11052: अलोऽन्त्यस्य¶
Padacheda: अलः | S | 6 | 1 |
अन्त्यस्य | S | 6 | 1 |
Sutrartha¶
सूत्रेण उक्तः आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने भवति ।
एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । सूत्रेषु कृतम् आदेशविधानम् स्थानिनः केवलम् अन्तिमवर्णस्य स्थाने एव भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. त्यदादीनामः (7.2.102) अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् ‘अ’ इति आदेशः विधीयते । अस्मिन् सूत्रे ‘त्यदादीनाम्’ इति षष्ठ्यन्तपदेन स्थानिनः निर्देशः भवति । अस्य स्थाने उक्तः ‘अ’ इति आदेशः प्रकृतसूत्रेण स्थानिनः अन्तिमर्वणस्य स्थाने एव विधीयते । यथा, त्यदादिगणस्य ‘तद्’ सर्वनामशब्दस्य पुंलिङ्गे प्रथमाद्विवचनस्य रूपे अनेन सूत्रेण केवलम् दकारस्य स्थाने एव अकारादेशः भवति । प्रक्रिया इयम् —
तद् + औ
→ त अ + औ [**त्यदादीनामः** (7.2.102) अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् 'अ' इति आदेशः। **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिमवर्णस्य आदेशः, अतः दकारस्य स्थाने अकारादेशः भवति ।]
→ त औ [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः अकारः]
→ तौ [**वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः]
‘दिव्’ शब्दात् तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे दिव उत् (6.1.131) इति सूत्रेण ‘दिव्’ इत्यस्य उकारादेशः विधीयते । प्रकृतसूत्रेण अयम् अन्तिमवर्णस्य स्थाने एव भवति । प्रक्रिया इयम् —
दिव् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]
→ दिउ + भ्याम् [**दिव उत्** (6.1.131) इति सूत्रेण उकारादेशः । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिमवर्णस्य आदेशः, अतः वकारस्य स्थाने अकारादेशः भवति ।]
→ द्युभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः]
यस्य पदस्य अन्ते संयोगः विद्यते, तस्य पदस्य संयोगान्तस्य लोपः (8.2.23) इति सूत्रेण लोपः विधीयते । एतादृशः लोपः सम्पूर्णशब्दस्य स्थाने न भवति, अपितु प्रकृतसूत्रेण केवलम् अन्तिमवर्णस्य एव स्थाने विधीयते । यथा, पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धौ अनेन सूत्रेण तकारस्य लोपः भवति । प्रक्रिया इयम् —
पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381))
→ पठ् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्]
→ अट् + पठ् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + पठ् + झि [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् झि-प्रत्ययः]
→ अ + पठ् + शप् + झि [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ अ + पठ् + अ + अन्ति [**झोऽन्तः** (7.1.3) इति अन्त-आदेशः]
→ अ + पठ् + अ + अन्त् [**इतश्च** (3.4.100) इति इकारलोपः]
→ अपठन्त् [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ अपठन् [**संयोगान्तस्य लोपः** (8.2.23) इति संयोगान्तपदस्य लोपः । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिमवर्णस्य लोपः भवति ।]
Sutrartha (English)¶
आदेश told in a sutra happens in the place of the last letter of the स्थानी.
Vasu English Summary¶
The substitute takes the place of only the final letter (of that which is denoted by a term exhibited in the Genitive 6th-Case.
Vasu English Translation¶
The substitute takes the place of only the final letter (of that which is denoted by a term exhibited in the Genitive 6th-Case. The rule of substitution by nearness of place applies to the last letter of the word which is exhibited in the genitive case and not to all its letters. Thus by sutra (7.2.102), it is declared त्यदादीनामः “in the place of त्यद् &c., there is अ.” It does not mean that the whole word त्यद्, is replaced by अ; though at first sight it may appear to mean so; but it means, by virtue of the present explanatory sutra, that the last letter of त्यद्, namely द् is to be replaced by अ.
So also in sutra (1.2.50) इद्रगोण्याः the short इ replaces only the final letter of गोणी and not the whole word, as पंचगोणिः ‘purchased for five gonis.’ दशगोणिः
Bhashya¶
अलोऽन्त्यस्य किमिदमल्ग्रहणमन्त्यविशेषणमाहोस्विद् - आदेशविशेषणम्? किं चातः? यद्यन्तविशेषणम्, आदेशोऽविशेषितो भवति। तत्र को दोषः। अनेकालप्यादेशोऽन्त्यस्य प्रसज्येत। यदि पुनरलन्त्यस्येत्युच्यते तत्रायमप्यर्थः- अनेकाल् शित्सर्वस्येत्येतन्न वक्तव्यं भवति। इदं नियमार्थं भविष्यति - अलेवान्त्यस्य भवति नान्य इति। एवमप्यन्त्योऽविशेषितो भवति। तत्र को दोषः। वाक्यस्यापि पदस्याप्यन्त्यस्य प्रसज्येत। यदि खल्वप्येषोऽभिप्रायस्तन्न क्रियेतेति, अन्त्यविशेषणेपि सति तन्न करिष्यते। कथम्? ङिच्च अलोन्त्यस्येत्येतन्नियमार्थं भविष्यति- ङिदेवानेकालन्त्यस्य भवति नान्य इति। किमर्थं पुनरिदमुच्यते? ॥ अलोन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः ॥ अलोऽन्त्यस्येत्युच्यते। स्थाने विज्ञातस्यानुसंहारः क्रियते। स्थाने प्रसक्तस्येति। ॥ इतरथा ह्यनिष्टप्रसङ्गः ॥ इतरथा ह्यनिष्टं प्रसज्येत। टित्किन्मितोऽप्यन्त्यस्य स्युः। यदि पुनरयं योगशेषो विज्ञायेत। ॥ योगशेषे च ॥ किम्? अनिष्टं प्रसज्येत। टित्किन्मितोऽप्यन्त्यस्य स्युः। तस्मात् सुष्ठूच्यते- अलोन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः। इतरथा ह्यनिष्ट प्रसङ्ग इति।
Kashika¶
षष्ठीनिर्दिष्टस्य य उच्यत आदेशः, सोऽन्त्यस्यालः स्थाने वेदितव्यः। इद् गोण्याः (१.२.५०) — पञ्चगोणिः। दशगोणिः॥
Siddhanta Kaumudi¶
षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥
Laghu Siddhanta Kaumudi¶
षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - <!यणः प्रतिषेधो वाच्यः!> (वार्त्तिकम्)। सुद्ध्युपास्यः। मद्ध्वरिः। धात्रंशः। लाकृतिः॥
Laghu Shabdendushekhar¶
अलोऽन्त्यस्य (1.1.52) । षष्ठी स्थाने इत्यनुवर्त्तते; तदाह - षष्ठी इत्यादि । स्थाने विधीयमानः स्थानषष्ठीनिर्दिष्टान्त्यस्येत्यर्थः । स्थान इत्यादि किम्? इट् तृच ऋकारात्पूर्वो मा भूदिति । अन्त्यस्येति साहचर्यादल इति षष्ठ्यन्तम्, अन्त्यस्याल इत्यर्थः । अल इति किम्? पदस्येति विधीयमानं वसुस्रंसु (8.2.72) इति दत्वं “स्वनडुद्ध्याम्” इत्यादावन्त्यस्य पदस्य मा भूत् । स्थाने विधीयमान इति प्रत्यासत्तिलब्धम् । एवञ्चाल एवेति अन्त्यस्यैवेति नियमद्वयमत्र । अल्समुदायबोधकपदोत्तरं स्थानषष्ठी अस्या लिङ्गम् । अत एव इतोऽत् (7.1.86) इत्यादौ नास्याः प्रवृत्तिः । पथ्यादी नामित्यस्यावयवषष्ठीत्वात्, इत इत्यस्याल्समुदायोत्तरत्वाभावाच्च ।
Balamanorama¶
अलोऽन्त्यस्य - अलोऽन्त्यस्य ।अ॑लिति प्रत्याहारो वर्णपर्यायः । ‘अल’ इति षष्ठन्तम् । ‘षष्ठी स्थानेयोगा’ इत्यतःषष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते ।निर्दिष्टस्ये॑ति शेषः । ‘स्थाने’ इत्यनन्तरं ‘विधीयमान’ इति शेषः । स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः । तदाह — षष्ठीत्यादिना ।त्यदादीनामः॑-यः सः । आदेश इति किम् , ‘आर्धधातुकस्येट्’ तृच ऋकारात् पूर्वो मा भूत् । अल इति किम् । पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत् ।
Tattvabodhini¶
अलोऽन्त्यस्य - अलोऽन्त्यस्य । स्थानषष्ठीनिर्दिष्टस्य य उच्यते सोऽन्त्यस्यालः स्थाने स्यादित्यर्थः ।त्यदादीनामः॑ । सः, यः । स्थानषष्ठीति किम् ,आर्धधातुकस्यैट् तृच् ऋकारात्पूर्वो मा भूत् । इदं चषष्ठी स्थाने॑ इत्यनुवृत्त्या लभ्यते । अल इति किम् ,पदस्ये॑त्यधिकृत्य विधीयमानंवसुरुआंसु॑ इति दत्वं परमानडुद्भयामित्यादावन्त्यस्य पदस्य मा भूत् ।
Padamanjari¶
‘अलः’ इति जसन्तं चेदयमर्थः स्यात्-अलात्मका आदेशा अन्त्यस्येति । तत्र रहोरजसां लोपः सर्वादेशः स्याद् - नीरजीकरोतीति । अन्त्यस्य चविशेषितत्वात् ‘वसुस्रंसुध्वंस्वनडुहां दः’ इति दत्वं पदस्याप्यन्त्यस्य स्यात् - परमानडुद्भ्यामिति । असन्देहार्थं चालोऽन्त्यस्येति वाच्यं स्याद् । अतोऽलोन्त्यस्येत्यनेन सामानाधिकरण्यात् षष्ठ।ल्न्तमिति स्थितम् । यदि ‘षष्ठी स्थानेयोगा’ इत्येनैकवाक्यताऽस्य स्यात्, ततोऽयमर्थः स्यात् - ‘इह शास्त्रे या काचन षष्ठी सान्त्यस्यालो भवति सा स्थानेयोगा इति । ततश्च ‘आर्द्धधातुकस्येड्वलादेः’ इत्यस्याप्यन्तेऽल्यनुसंहारादार्द्धधातुकान्त्यस्यैवेट् स्यात्, स च भवन् ‘आद्यन्तौ टकितौ’ इत्यन्त्यात्प्राक् स्यात् । ‘आद्यन्तौ टकितौ’ इत्यनेन हि स्थानेयोगात्वमेव षष्ठ।ल बाध्यते, न पुनरन्त्येऽल्यनुसंहारोऽपि । अतो भिन्नं वाक्यम्, तदाह - षष्ठीनिर्दिष्टस्येत्यादि । सामान्यवचनेऽपि ‘षष्ठी स्थानेयोगा’ इत्याधिकारात् स्थान षष्ठीनिर्दिष्टस्येति वेदितव्यम्; अन्यथा षष्ठीमात्रस्याधिकारे यस्य षष्ठोनिर्दिष्टस्य यत्कार्यं यथाभूतमुच्यते - आदेशरूपम्, ताअथगमरूपं वा, ततथाभूतमेव तदन्तस्य भवतीत्यर्थः स्यात् । ततश्च स एव दोषो य एकवाक्यतायाम् । अतः ‘षष्ठी स्थानेयोगा’ इति सर्वमनुवर्त्यम् । अयञ्चार्थो भवति - श्थानषष्ठीनिर्दिष्टस्य यदुच्यते ततदन्त्यस्यालो भवति, न तस्य कृत्स्नस्य’ इति । सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो वृत्तिकारेण दर्शितः । यद्वा-‘या स्थानेयोगा षष्ठी साऽन्त्यस्यालः’ इति षष्ठ।ल एवानुसंहारो वेदितव्यः । अत्र पक्षे ‘डिच्च’ इत्यस्यायमर्थः -‘यत्र ङिदादेशो इविधीयते तत्र या षष्ठी सान्त्यस्यालः’ इति । एवं सर्वत्र । कार्यानुसंहारे तु यताश्रुतमेव षष्ठयाः स्याद्, अनुसंहारे ‘डिच्च’ इत्यादावसङ्गतिः । अतः कार्यानुसंहारो वृत्तिकारेण दर्शितः ॥
Nyaas¶
अल्ग्रहणमन्त्यस्य विशेषणम्, नादेशस्य; अन्यथा ह्रलन्त्यस्येत्येवं ब्राऊयात्। आदेशः पुनरत्रैकाल्लभ्यते। अन्यस्य अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वादेशतां वक्ष्यति। षष्ठीनिर्दिष्टस्य इति। सामान्यवचनेऽपि षष्ठी स्थानेयोगा (1।149) इत्यधिकारात् स्थानषष्ठआ निर्दिष्टस्येति वेदितव्यम्; अन्यथा टित्किन्मितोऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्त्यस्य स्युः। इद् गोण्याः (1.2.50) इति। येयं षष्ठी सान्त्यमलं नीयते- अन्त्यस्याल इत्त्वमिति। पञ्चगोणिः इति।पञ्चभिर्गोणीभिः क्रीत इति तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति समासः। तेन क्रीतम् (5.1.37) इति प्राग्वहतेष्ठक् (4.4.1) अध्यर्धपूर्वद्विगोर्लुगसंज्ञा-याम् (5.1.28) इति तस्य लुक्। यद्यलोऽन्त्यस्य षष्ठीनिर्दिष्टस्यादेशो भवति,**इदोऽय् पुंसि** (7.2.111) इत्यतः इदः इत्यनुवृत्तेः हलि लोपः (7.2.113) विधीयमान इद्रूपस्य योऽन्त्यस्तस्य स्यात्। तथा च - आभ्यामिति न सिध्येत्, नैष दोषः; नानार्थकेऽलोऽन्त्यविधिरनभ्यासविकारेषु (व्या।प।62) इति परिभाषया न भविष्यति॥
Prakriyasarvasvam¶
अनेकाल्शिद्भ्योऽन्य आदेशोऽन्त्याक्षरस्य स्यात् । समो रुः स्यादित्युक्ते मकारस्य रुः ।
Sarala¶
षष्ठी स्थानेयोगा (१.१.४९) इत्यनुवर्त्तते । अलः - षष्ठ्यन्तम्, अन्त्यस्य - षष्ठ्यन्तम् । स्थाने विधीयमान आदेशः - षष्ठीनिर्द्दिष्टान्त्यस्य अलः स्यादित्यर्थः । यण इति । यणः संयोगान्तलोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । “इति यलोपो न भवती”ति शेषः । सुधीभिरुपास्य इति तृतीयासमासः । “सुधी-उपास्य” इत्यवस्थायां तस्मिन्निति निर्द्दिष्टे पूर्वस्य (१.१.६६) स्थानेऽन्तरतमः (१.१.५०) इति परिभाषासूत्रद्वयसहकारेण इको यणचि (६.१.७७) इति सूत्रेण धकारोत्तरवर्त्तीकारस्य तालुस्थानिकस्य स्थाने तालुस्थानिके यकारेऽनचि चेति धकारस्य वैकल्पिके द्वित्वे झलां जश् झशि (८.४.५३) इति पूर्वधकारस्य दकारे सति प्राप्तस्य संयोगान्तस्य लोपः (८.२.२३) इति प्राप्तस्य लोपस्य <!यणः प्रतिषेधो वाच्यः!> (वा० (८.२.२३)) इति प्रतिषेधे “सुद्ध्युपास्यः” इति सिद्धम् । “अनचि चे”ति द्वित्वाऽभावपक्षे “सुध्युपास्यः” इति रूपं बोध्यम् । सुद्ध्युपास्यः = पण्डितैराश्रयणीयो हरिः, भूपितश्च । “मधु+अरिः” इत्यवस्थायामिको यणचीति शास्त्रेण “स्थानेऽन्तरतम” इति परिभाषाबलेन स्थानत आन्तर्यादुकारस्य वकारे अनचि च (८.४.४७) इति धकारस्य वैकल्पिके द्वित्वे झलां जश् झशि (८.४.५३) इति धकारे दकारे प्राप्तस्य संयोगान्तलोपस्य <!यणः प्रतिषेधो वाच्यः!> (वा० (८.२.२३)) इति निषेधे “मद्ध्वरिः” इति सिद्धम् । द्वित्वाऽभावे च “मध्वरिः” इति रूपम् । मद्ध्वरिः = मधोर्दैत्यस्य शत्रुर्विष्णुः । एवं “धातृ+अंशः” इत्यवस्थायामिको यणचीतिशास्त्रेण स्थानेऽन्तरतमः (१.१.५०) इति परिभाषासहकृतेन मूर्धस्थानिकस्य ऋकारस्य स्थाने मूर्धस्थानिके रेफादेशे कृतेऽनचि चेति द्वित्वे - प्राप्तस्य संयोगान्तलोपस्य <!यणः प्रतिषेधो वाच्यः!> (वा० (८.२.२३)) इति प्रतिषेधे “धात्त्रंशः” इति सिद्धम् । द्वित्वाभावे च “धात्रंशः” इत्यपि रूपं बोद्ध्यम् । धात्त्रंशः = धातुर्ब्रह्मणो भागः । “लृ+आकृतिः” इत्यवस्थायामिको यणचीति सूत्रेण स्थानत आन्तर्यात्लृकारस्य लकारादेशे “लाकृतिः” इति सिद्धम् । उल्-आकृतिः - लाकृतिः = देवमातुरदितेः स्वरूपं, वर्णविशेषस्य लृकारस्य स्वरूपं वा ॥
Sudha¶
अत्र “सुधी-उपास्यः” इति स्थिते इको यणचि (6.1.77) इति सूत्रेण अजव्यवहितपूर्व-इक् — धकारोत्तवर्ति ई, तस्य स्थाने स्थानेऽन्तरतमः (1.1.50) इति सूत्रेण ‘य्’, न तु ‘वरलाः’, आन्तरतम्याभावात् । “सुधय्-उपास्यः” इति जाते अनचि च (8.4.47) इति सूत्रेण धकारस्य द्वित्वे झलां जश् झशि (8.4.53) इति सूत्रेण प्रथमधकारस्य दकारे “सुद्ध्य्-उपास्यः” इत्यवस्थायां संयोगान्तस्य लोपः (8.2.23) इति सूत्रेण यकारस्य लोपे प्राप्ते, <!यणः प्रतिषेधो वाच्यः!> इति वार्त्तिकेन यलोपनिषेधे सति “सुध्युपास्यः” इति रूपं सिद्धम् । मध्वरिः इति । मधोः अरिः मध्वरिः । मधुनामदैत्यस्य अरिः शत्रुः श्रीकृष्ण इत्यर्थः ॥ अत्र साध्यते — “मधु-अरिः” इति स्थिते इको यणचि (6.1.77) इति सूत्रेण अजव्यवहितपूर्वत्वविशिष्ट-इक् धकारोत्तवर्ति उ, तस्य स्थाने स्थानेऽन्तरतमः (1.1.50) इति परिभाषया (वकारस्य दन्तोष्ठम्, उपूपध्मानीयामनामोष्ठौ इति उभयोः उकारवकारयोः स्थानसाम्यात्) ‘व्’ जाते “मध्व्-अरिः” इत्यवस्थायाम् अनचि च (8.4.47) इत्येनन द्वित्वे झलां जश् झशि (8.4.53) इत्यनेन धकारस्य दकारे, संयोगान्तस्य लोपः (8.2.23) इति सूत्रेण लोपे प्राप्ते, <!यणः प्रतिषेधो वाच्यः!> इत्यनेन निषिद्धे सति “मध्वरिः” इति सिद्धम् । ** धात्त्रंशः इति ।** धातुः अंशः धात्रंशः । “धातृ-अंशः “ इति स्थिते इको यणचि (6.1.77) इत्यनेन ऋ-स्थाने स्थानेऽन्तरतमपरिभाषया र् कृतः । अत्रापि संयोगान्तस्य लोपः (8.2.23) इति लोपे प्राप्ते, <!यणः प्रतिषेधो वाच्यः!> इत्यनेन निषिद्धे, “धात्रंशः” इति सिद्धम्भवति । लाकृतिरिति । लुरिव आकृतिः यस्यः सः इति विग्रहः इति भावः । “ऌ-आकृतिः” इत्यत्र इको यणचि (6.1.77) इत्यनेन स्थानत आन्तर्यात् ‘ऌ’ इत्यस्य स्थाने ‘ल्’ इति, अत्रापि लोपे प्राप्ते निषिद्धे सति, अज्झीनं परेण संयोज्यम्, <qt>लाकृतिः</w> इति रूपं सिद्धम् ॥