तु ज्ञापक उभयसञ्ज्ञात्वस्य । यदयं विभक्तिविशेषैर्निर्देशं करोति - सम्प्रसारणात् परः पूर्वो भवति, सम्प्रसारणस्य दीर्घो भवति, ष्यङः सम्प्रसारणं भवतीति। तेन ज्ञायते उभयोः सञ्ज्ञा भवतीति। यत्तावदाह सम्प्रसारणात् परः पूर्वो भवति, सम्प्रसारणस्य दीर्घो भवतीति तेन ज्ञायते वर्णस्य भवतीति। यदप्याह- ष्यङः सम्प्रसारणमिति तेन ज्ञायते वाक्यस्यापि सञ्ज्ञा भवतीति। अथवा पुनरस्तु वाक्यस्यैव। ननु चोक्तं सम्प्रसारणसञ्ज्ञायां वाक्यस्य सञ्ज्ञा चेद् वर्णविधिर्न सिध्यतीति। नैष दोषः। यथा काकाज्जातः काकः। श्येनाज्जातः श्येनः। एवं सम्प्रसारणाज्जातं सम्प्रसारणम्। तस्मात्परः पूर्वो भवति, तस्य दीर्घो भवतीति। अथवा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्ञ्जानाः। पदेषु च पदैकदेशान्। वाक्येषु तावद् वाक्यैकदेशान्- प्रविश पिण्डीम्। प्रविश तर्पणम् इति। पदेषु पदैकदेशान्- देवदत्तो दत्तः। सत्यभामा भामेति। एवमिहापि - सम्प्रसारणनिर्वृत्तात्, सम्प्रसारणनिर्वृत्तस्य एतस्य वाक्यस्यार्थे सम्प्रसारणात् सम्प्रसारणस्येत्येष वाक्यैकदेशः प्रयुज्यते। तेन निर्वृत्तस्य विधिं विज्ञास्यामः। सम्प्रसारणनिर्वृत्तात्, सम्प्रसारणनिर्वृत्तस्येति। अथवा - आहायं सम्प्रसारणात् परः पूर्वो भवति। सम्प्रसारणस्य दीर्घो भवतीति। न च वाक्यस्य सम्प्रसारणसञ्ज्ञायां सत्यामेष निर्देश उपपद्यते। नाप्येतयोः कार्ययोः सम्भवोऽस्तीति तत्र वचनाद् भविष्यति। अथवा पुनरस्तु वर्णस्य। ननु चोक्तम् - वर्णसञ्ज्ञा चेन्निर्वृत्तिरिति। नैष दोषः। इतरेतराश्रयमात्रमेतच्चोदितम्। सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि सिद्धं तु नित्यशब्दत्वादिति। नेदं तुल्यमन्यैरितरेतराश्रयैः। न हि तत्र किंचिदुच्यते अस्य स्थाने ये आकारैकारौकारा भाव्यन्ते ते वृद्धिसञ्ज्ञा भवन्तीति। इह हि पुनरुच्यते इग् यो यणः स्थाने वर्णः स सम्प्रसारणसंज्ञो भवतीति। एवं तर्हि भाविनीयं सञ्ज्ञा विज्ञास्यते। तद्यथा कश्चित् कंचित् तन्तुवायमाह अस्य सूत्रस्य शाटकं वयेति। स पश्यति यदि शाटको, न वातव्यः। अथ वातव्यो न शाटकः। शाटको वातव्यश्चेति विप्रतिषिद्धम्। भाविनी खल्वस्य सञ्ज्ञाऽभिप्रेता स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद् भवतीति। एवमिहापि स यणः स्थाने भवति यस्याभिनिर्वृत्तस्य सम्प्रसारणमित्येषा सञ्ज्ञा भविष्यति। अथवा इजादियजादिप्रवृत्तिश्चैव हि लोके लक्ष्यते। यजाद्युपदेशात्तु इजादिनिवृत्तिः प्रसक्ता। प्रयुञ्ञ्जते च पुनर्लोका इष्टमुप्तम् इति। ते मन्यामहे अस्य यणः स्थाने इममिकं प्रयुञ्ञ्जते इति। तत्र तस्यासाध्वभिमतस्य शास्त्रेण साधुत्वमन्वाख्यायते - किति साधुर्भवति, ङिति साधुर्भवतीति ॥45 ॥
Kashika¶
इग् यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणमित्येषा संज्ञा भवति। यज् — इष्टम्। वप् — उप्तम्। ग्रह — गृहीतम्। केचिदुभयथा सूत्रमिदं व्याचक्षते — वाक्यार्थः संज्ञी, वर्णश्चेति। इग्यण इति यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स संप्रसारणसंज्ञो भवति, यण्स्थानिको य इग्वर्णः स संप्रसारणसंज्ञो भवतीति। तत्र विधौ वाक्यार्थ उपतिष्ठते। ष्यङः संप्रसारणम् (६.१.१३),**वसोःसंप्रसारणम्** (६.४.१३१) इति। अनुवादे वर्णः, संप्रसारणाच्च**(६.१.१०८) इति। संख्यातानुदेशादिह न भवति — अदुहितरामिति। संप्रसारणप्रदेशाः — **वसोः संप्रसारणम् (६.४.१३१) इत्येवमादयः॥
Siddhanta Kaumudi¶
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi¶
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥
Balamanorama¶
इग्यणः सम्प्रसारणम् - विआवागम्, विआवाहौ इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादावचि संप्रसारणकार्यं वक्ष्यन् संप्रसरणसंज्ञा दर्शयति — इग्यणः यणः स्थाने इति । व्याख्यानात्स्थानार्थलाभः ।षष्ठी स्थानेयोगे॑ति तु नेह भवति, अनुवादे परिभाषामनुपस्थितेः । षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसंभवात् ‘षष्ठीस्थानेयोगा’ इत्येत॒न्निर्दिश्यमानस्यादेशा भवन्ती॑त्येतदर्थमिति भाष्ये सिद्धान्तितत्वाच्च । संप्रसारणसंज्ञ इति । ततश्च ‘वसोः संप्रसारणं’वचिस्वपियजादीना॑मित्यादौ संप्रसारणश्रुतौ यण्स्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः लस्य ऌकार इति ज्ञेयम् ।
Tattvabodhini¶
इग्यणः सम्प्रसारणम् - इग्यणः । यणः स्थाने इति । विधिप्रदेशेषु सूत्रसाटकवद्भाविसंज्ञाश्रयणान्नान्योन्याश्रयः । ननु यण्स्थानिकस्येकः संप्रसारणत्वेअदुहितचरा॑मित्यत्र लङो लकारस्य स्थाने उत्तमपुरुषैकवचनमिट्, तस्य यण्स्थानिकत्वेन संप्रसारणसंज्ञायां सत्यांहलः॑इति दीर्घः स्यात्, तरपं प्रति लङ्न्तस्याऽङ्गत्वादिति चेत् । अत्र कैयटः -यथासङ्ख्यसम्बन्धात्सम्प्रसारणसञ्ज्ञाऽत्र न भवतीति । नन्वनुवादे परिभाषाणामनुपस्थानात्कथमिह यथासङ्ख्यत्वलाभः । नचैवं स्थानेयोगोऽपि न लभ्येतेति वाच्यम्,षष्ठी स्थानेयोगे॑त्यत्रैतत्सूत्रमनुवर्तय व्याख्यायां तल्लभात् । अत्राहुः — तन्त्रावृत्त्याद्याश्रयणेनसम्प्रसारणस्ये॑ति सूत्रे तद्भावितग्रहणाददुहिकरामित्यत्रहलः॑इति लङः स्थामिकस्येटः संप्रसारणस्य दीर्घो न भवति, लङ्स्थानिकस्येटः संप्रसारणशब्देनाऽभावितत्वात्ष । नन्वेवमप्यक्षद्युवौ अक्षद्युव इत्यादावूठः संप्रसारणसंज्ञायांसंप्रसारणाच्चे॑ति पूर्वरूपं स्यादिति चेन्न,संप्रसारणपूर्वत्वे समानाङ्गग्रहणं कर्तव्य॑मिति वार्तिककृतोक्तत्वाद्वार्णादाङ्गस्य बलीयस्त्वाद्वा उवङेव स्यात् । अत्र नव्याः — ॒ष्यङः संप्रसारण॑मित्यादिविधिप्रदेशेष्वेवयण् इ॑गिति पठित्वा संप्रसारणसंज्ञासूत्रं त्युक्तं शक्यमित्याहुः ।
Padamanjari¶
यणः स्थान इति । कथं पुनरनुवादे स्थानसम्बन्धो लभ्यते ? ‘षष्ठी स्थानेयोगा’ इत्यत्राधिकारात् । भूत इति । कार्यान्तरार्थमनूद्यमानो भूतः, विधेयस्तु भावती, तत्र च संज्ञिनो भावित्वात् संज्ञापि भविन्येव । यथा-अस्य सूत्रस्य शाटकं वयेति । ‘वचिस्वपियजादीनां किति’ तद्भवति यस्य भूतस्य सम्प्रसारणसंज्ञा भवतीति । इष्टम्, उप्तमिति । ‘वचिस्वपि’ इत्यादिना सम्प्रसारणम् । गृहीतमिति । ‘ग्रहिज्या’ इत्यादिना । ‘ग्रहोऽलिटि दीर्घः’ । केचिदित्यादि । एवंवदतां भाविनी संज्ञा नाश्रयणीया, स्थानेयोगश्च लभ्यते । ‘इग्यणः’ इत्यत्र भवतीत्यध्याहारात्पूर्वसूत्राच्चेतिकरणानुवृतेर्यणः, स्थाने इग्भवतीति योऽयं वाक्यार्थ इत्यर्थो लभ्यते । कथं पुनरर्थद्वयमेकस्य सूत्रस्य भवति ? तन्त्रेण,आवृत्या वा । अस्य च लिङ्गं विभक्तिविशेषणिर्देशः । यदयं ‘ष्यङः सम्प्रसारणम्’ इत्यादौ भाव्यमानविभक्त्या निर्देशां करोति, ततो ज्ञापयति - वाक्यार्थः संज्ञेति । न हि तत्र वर्णस्य सम्भवः । ‘सम्प्रसारणस्य’ इत्यादौ तु भूतविभक्त्या निर्देशात् ज्ञायते - वर्णः संज्ञीति । न हि तत्र वाक्यार्थः सम्भवति । तत्रेत्यादिना द्वयोरर्थयोर्विषयविभागेनोपस्थानं दर्शयति । अदुहितरामिति । दुहेर्लङ् किर्मकर्तरि उतमैकवचने इटि ङ दुहस्नुनमाम्’ इति यकि प्रतिषिद्धे शब्लुकि अदुहि इति स्थिते ‘तिङ्श्च’ इति तरपि ‘किमेतिङ्व्ययघाद्’ इत्याम् । तत्र लकारस्य यणः स्थाने इङ्विहित इति संप्रसारणसंज्ञायाम् ‘हलः’ इति दीर्घत्वं प्राप्नोतीति चोद्यमपाकरोति । सङ्ख्यातानुदेशादिति । तरप उपन्यासोऽङ्गसंज्ञार्थः । सङ्ख्यासाम्यात् संख्यातानुदेशे सति यकारस्थानिकस्येकारस्य संज्ञया भाव्यम्, अयं तु लकारस्थानिकः । द्यौभ्यामित्यत्र ‘दिव उत्’ इत्युत्वे यणादेशे ‘हलः’ इति दीर्घत्वं प्राप्तंतपरकरणान्न भवति । अक्षद्यूः, अक्षद्यौवौ, अक्षद्यौव इत्यादावूठः संप्रसारणसंज्ञायाम् शंप्रसारणाच्च’ इति पूर्वरूपत्वं प्राप्तम् ‘वार्णादाङ्गं बलीयः’ इति उवङ बाध्यते ॥
Nyaas¶
भूतः`इति। यत्र शास्त्रान्तरेण विहितो भूतविभक्त्या कार्यान्तरार्थमनूद्य-ते, यथा- **सम्प्रसारणस्य** (6.3.139) **सम्प्रसारणाच्च** (6.1.108) इति, तत्र भूतः। `भावी वा इति। यत्र भाव्यमानविभक्त्या विधानार्थं निर्दिश्यते, यथा ष्यङः सम्प्रसारणम् (6.1.13) वसोः सम्प्रसारणम् (6.4.131) इति, तत्र भावी। अत्र हि ष्यङः स्थानिको वसुस्थानिकश्चेङः नास्ति यस्य संज्ञा सूत्रस्य शाटकं वय` इति। स इग् यणः स्थाने भवति, यस्य भूतस्य सम्प्रसारणमित्येषा संज्ञा भवतीति। इष्टम्, उप्तम् इति। वचिस्वपियजादीनां किति (6.1.15) इत सम्प्रसारणम्। गृहीतम्ित्यत्रापि `ग्रहिज्यावयि (6.1.16) इत्यादिना सम्प्रसारणम्। ग्रहोऽलिटि दीर्घः (7.2.37) । केचित् इत्यादिना ये भाविनीं संज्ञां नाश्रयन्ति तन्मतं दर्शयति। कथं पुनरेकस्यसूत्रस्यैतदर्थद्वयमेकेन वाक्येन लभ्यते? तन्त्रेण, आवृत्त्या वा। ननु च संज्ञाविधौशब्दस्यैव ग्रहणं प्रसिध्दमित्युक्तम्, ततो युक्तं वर्णस्यैव संज्ञित्वम्, अर्थस्यततु कथम्? यथा नवेति विभाषा (1॥44) इति सूत्र इति चेत्? न युक्तम्; तत्रेतिकरण-स्यार्थनिर्देशार्थस्य प्रयोगात्, इह तु स नास्तीत्ययुक्तम्। इहापि तन्त्रस्यावृ-त्तेर्वा न्यायस्याश्रितत्वाद् युक्तमेव। अस्य च सूत्रार्थद्वयस्य विभक्तिविशेषणिर्देशो लिङ्गम्। यदयं ष्यडः सम्प्रसारणम् (6 1।13) इत्यादौ विधिवाक्ये भाष्यमानविभक्त्या निर्देशं करोति ततो ज्ञायते-वाक्यार्थः संज्ञी इति। यतश्च**सम्प्रसारणस्य** (6.3.139) इत्यादौ भूतविभक्त्या निर्देशं करोति ततोऽवसीयते-वर्ण इति। तस्माद् युक्तं वाक्यार्थस्यापि संज्ञित्वम्। किरूपोऽसौ वाक्यार्थः? इत्याह-स्थान्यदेशः इत्यादि। तत्रेत्यादिना अनन्तरयोः सूत्रार्थयोर्विषयविभागंदर्शयति - विधौ वर्णो न सम्भवतीति। ष्यडः सम्प्रसारणम् (6 1।13) इत्यादौविधिवाक्ये प्रथमः सूत्रार्थ उपतिष्ठते। अनवादे तु सम्प्रसारणस्य (6.3.139) इत्यादौ विहितत्वाद्विधेयस्य प्रथमोऽकिञ्चित्कर इति द्वितीयः। अदुहितराम् इति।अत्र यणः स्थानिकत्वादिकः सम्प्रसारणसंज्ञया भाष्यम्। तस्यां च सत्यां हलः (6.4.2) इति दीर्घत्वं प्रसज्येतीति चोद्यमपाकर्त्तुमाह-संख्ययातानुदेशात्ित्यादीह स्थानिनो यणश्चत्वारः इकोऽप्यादेशाश्चत्वार एव, तेन संख्यातानुदेशेन भवितव्यम्`यथासंख्यमनुदेशः (1.3.10) इत्यादिना। ततश्च यकारस्य स्थाने य इवर्णस्तस्यैवसम्प्रसारमसंज्ञा भवति। न चेह यकारस्य स्थान इवर्णः। किं तर्हि? लकारस्य।तत् कुतस्तस्याः प्रसङ्गः? द्रुह प्रपूरणे (धा। पा। 1014), लङ, कर्मवत् कर्मणातुल्यक्रियः (3.1.87) इत्यतिदेशे कर्मकर्तयस्मिनेपदम्, इट्। न दुहस्नुनमां यक्चिणौ (3.1.89) इति यकि प्रतिषिद्धे शप्। तस्यादादित्वाल्लुक्। अदुहि इति स्थिते`तिङश्च` (5.3.56) इति तरप्। `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे`(5 4।11)इत्याम्। तरप इहोपन्यासोऽङ्गसंज्ञार्थः।
Praudhamanorama¶
यणः स्थाने इति। विधिप्रदेशेषु सूत्रशाटकवद्भाविसंज्ञाश्रयणमिति भावः।
Sudha¶
यणः स्थाने इति । व्याख्यानात् स्थानार्थलाभः। सम्प्रसारणसंज्ञ इति । ततश्च **वसोः सम्प्रसारणम्**(6.4.131) **वचिस्वपियजादीनां किति**(6.1.15) इत्यादौ सम्प्रसारणश्रुतौ यणस्थानिक इगुपस्थितो भवति । तत्रान्तरतम्याद्यस्य इकारः, वकारस्य उकारः, रेफस्य ऋकारः, लस्य लृकारः इति बोध्यम् ।