11057: अचः परस्मिन् पूर्वविधौ

Padacheda: अचः | S | 6 | 1 |

परस्मिन् | S | 7 | 1 |

पूर्वविधौ | S | 7 | 1 |

Sutrartha

अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णाश्रितेषु कार्येषु अपि सः आदेशः स्थानीवद् भवति ।

यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌*स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? * — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । स्थानिवदादेशोऽनल्विधौ (1.1.56) इत्यतः आरभ्य द्विर्वचनेऽचि (1.1.59) इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं द्वितीयम् सूत्रम् । स्थानिवदादेशोऽनल्विधौ (1.1.56) इति सूत्रेण अनल्-आश्रितानाम् गुणधर्माणाम् आदेशे अतिदेशः विधीयते । परन्तु प्रक्रियासु कुत्रचित् अल्-आश्रितस्य गुणधर्मस्य अपि आदेशे अतिदेशः इष्यते; तदर्थम् आचार्येण प्रकृतसूत्रम् रचितम् अस्ति । परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवद् भवति इति अस्य विवरणम् व्याख्यानेषु दीयते । अस्य अर्थः अयम् — यत्र परनिमित्तस्य आधारेण अच्-वर्णस्य स्थाने कश्चन आदेशः (लोपः वा) कृतः अस्ति, तत्र स्थानिनः पूर्वम् विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल्-गुणधर्मः आदेशे अपि अतिदिश्यते । अस्मिन् सन्दर्भे द्वे उदाहरणे एतादृशे — 1. सत्यापपाश… (3.1.25) इति सूत्रेण “कथ”-धातोः स्वार्थे “णिच्”-प्रत्ययः विधीयते । “कथ + णिच्” अस्यां स्थितौ अतो लोपः (6.4.48) इत्यनेन थकारोत्तर-अकारस्य लोपे कृते “कथ् + णिच्” इति सिद्ध्यति । अत्र णित्-प्रत्यये परे अत उपधायाः (7.2.116) इत्यनेन “कथ्” इत्यस्य उपधाभूतस्य अकारस्य वृद्ध्यादेशः प्राप्नोति । अस्य वृद्ध्यादेशस्य प्रसङ्गे प्रकृतसूत्रस्य प्रयोगं कृत्वा लुप्तः अकारः स्थानिवद्भावेन तत्र उपतिष्ठते । तदित्थम् —

  1. अतो लोपः (6.4.48) इत्यनेन सूत्रेण अच्-वर्णस्य आदेशः कृतः अस्ति, यतः अत्र अकारस्य स्थाने लोपः आदेशरूपेण विधीयते ।

  2. अस्य आदेशस्य (लोपस्य) निमित्तम् तस्मात् अनन्तरम् विद्यमानः आर्धधातुकप्रत्ययः (णिच्-प्रत्ययः) अस्ति, अतः अत्र अत्र परनिमित्तम् अपि विद्यते ।

  3. ककारोत्तरस्य अकारस्य उपधात्वं दृष्ट्वा तत्र अत उपधायाः (7.2.116) इत्यनेन वृद्ध्यादेशः प्राप्नोति । अयम् आदेशः लुप्त-अच्-वर्णात् पूर्वं विद्यमानस्य वर्णस्य विषये प्राप्नोति, अतः अत्र पूर्वविधिः अपि विद्यते ।

अस्यां स्थितौ लुप्त-अकारस्य अच्त्वम् स्थानिवद्भानेन आदेशे (लोपे) अपि अतिदिश्यते — इति प्रकृतसूत्रस्य आशयः । लोपस्य अच्त्वे प्राप्ते ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, येन उपधावृद्धिः अपि नैव सम्भवति । प्रक्रिया इयम् —

कथ (वाक्यप्रबन्धे, चुरादिः, (10.389))
→ कथ + णिच् [**सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्** (3.1.25) इति स्वार्थे णिच्]
→ कथ + इ [णकारचकारयोः इत्संज्ञा, लोपः]
→ कथ् + इ [**अतो लोपः ** (6.4.48) इति अकारलोपः । अस्मिन् लोपे कृते **अत उपधायाः** (7.2.116) इत्यनेन उपधा-अकारस्य वृद्धिः प्राप्नोति । परन्तु अत्र कृतः अचः लोपः परनिमित्तकः अस्ति, तथा अस्मात् लुप्त-अकारात् पूर्वम् विद्यमाने वर्णे  वृद्धिः प्राप्नोति, अतः अत्र **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति सूत्रेण लुप्तः अकारः वृद्धिकार्यार्थम् स्थानिवद् भवति । अतः अत्र लोपस्य अच्त्वे प्राप्ते, ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, अतश्च ककारोत्तरः अकारस्य वृद्धिः अपि नैव सम्भवति ।
→ कथि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् कृत्/तिङ्प्रत्ययः विधीयते ।]
  1. “हन्”-धातोः लुङ्-लकारस्य एकवचनस्य प्रक्रियायाम् लुङि च (2.4.43) इत्यनेन हन्-धातोः “वध”-इति आदेशः भवति । अयम् अकारान्तः आदेशः अस्ति, अतः आर्धधातुकप्रत्यये परे अस्य अकारस्य अतो लोपः (6.4.48) इत्यनेन लोपः क्रियते । एतादृशे लोपे कृते वकारोत्तरस्य अकारस्य अतो हलादेर्लघोः (7.2.7) इत्यनेन विकल्पेन वृद्ध्यादेशः (आकारादेशः) प्राप्नोति । परन्तु अत्रापि अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यनेन लुप्तः अकारः स्थानिवद् स्वीक्रियते, येन अकारस्य वृद्धिः नैव सम्भवति । प्रक्रिया इयम् —

हनँ (हिंसागत्योः, अदादिः, 2.2)
→ हन्  + लुङ् [**लुङ्**  (3.2.110) इति लुङ्]
→ वध + लुङ् [**लुङि च** (2.4.43) इति हन्-इत्यस्य वध-आदेशः]
→ वध + च्लि + लुङ् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणम्]
→ वध + सिच् + लुङ् [**च्लेः सिच्** (3.1.44) इति च्लि-इत्यस्य सिच्-आदेशः]
→ अट् + वध + स् + लुङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + वध + स् + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अ + वध + इट् + स् + ति **आर्धधातुकस्य इड् वलादेः**  (7.2.35) इति इडागमः]
→ अ + वध् + इ + स् + ति [ **अतो लोपः**  (6.4.48) इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः । अत्र अकारलोपे कृते वध्-इत्यस्य हलन्त-अङ्गस्य अकारस्य  **वदव्रजहलन्तस्याचः** (7.2.3) इत्यनेन नित्यं प्राप्ता वृद्धिः **अतो हलादेर्लघोः** (7.2.7) इति सूत्रेण विकल्प्यते, अतः अत्र अकारस्य पाक्षिकः वृद्ध्यादेशः अवश्यं सम्भवति । परन्तु इदं वृद्धिकार्यम् लुप्त-अच्-वर्णात् पूर्वस्य पदार्थस्य विषये उच्यते, अतः अत्र **अचः परस्मिन् पूर्वविधौ** (1.1.57)  इत्यनेन लुप्तः अकारः स्थानिवद् भवति, येन अङ्गस्य हलन्तत्वम् विनश्यति, अतश्च  **वदव्रजहलन्तस्याचः** (7.2.3) इत्यनेन वृद्धिः एव न सम्भवति, अतश्च **अतो हलादेर्लघोः** (7.2.7) इति सूत्रेण तस्याः पाक्षिकः निषेधः अपि न क्रियते ।]
→ अ + वध् + इ + स् + त् [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ + वध् + इ + स् + ईट्  + त् [**अस्तिसिचोऽपृक्ते** (7.3.96) इति ईट्-आगमः]
→ अ + वध् + इ + ई + त् [**इट ईटि** (8.2.28) इत्यनेन सकारलोपः]
→ अवधीत् [एकादेशे कर्तव्ये <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सिज्लोपः  सिद्धः अस्ति । अतः अत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्ण-दीर्घ-एकादेशं कृत्वा रूपं सिद्ध्यति ।]

दलकृत्यम्

1. अचः इति किमर्थम् ? ** हल्-वर्णस्य स्थाने कृतः आदेशः परनिमित्तकः अस्ति चेदपि पूर्वविधौ स्थानिवद् न भवति । यथा, “आ + गम्” इत्यस्मात् “ल्यप्”-प्रत्यये कृते **वा ल्यपि (6.4.38) इत्यनेन मकारस्य कृतः लोपः तुगागमार्थः स्थानिवद् न भवति । प्रक्रिया इयम् —

गमॢँ (गतौ, भ्वादिः, (1.1137))
→ आ + गम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वा]
→ आ + गम्  + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.27) इत्यनेन क्त्वा-इत्यस्य ल्यप्-आदेशः]
→ आ + ग + य [**वा ल्यपि** (6.4.38) इति मकारस्य वैकल्पिकः लोपः ।]
→ आ + ग + तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः । अत्र अयम् लुप्त-मकारस्य अपेक्षया पूर्वविधिः अस्ति, परन्तु अत्र लुप्त-मकारः स्थानिवद् न भवति, अतः अत्र अवश्यम् तुगागमः भवितुम् अर्हति ।]
→ आगत्य

**2. परस्मिन् इति किमर्थम् ? ** यत्र अच्-वर्णस्य आदेशः परनिमित्तकः नास्ति, तत्र अच्-वर्णः स्थानिवद् न भवति । यथा, “दीधीङ्”-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् प्रत्ययस्थ-इकारस्य स्वनिमित्तेन कृतः एकारादेशः पूर्वविधौ स्थानिवद् न भवति । प्रक्रिया इयम् —

दीधीङ् (दीप्तिदेवनयोः, अदादिः, (2.71))
→ दीधी + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ दीधी + इट् [**तिप्तस्झि..** (3.4.78) इति उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]
→ दीधी + शप् + इ [**कर्तरि शप्** (3.1.68) इति शप् ]
→ दीधी + इ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ दीधी + ए [**टित आत्मनेपदानां टेरे** (3.4.79) इति प्रत्यय-इकारस्य एकारादेशः । अयम् एकारादेशः स्वनिमित्तकः अस्ति, अतः अयम् अजादिः सन् अपि पूर्वविधौ स्थानिवद् न भवति । यदि तथा अभविष्यत्, तर्हि एकारे इकारत्वस्य अतिदेशेन **यीवर्णयोर्दीधीवेव्योः** (7.4.53) इत्यनेन इकारे परे दीधी-इत्यस्य ईकारस्य  लोपः अभविष्यत् ।]
→ दीध्ये [**इको यणचि** (6.1.77) इति यणादेशः]

3. पूर्वविधौ इति किमर्थम्? अजादेशः परविध्यर्थम् स्वविध्यर्थम् वा स्थानिवद् न भवति । यथा, “गो”-शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् ओकारस्य अचो ञ्णिति (7.2.115) इति वृद्धिं कृत्वा औकारः विधीयते । अस्मात् अनन्तरम् विद्यमानस्य सुँ-प्रत्ययस्य लोपार्थम् अस्मिन् औकारे ओकारः स्थानिवद् न भवति, यतः अत्र सुँलोपः परविधिः अस्ति, न हि पूर्वविधिः । प्रक्रिया इयम् —

गो + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ गौ + सुँ [**गोतो णित्** (7.1.90) इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः **अचो ञ्णिति** (7.2.115) इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः । अयम् अजादेशः **एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इत्यनेन सम्बुद्धिलोपार्थम्  स्थानिवद् न भवति, यतः अत्र क्रियमाणः सम्बुद्धिलोपः पूर्वविधिः नास्ति ]
→ गौः [रुत्वविसर्गौ ]

Sutrartha (English)

An आदेश done in place of an अच् letter due to the परनिमित्त acts like the स्थानी even in the context of कार्याणि that are associated with a single letter; as long as the कार्याणि are on an entity prior to the location of the स्थानी.

Vasu English Summary

A substitute in the room of a vowel caused by something that follows, should be regarded as that whose place it takes when a rule would else take effect on what stands anterior to the original vowel.

Vasu English Translation

A substitute in the room of a vowel caused by something that follows, should be regarded as that whose place it takes when a rule would else take effect on what stands anterior to the original vowel. This sutra consists of three words:- अचः genitive of the pratyahara अच् meaning ‘of a vowel,’ and means an adesa which takes the place of a vowel. The words adesa and sthanivat are understood and are to be supplied from the preceding sutra *. The second word is ‘*parasmin’ loc. sing. of ‘para’ meaning ‘in the subsequent.’ The locative has the force of ‘on account of or by reason of.’ The third word is purva-vidhau loc. sing. of purva-vidhi meaning ‘a rule applicable to a preceding thing.’ The whole sutra * thus comes to mean that an *adesa which replaces a vowel, becomes sthanivat (like vowel), provided that the substitution has been occasioned on account of something following and when a rule is to be applied to anything preceding such an adesa.

Thus there is an affix called णिच् the actual affix being इ; the other letters ण् and च् being इत्. The peculiarity of every affix having an indicatory ण् is to cause the vriddhi of the penultimate अ; (sutra * (7.2.116)) as पच + इ = पाचि. Now in forming the denominative verb from the word पटु, we have to add the affix णिच्. Thus पटु + इ ; but before *nich, the उ of पटु is substituted by a ‘lopa’ or blank, and this blank takes the place of the vowel उ of पटु and becomes sthanivat by force of the present sutra *. The result of becoming *sthanivat is that though the अ of पटु is really a penultimate and ought to be vriddhied before ‘nich’ it is not so, the lopa-substitute not allowing the अ to be regarded as penultimate, and thus we have the form पटि the present tense third person singular of which is पटयति. The equation being पट् + ० + इ, the zero preventing the अ of पट् from becoming penultimate. So also in the word अवधीत्, the aorist (लुङ्) of वध. Thus अ + वध + ईत् = अ + वध् +० + ईत्. Here, the अ of वध is elided by (6.4.48). (when an ardhadhatuka affix follows there is elision of the short अ of that which ends in short अ;) this elision is thus caused by something which follows (parasmin.) Now there is a rule (7.2.7) which declares ‘vriddhi is optionally the substitute of a laghu अ preceded by a consonant when सिच् (aorist) follows.’ However in the present case the zero is considered as sthanivat, and prevents the application of *sutra * (7.2.7); otherwise we get the form अवाधीत् which is inadmissible.

Similarly बहुखट्वा + कप् = बहुखट्वकः । Here, the short अ is the substitute of the longआ of खट्वा by (7.4.15); because of the subsequent (parasmin) affix ‘kap’. However, the word बहुखट्व will not be considered as a word ending in a short vowel, for the purposes of the application of rule (6.2.174), (the udatta accent falls on the last vowel but one of a word that ends in a short vowel and is the last member of a bahuvrihi compound followed by the affix kap). On the contrary the short अ is regarded as sthanivat to long आ. Thus बहुख॑ट्वकः.

It is needless to say that this rule applies only to vowel adesa, therefore, where an adesa replaces a consonant, the previous sutra * (1.1.56) has its scope and prevents its being *sthanivat. Thus there is a krit affix called ल्यप्, the real suffix being य, the ल् and प् being diacritical letters. Before this य the verb आगम्(to come) loses it म्, and lopa or blank takes the place of म्. Here then lopa or blank is an adesa and म् a consonant is sthani.

Now there is a rule which says (6.1.71), that before krit affixes having an indicatory प्, the letter त is added after verbs ending in light vowels. Now in आगम्, when म् is omitted, the अ of ग becomes final; and therefore a त् is required before य (which is a पित्त् affix). Thus we have आगत्य.

But had lopa or blank become sthanivat to म् then the अ of ग would have remained penultimate as it was when it was आगम्; and no त् would have been required. But it is not so.

Similarly in forming the word प्रश्नः. Thus प्रच्छ् + नङ् (3.3.90) प्रश् + नङ् (6.4.19). Here, श् is substituted for छ्; this will not be sthanivat to छ्; though this substitute is caused by something that follows (parasmin). Were it to be sthanivat, there would come the augment तुक् (त्) by (6.1.73).

Similarly अक्राष्टाम्, the aorist of कृष्. Thus अ + कृष् + सिच् + ताम् = अ + कृष् + ० + ताम् (8.2.26). Here the स् is elided on account of what follows, but still the lopa substitute here is not sthanivat for the purposes of (8.2.41). Had it been sthanivat, ष् of कृष् would be changed into क्.

Moreover this rule applies where a vowel is changed on account of something which follows (parasmin). Therefore, where the change has not been occasioned by anything subsequent, the adesa (though of a vowel) is not sthanivat. Thus the words युवजानिः and बधुटीजानिः.

The word युवजानिः is a bahuvrihi compound of युवति and जाया, meaning ‘he who has a young wife.’ In forming this compound, the आ of या is replaced by नि (tech. निङ्) by sutra (5.4.134). This नि will not be sthanivat to आ, as it is not caused by anything which follows. Had it been regarded as sthanivat, the य् could not be elided by (6.1.66) (‘there is elision of व and य when any consonant except ह् or य् follows’). Thus, युवजाया + नि = युवजाय् + ० + नि (5.4.134) = युवजानिः (6.1.66).

Similarly the word वैयाघ्रपद्यः, ‘a descendant of व्याघ्रपात्’ also illustrates this rule. व्याघ्रपाद् is a bahuvrihi compound of व्याघ्र and पाद, meaning ‘whose foot is like that of a tiger.’ Now the final अ of ‘pada’ is elided in such compounds by (5.4.138). This lopa substitution is not caused by anything that follows, therefore, this lopadesa will not be sthanivat for the purposes of the application of sutra * (6.4.130) (‘पत् is the substitute of the word पात् when part of an inflective base ending in the word पाद् and entitled to the name of *Bha. I.4.18’). Therefore, व्याघ्रपाद् + यञ् (4.1.105) = वैयाघ्रपद्यः. Had the lopa been like the original, there could not have been the substitution of ‘pad’ for ‘pad.’

Similarly the word आदीध्ये, Ist per. sing. atm. present tense of the root दीधी ‘to shine.’ Thus आदीधी + इट् = आदीधी + ए (3.4.79). This change of इ into ए is not caused by anything that follows, hence ए is not sthanivat to इ, for the purposes of the application of rule (7.4.53) (‘the finals of didhi and vevi are elided when an affix beginning with य or इ follows’). Had ए been sthanivat, the final ई would have been elided.

Similarly an adesa though of a vowel, and even though occasioned by a subsequent something, would not be sthanivat, if there is not the application of a rule to something that precedes the adesa (purva-vidhi). If the rule is to be applied to something subsequent to the adesa; it will be applied to the exact adesa without considering what was the letter which the adesa had replaced. It is only when a rule is to be applied to a prior object, that it becomes important to consider whether the adesa is sthanivat or not. Thus the vocative case of गो is हे गौः । The vocative is formed from the nominative case (2.3.49). The nominative of गो is formed by changing ओ into औ and adding the case termination स्. Here the adesa औ, replaces ओ, on account of the subsequent termination स्. Now there is a rule applicable to vocative cases which declares that the final स् is dropped after short vowels ए and ओ (6.1.69).

Now is the औ of गौ to be regarded as sthanivat to ओ, which it replaces; for the purposes of this rule of elision of finals? If so, the consequence would be that the final स् would have to be dropped in the vocative. But it is not so. Because the rule (6.1.69), which ordains the dropping of स् after short vowels and ए and ओ applies to a letter, which is not anterior to the adesa औ, but to one which follows it, and consequently there being no purva-vidhi here, the final स् is retained and we have the vocative गौः ।

Similarly the word बाभ्रवीयाः, ‘the pupils of Babhravya.’ The word बाभ्रव्य is derived from बभ्रु in this wise. बभ्रु + यञ् (IV. I.I05) = बाभ्रो + यञ् (6.4.146) and (7.2.117) = बाभ्रव् + यञ् (6.1.79) = बाभ्रव्यः. From this is formed बाभ्रवीय in this wise :- बाभ्रव्य + छ् (4.2.114) = बाभ्रव्य + ईय (7.1.2) = बाभ्रव्य् + ईय (6.4.148) = बाभ्रव् + ईय (6.4.150). Here, had the substitute अव् which replaced the ओ of बाभ्रो, been sthanivat to ओ, rule (6.4.150) (‘there is elision of the य of a taddhita affix coming after a consonant, when long ई follows’), could not have applied. But this substitute अव् is not sthanivat for the purposes of rule (6.4.150), in as much as that rule does not apply to any letter that precedes the substitute अव्, but to the very letters of the substitute itself.

Similarly the word नैधेयः, which is evolved from the root धा, in this wise नि + धा + कि (3.3.92) = नि + धा + इ (1.3. 8)= नि + ध् + ० + इ (6.4.64) = निधि. Let us then form a secondary derivative from the word निधि applying ढक् (4.1.122), the whole of which affix is replaced by एय (7.1.2). Thus निधि + एय = निध् + एय(6.4.148) = नैधेय (7.2.118). Here, the lopa substituted for the आ of धा by (6.4.64) is not sthanivat for the purposes of the application of (4.1.122) by which the affix ढक् is added. Rule (5.1.122) says, ‘dhak is added to a word ending in इ, provided it be a word containing two vowels.’ Now निधि ends in इ and contains two vowels; but if the lopa were sthanivat to the elided आ, then it would be a word of three syllables. That is however not so; because the rule enjoining the affix ढक् is not applicable to anything preceding the lopadesa, but is enjoined with regard to something after this substitution.

Bhashya

अचः परस्मिन् पूर्वविधौ अचेति किमर्थम्? प्रश्नो, विश्नः। द्यूत्वा, स्यूत्वा। आक्राष्टाम्। आगत्य। प्रश्नो, विश्नः इत्यत्र छकारस्य शकारः परनिमित्तकस्तस्य स्थानिवद्भावाच्छे चेति तुक् प्राप्नोति। अचेति वचनान्न भवति। नैतदस्ति प्रयोजनम्। क्रियमाणेपि अच्ग्रहणे अवश्यमत्र तुगभावे यत्नः कर्तव्यः। अन्तरङ्गत्वाद्धि तुक् प्राप्नोति। इदं तर्हि प्रयोजनम्। द्यूत्वा,स्यूत्वा। वकारस्य ऊठ् परनिमित्तकः।तस्य स्थानिवद्भावादचीति यणादेशो न प्राप्नोति। अचेति वचनाद् भवति। एतदपि नास्ति प्रयोजनम्। स्वाश्रयमत्राच्त्वं भविष्यति। अथवा योह्यत्रादेशो नासावाश्रीयते यश्चाश्रीयते नासावादेशः। इदं तर्हि प्रयोजनम्। आक्राष्टाम्। सिचो लोपः परनिमित्तकस्तस्य स्थानिवद्भावात् षढोः कः सी ति कत्वं प्राप्नोति। अचेति वचनान्न भवति। एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् पूर्वत्रासिद्धे न स्थानिवदिति। इदं तर्हि। प्रयोजनम्। आगत्य। अभिगत्य। अनुनासिकलोपः परनिमित्तकस्तस्य स्थानिवद्भावाद् ह्रस्वस्येति तुक् न प्राप्नोति। अचेति वचनाद् भवति। अथ परस्मिन्निति किमर्थम् ? युवजानिः। वधूजानिः। द्विपदिका। वैयाघ्रपद्यः। आदीध्ये। युवजानिः वधूजानिः इति जायाय निङ् नपरनिमित्तकः। तस्य स्थानिवद्भावाद् वलीति यलोपो न प्राप्नोति। परस्मिन् इति वचनाद् भवति। नैतदस्ति प्रयोजनम्। स्वाश्रयमत्र वल्त्वं भविष्यति। अथवायोह्यत्रादेशो नासावाश्रीयते । यश्चाश्रीयतेनासावादेशः। इदं तर्हि प्रयोजनम्। द्विपदिका। त्रिपदिका। पादस्य लोपोऽपरनिमित्तकस्तस्य स्थानिवद्भावात् पद्भावो ल प्राप्नोति । परस्मिन् इति वचनाद् भवति। एतदपि नास्ति प्रयोजनम्। पुनर्लोपवचनसार्मथ्यात् स्थानिवद्भावो न भविष्यति। इदं तर्हि प्रयोजनम्। वैयाघ्रपद्यः। ननु चात्रापि पुनर्लोपवचनसार्मथ्यादेव भविष्यति। अस्ति ह्यन्यत् पुनर्लोपवचने प्रयोजनम्। किम्? यत्र भसञ्ज्ञा न, व्याघ्रपात्,श्येनपाद् इति। इदं चाप्युदाहरणम्- आदीध्ये, आवेव्ये। इकारस्य एकारोऽपरनिमित्तकस्तस्य स्थानिवद्भावाद् यीवर्णयोर्दीधीवेव्योरिति लोपः प्राप्नोति। परस्मिन्निति वचनान्न भवति। अथ पूर्वविधाविति किमर्थम् ? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौरित्यौकारः परनिमित्तकस्तस्य स्थानिवद्भावाद् एङ्ह्रस्वात्संबुद्धेरिति लोपः प्राप्नोति। पूर्वविधाविति वचनान्न भवति। नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावो भवतीति। यदयमेङ्ह्रस्वात्संबुद्धेरित्येङ्ग्रहणं करोति। नैतदस्ति ज्ञापकम्। गोऽर्थमेतत् स्यात्। यत्तर्हि प्रत्याहारग्रहणं करोति। इतरथा ह्योह्रस्वादित्येव ब्रूयात्। इदं तर्हि प्रयोजनम्। बाभ्रवीयाः। माधवीयाः। वान्तादेशः परनिमित्तकस्यस्य स्थानिवद्भावाद् हलस्तद्धितस्येति यलोपो न प्राप्नोति। पूर्वविधाविति वचनाद् भवति। एतदपि नास्ति प्रयोजनम्। स्वाश्रयमत्र हल्त्वं भविष्यति। अथवा योऽत्रादेशो नासावाश्रीयते यश्चाश्रीयतेनासावादेशः। इदं तर्हि प्रयोजनम्। नैधेयः। आकारलोपः परनिमित्तकस्तस्य स्थानिवद्भावाद् द्व्यज्लक्षणो ढक् न प्राप्नोति। पूर्वविधाविति वचनाद् भवति। अथ विधिग्रहणं किमर्थम् ? सर्वविभक्त्यन्तः समासो यथा विज्ञायेत। पूर्वस्य विधिः पूर्वविधिः। पूर्वस्माद् विधिः पूर्वविधिरिति। कानि पुनः पूर्वस्माद् विधौ स्थानिवद्भावस्य प्रयोजनानि। बेभिदिता चेच्छिदिता। माथितिकः। अपीपचन्। बेभिदिता चेच्छिदितेति अकारलोपे कृते एकाज्लक्षण इट्प्रतिषेधः प्राप्नोति। स्थानिवद्भावान्न भवति। माथितिक इत्यकारलोपे कृते तान्तात् क इति कादेशः प्राप्नोति स्थानिवद्भावान्न भवति। अपीपचन् इत्येकादेशे कृते अभ्यस्तात् झेर्जुस् भवतीति जुस्भावः प्राप्नोति स्थानिवद्भावान्न भवति। नैतानि सन्ति प्रयोजनानि। प्रातिपदिकनिर्देशोऽयम्। प्रातिपदिकनिर्देशाश्चार्थतन्त्रा भवन्ति। न कांचित् प्राधान्येन विभक्तिमाश्रयन्ति। तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिमाश्रयितुं बुद्धिरुपजायते सा सा आश्रयितव्या। इदं तर्हि प्रयोजनम्। विधिमात्रे स्थानिवद्भावो यथा स्यात्, अनाश्रीयमाणायामपि प्रकृतौ। वाय्वोः अर्ध्वय्वोः, लोपो व्योर्वलीति यलोपो मा भूदिति। अस्ति प्रयोजनमेतत्। किं तर्हीति? (अपरविधाविति तु ) ॥ अपरविधाविति तु वक्तव्यम् ॥ किं प्रयोजनम्? स्वविधावपि स्थानिवद्भावो यथा स्यात्। कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ? आयन्। आसन्। धिन्वन्ति। कृण्वन्ति। दध्यत्र मध्वत्र। चक्रतुः चक्रुः। इह तावद् आयन् आसन् इति इणस्त्योर्यण्लोपयोः कृतयोरनजादित्वादाडजादीनामित्याट् न प्राप्नोति। स्थानिवद्भावाद् भवति। धिन्वन्ति कृण्वन्ति। यणादेशे कृते वलादिलक्षण इट् प्राप्नोति। स्थानिवद्भावान्न भवति। दध्यत्र मध्वत्र। यणादेशे कृते संयोगान्तस्य लोपः प्राप्नोति। स्थानिवद्भावान्न भवति। चक्रतुः, चक्रुः। यणादेशे कृतेऽनच्कत्वाद् द्विर्वचनं न प्राप्नोति। स्थानिवद्भावाद् भवति। यदि तर्हि स्वविधावपि स्थानिवद्भावो भवति। द्वाभ्यां देयं लवनमत्रापि प्राप्नोति। द्वाभ्यामित्यत्रात्वस्य स्थानिवद्भावाद् दीर्घत्वं न प्राप्नोति। लवनमित्यत्र गुणस्य स्थानिवद्भावादवादेशो न प्राप्नोति। नैष दोषः। स्वाश्रया अत्रैते विधयो भविष्यन्ति। तत्तर्हि वक्तव्यमपरविधाविति ? न वक्तव्यम्। पूर्वविधावित्येव सिद्धम्। कथम्? न पूर्वग्रहणेनादेशोऽभिसम्बध्यते। अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद्भवति। कुतः पूर्वस्य, आदेशादिति। किं तर्हि? निमित्तमभिसम्बध्यते। अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद् भवति। कुतः पूर्वस्य? निमित्तादिति। अथ निमित्तेऽभिसम्बध्यमाने यत्तदस्य योगस्य मूर्धाभिषिक्तमुदाहरणं तदपि संगृहीतं भवति ? पट्व्या- मृद्व्येति। बाढं संगृहीतम्। ननु च ईकारयणा व्यवहितत्वात् नासौ निमित्तात् पूर्वो भवति । व्यवहितेपि पूर्वशब्दो वर्तते। तद्यथा पूर्वं मथुरायाः पाटलिपुत्रमिति। अथवा पुनरस्तु आदेश एवाभिसम्बध्यते इति। कथं यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ? नैतानि सन्ति। इह तावत्- आयन्,आसन्,धिन्वन्ति,कृण्वन्तीति। अयं विधिशब्दोऽस्त्येव कर्मसाधनो विधीयते विधिरिति। अस्ति भावसाधनः। विधानं विधिरिति। तत्र कर्मसाधनस्य विधिशब्दस्योपादाने न सर्वमिष्टं संगृहीतमिति कृत्वा भावसाधनस्य विधिशब्दस्योपादानं विज्ञास्यते। पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति, पूर्वः स्यादिति स्थानिवद् भवतीति। एवमाट् भविष्यति। इट् च न भविष्यति। दध्यत्र, मध्वत्र, चक्रतुः, चक्रुरित्यत्र परिहारं वक्ष्यति। कानि पुनरस्य योगस्य प्रयोजनानि ? ॥ स्तोष्याम्यहं पादिकमौदवाहिं ततः श्वोभूते शातनीं पातनीं च ॥ ॥ नेतारावागच्छतं धारणिं रावणिं च ततः पश्चात् रंत्रस्यते ध्वंस्यते च ॥। इह तावत् पादिकम्, औदवाहिम्, शातनीम्, पातनीम्, धारणिम्, रावणिम् इति। अकारलोपे कृते पद्भावः, ऊठ् , अल्लोपः, टिलोपः इत्येते विधयः प्राप्नुवन्ति। स्थानिवद्भावान्न भवन्ति। स्रंस्यते, ध्वंस्यते इत्यत्र णिलोपे कृते अनिदितां हल उपधायाः क्ङितीति नलोपः प्राप्नोति। स्थानिवद्भावान्न भवतीति। नैतानि सन्ति प्रयोजनानि। असिद्धवदत्राभादित्यनेनाप्येतानि सिद्धानि। इदं तर्हि प्रयोजनम्। याज्यते वाप्यते णिलोपे कृते यजादीनां कितीति सम्प्रसारणं प्राप्नोति। स्थानिवद्भावान्न भवति। एतदपि नास्ति प्रयोजनम्। यजादिभिरत्र कितं विशेषयिष्यामः। यजादीनां यः किदिति। कश्च यजादीनां कित् ? यजादिभ्यो यो विहित इति। न चायं यजादिभ्यो विहितः। इदं तर्हि प्रयोजनम्। पट्व्या मृद्व्येति। परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति। ईकारयणा व्यवहितत्वात्। स्थानिवद्भावाद् भवति। किं पुनः कारणम्? परस्य तावद् भवति न पुनः पूर्वस्य । नित्यात्वात्। नित्यः परयणादेशः। कृतेपि पूर्वयणादेशे प्राप्नोति। अकृतेपि प्राप्नोति। नित्यात्वात् परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति। स्थानिवद्भावाद् भवति। एतदपि नास्ति प्रयोजनम्। असिद्धं बहिरङ्गलक्षणमन्तरङगलक्षणे इत्यसिद्धत्वाद् बहिरङ्गलक्षणस्य परयणादेशस्य, अन्तरङ्गलक्षणः पूर्वयणादेशो भविष्यति। अवश्यं चैषा परिभाषा आश्रयितव्या स्वरार्थम्। र्कत्र्या, र्हत्र्या इति। उदात्तयणो हल्पूर्वाद् इत्येष स्वरो यथा स्यात्। अनेनापि सिद्धः स्वरः। कथम्? ॥ आरभ्यमाणे नित्योऽसौ ॥ आरभ्यमाणे त्वस्मिन् योगे नित्यः पूर्वयणादेशः। कृतेपि परयणादेशे प्राप्नोति। अकृतेपि। परयणादेशेऽपि नित्यः। कृतेपि पूर्वयणादेशे प्राप्नोति, अकृतेपि। ॥ परश्चासौ व्यवस्थया ॥ व्यवस्थया चासौ परः। ॥ युगपत् संभावो नास्ति ॥ न चास्ति यौगपद्येन संभवः। कथं च सिध्यति? बहिरङ्गेण सिध्यति। असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्यनेन सिध्यति। एवं तर्हि योऽत्रोदात्तयण् तदाश्रयः स्वरो भविष्यति। ईकारयणा व्यवहितत्त्वान्न प्राप्नोति। स्वरविधौ व्यञ्ञ्जनमविद्यमानवद् भवतीति नास्ति व्यवधानम्। सा तर्हि एषा परिभाषा कर्तव्या। ननु चेयमपि कर्तव्या असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति। बहु प्रयोजनैषा कर्तव्या। सा चाप्येषा लोकतः सिद्धा। कथम्? प्रत्यङ्गवर्ती लोको लक्ष्यते। तद्यथा पुरुषोऽयं प्रातरुत्थाय यान्यस्य प्रतिशरीरं कार्याणि तानि तावत्, करोति। ततः सुहुदां ततः सम्बन्धिनाम्। प्रातिपदिकं चाप्युपदिष्टं सामान्यभूतेऽर्थे वर्तते। सामान्ये वर्तमानस्य व्यक्तिरुपजायते। व्यक्तस्य सतो लिङ्गसङ्ख्याभ्यामन्वितस्य बाह्येनार्थेन योगो भवति। यथैव चानुपूर्व्याऽर्थानां प्रादुर्भावस्तथैव शब्दानामपि, तद्वत् कार्यैरपि भवितव्यम्। इमानि तर्हि प्रयोजनानि। पटयति। लघयति। अवधीत्। बहुखट्वकः। पटयति लघुयतीति णिचि टिलोपे कृते अत उपधाया इति वृद्धिः प्राप्नोति। स्थानिवद्भावान्न भवति। अवधीदित्यकारलोपे कृते अतो हलादेर्लघोरिति विभाषा वृद्धिः प्राप्नोति। स्थानिवद्भावान्न भवति। बहुखट्वक इति आपोऽन्यतरस्यामिति ह्रस्वे कृते ह्रस्वान्तेऽन्त्यात्पूर्वमिति एष स्वरः प्राप्नोति। स्थानिवद्भावान्नभवति । इह वैयाकरणः सौवश्व इति य्वोः स्थानिवद्भावादायावौ प्राप्नुतस्तयोः प्रतिषेधो वक्तव्यः। ॥ अचः पूर्वविज्ञानादैचोः सिद्धम् ॥ योनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः। आदिष्टाच्चैषोऽचः पूर्वः। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते ? अचेति पञ्चमी। अचः पूर्वस्य। यद्येवमादेशोऽविशेषितो भवति। आदेशश्च विशेषितः। कथम्? न ब्रूमो यत् षष्ठीनिर्दिष्टमज्ग्रहणं तत् पञ्चमीनिर्दिष्टं कर्तव्यमिति। किं तर्हि अन्यत् कर्तव्यम् ? अन्यच्च न कर्तव्यम्। यदेवादः षष्ठीनिर्दिष्टमज्ग्रहणं तस्य दिक्शब्दैर्योगे पञ्चमी भविष्यति। अजादेशः परनिमित्तकः पूर्वविधिंप्रति स्थानिवद् भवति। कुतः पूर्वस्य? अचेति। तद्यथा आदेशः प्रथमानिर्दिष्टः। तस्य दिक्शब्दयोगे पञ्चमी भवति। अजादेशः परनिमित्तकः पूर्वस्य अचेति। तद्यथा आदेशः प्रथमानिर्दिष्टः। तस्य दिक्शब्दयोगे पञ्चमी भवति। अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद् भवति। कुतः पूर्वस्य ? आदेशादिति। ॥ तत्रादेशलक्षणप्रतिषेधः ॥ तत्रादेशलक्षणं कार्यं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। वाय्वोः, अर्ध्वय्वोः। लोपो व्योर्वली ति लोपः प्राप्नोति। ॥ असिद्धवचनात् सिद्धम् ॥ अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रत्यसिद्धो भवतीति वक्तव्यम्। ॥ असिद्धवचनात् सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः ॥ असिद्धवचनात् सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः कर्तव्यः। पट्व्या, मृद्व्येति। नतु चैतदप्यसिद्धवचनात् सिद्धम्। ॥ असिद्धवचनात् सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः। ॥ असिद्धवचनात् सिद्धमिति चेत् तन्न। किं कारणम्? नान्यस्यासिद्धवचनादन्यस्य भावः। न ह्यन्यस्यासिद्धत्वादन्यस्य प्रादुर्भावो भवति। तद्यथा नहि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति। ॥ तस्मात् स्थानिवद्धचनमसिद्धत्वं च ॥ तस्मात् स्थानिवद्भावो वक्तव्यः, असिद्धत्वं च। पट्व्या मृद्व्येति स्थानिवद्भावः। वाय्वोर्रध्वय्वोरित्यत्रासिद्धत्वम्। ॥ उक्तं वा ॥ किमुक्तम्? स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वादिति। विषम उपन्यासः। युक्तं तत्र यदेकादेशशास्त्रं तुक्शास्त्रे असिद्धं स्यात्। अन्यदन्यस्मिन्। इह पुनरयुक्तम्। कथं हि तदेव नाम तस्मिन्नसिद्धं स्यात्? तदेव चापि तस्मिन्नसिद्धं भवति। वक्ष्यति ह्याचार्यः चिणो लुकि तग्रहणानर्थक्यं संघातस्याप्रत्ययत्वात् तलोपस्य चासिद्धत्वादिति। चिणो लुक् चिणो लुक्येवासिद्धो भवति। ॥ काममतिदिश्यतां सच्चासच्चापि नेह भारोस्ति। ॥ कल्प्यो हि वाक्यशेषो वाक्यं वक्तर्यधीनं हि ॥। अथवा वतिनिर्देशोऽयम्। कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा उशीनरवन्मद्रेषु यवाः। सन्ति न सन्तीति। मातृवदस्याः कलाः। सन्ति न सन्तीति। एवमिहापि। स्थानिवन्न भवतीति वाक्यशेषं समर्थयिष्यामहे। इह तावत् पट्व्या मृद्व्येति यथा स्थानिनि यणादेशो भवति एवमादेशेपि भवति। इहेदानीं वाख्योर्रध्वय्वोरिति यथा स्थानिनि यलोपो न भवति एवमादेशेऽपि न भवतीति। किं पुनरनन्तस्य विधिं प्रति स्थानिवद्भावः,आहोस्वित् पूर्वमात्रस्य। कश्चात्र विशेषः ? ॥ अनन्तरस्य चेदेकाननुदात्तद्विगुस्वरगतिनिघातेषूपसङ्ख्यानम् ॥ अनन्तरस्येति चेदेकाननुदात्तद्विगुस्वरगतिनिघातेषूपसङ्ख्यानं कर्तव्यम्। एकाननुदात्तालुनीह्यत्र। पुनीह्यत्र। अनुदात्तं पदमेकवर्जमित्येष स्वरो न प्राप्नोति। द्विगुस्वरापञ्ञ्चारत्न्यः। दशारत्न्यः। इगन्तकालेत्येष स्वरो न प्राप्नोति। गतिनिघाता यत्प्रलुनीह्यत्र । यत्प्रपुनीह्यत्र। तिङ चोदात्तवतीत्येष स्वरो न प्राप्नोति। अस्तु तर्हि पूर्वमात्रस्य। ॥ पूर्वमात्रस्येति चेदुपधाह्रस्वत्वम् ॥ पूर्वमात्रस्येति चेदुपधाह्रस्वत्वं वक्तव्यम्। वादितवन्तं प्रयोजितवान् अवीवदत् वीणां परिवादकेन। किं पुनः कारणं न सिध्यति ? योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् ह्रस्वत्वं न प्राप्नोति। ॥ गुरुसञ्ज्ञा च ॥ गुरुसञ्ज्ञा च न सिध्यति। श्लेष्मश्ध्न। पित्तश्घ्न। दश्घ्यश्व। मश्घ्वश्व। हलोऽनन्तराः संयोगः इति संयोगसञ्ज्ञा। संयोगे गुरु इति गुरुसञ्ज्ञा। गुरोरिति प्लुतो न प्राप्नोति। ननु च यस्याप्यनन्तरस्य विधिं प्रति स्थानिवद्भावस्तस्याप्यनन्तरलक्षणो विधिः संयोगसंज्ञा विधेया। ॥ न वा संयोगस्यापूर्वविधित्वात् ॥ न वा एष दोषः। किं तर्हि कारणम्? संयोगस्यापूर्वविधित्वात्। न पूर्वविधिः संयोगः। किं तर्हि? पूर्वपरविधिः संयोगः। ॥ एकादेशस्योपसङ्ख्यानम् ॥ एकादेशस्योपसङ्ख्यानं कर्तव्यम्। श्रायसौ, गौमतौ। चातुरौ। आनडुहौ। पादे। उदवाहे। एकादेशे कृते नुमामौ पद्भावः ऊठ् इत्येते विधयः प्राप्नुवन्ति। किं पुनः कारणं न सिध्यन्ति ? ॥ उभयनिमित्तत्वात् ॥ अजादेशः परनिमित्तक इत्युच्यते। उभयनिमित्तश्चायम्। ॥ उभयादेशत्वाच्च ॥ अच आदेश इत्युच्चते। अचोश्चायमादेशः। नैष दोषः। यत्तावदुच्यते उभयनिमित्तत्वादिति। इह यस्य ग्रामे नगरे वा अनेकं भवति, शक्नोत्यसौ ततोऽन्यतरतो व्यपदेष्टुम्। तद्यथा गुरुनिमित्तं वसामः। अध्ययननिमित्तं वसामः इति। यदप्युच्चते उभयादेशत्वाच्चेति। इह यो द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति, लभतेऽसावन्यतरतो व्यपदेशम्। तद्यथा - देवदत्तस्य पुत्रः देवदत्तायाः पुत्रः इति। अथ हलचोरादेशः स्थानिवद् भवति उताहो न। कश्चात्र विशेषः ? ॥ हलचोरादेशः स्थानिवदिति चेद् विंशतेस्तिलोपे एकादेशः। ॥ हलचोरादेशः स्थानिवदिति चेद् विंशतेस्तिलोपे एकादेशो वक्तव्यः। विंशकम्। विंशं शतम्। विंशः। ॥ स्थूलादीनां यणादिलोपेऽवादेशः। ॥ स्थूलादीनां यणादिलोपे कृते अवादेशो वक्तव्यः। स्थवीयान्, दवीयान्। ॥ केकयमित्रय्वोरियादेशे एत्वम्। ॥ केकयमित्रय्वोरियादेशे कृते एत्वं न सिध्यति। कैकेयः। मैत्रेयः। अचीत्येत्वं न सिध्यति। ॥ उत्तरपदलोपे च ॥ उत्तरपदलोपे च दोषो भवति। दध्युपसिक्ताः सक्तवो दधिसक्तवः। अचीति यणादेशः प्राप्नोति। ॥ यङ्लोपे यणियङुवङः। ॥ यङ्लोपे यण् इयङ् उवङो न सिध्यन्ति। चेच्यः। नेन्यः। चेक्षियः। चेक्रियः। लोलुवः। पोपुवः। अचीति यण् इयङ् उवङो न सिध्यन्ति। अस्तु तर्हि न स्थानिवत्। ॥ अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः। ॥ अस्थानिवत्त्वे यङ्लोपे गुणवृद्ध्योः प्रतिषेधो वक्तव्यः। लोलुवः, पोपुवः। सरीसृपः मरीमृज इति। नैष दोषः। न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति। किं पुनराश्रीयमाणायां प्रकृतौ स्थानिवद् भवति आहोस्विदविशेषेण ? कश्चात्र विशेषः ? ॥ अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः ॥ अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिर्न सिध्यति। श्लेष्मश्न्घ। पित्ताश्न्घ। दाश्ध्यश्व। मश्ध्वश्व। हलोनन्तराः संयोग इति संयोगसञ्ज्ञा। संयोगे गुरु इति गुरुसञ्ज्ञा। गुरोरिति प्लुतो न प्राप्नोति। ॥ द्विर्वचनादयश्च प्रतिषेधे ॥ द्विर्वचनादयश्च प्रतिषेधे वक्तव्या। द्विर्वचनवरेयलोपा इति। ॥ क्सलोपे लुग्वचनम् ॥ क्सलोपे लुग् वक्तव्यः। अदुग्ध, अदुग्धाः। लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये इति। ॥ हन्तेर्घत्वम् ॥ हन्तेर्घत्वं वक्तव्यम्। न्घन्ति। न्घन्तु। अन्घन्। अस्तु तर्ह्याश्रीयमाणायां प्रकृताविति। ॥ ग्रहणेषु स्थानिवदिति चेज्जग्ध्यादिष्वादेशप्रतिषेधः ॥ ग्रहणेषु स्थानिवदिति चेज्जग्ध्यादिषु आदेशस्य प्रतिषेधो वक्तव्यः। निराद्य, समाद्य। अदो जग्धिर्ल्यप् ति किति इत्यदो जग्धिभावः प्राप्नोति। ॥ यणादेशे युलोपेत्वानुनासिकात्व प्रतिषेधः ॥ यणादेशे युलोपोत्त्वानुनासिकानां प्रतिषेधो वक्तव्यः। यलोप- वाय्वोः, अर्ध्वय्वोः। लोपो व्योर्वली ति यलोपः प्राप्नोति। उलोप- अकुर्वि - आशाम्- अकुर्व्याशाम्। नित्यं करोतेः ये चे त्युकारलोपः प्राप्नोति। इर्त्व- अलुनि- आशाम्- अलुन्याशाम्। इर्हल्यघोरितीत्वं प्राप्नोति। अनुनासिकात्त्व- अजज्ञि- आशाम्- अजज्ञ्याशाम्। ये विभाषेत्यनुनासिकात्वं प्राप्नोति। ॥ रायात्वप्रतिषेधश्च ॥ रायात्वस्य च प्रतिषेधो वक्तव्यः। रायि- आशाम्- राय्याशाम्। रायो हलीत्यात्वं प्राप्नोति। ॥ दीर्घे यलोपप्रतिषेधः ॥ दीर्घे यलोपस्य प्रतिषेधो वक्तव्यः। सौर्ये नाम हिमवतः शृङ्गे। तद्वान्- सौर्यी हिमवानिति। सौ इन्नाश्रये दीर्घत्वे कृते सूर्यतिष्येति यलोपः प्राप्नोति। ॥ अतो दीर्घे यलोपवचनम् ॥ अतो दीर्घे यलोपो वक्तव्यः। गार्गाभ्याम्। वात्साभ्याम्। दीर्घेकृते आपत्यस्य च तद्धितेऽनातीति प्रतिषेधः प्राप्नोति। नैष दोषः। आश्रीयते तत्र प्रकृतिस्तद्धित इति ॥ ॥ सर्वेषामेष परिहारः। उक्तं विधिग्रहणस्य प्रयोजनम्- विधिमात्रे स्थानिवद् यथा स्याद् अनाश्रीयमाणायामपि प्रकृताविति। अथवा पुनरस्त्वविशेषेण स्थानिवदिति। ननु चोक्तम्- अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः। द्विर्वचनादयश्चप्रतिषेधे। क्सलोपे लुग्वचनम्। हन्तेर्घत्वम् इति। नैष दोषः। यत्तावदुच्चते- अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिरिति। उक्तमेतत्। न वा संयोगस्यपूर्वविधित्वादिति। यदप्युच्यते द्विर्वचनादयश्च प्रतिषेधे वक्तव्या इति। उच्यन्ते न्यास एव। क्सलोपे लुग्वचनमिति। क्रियते न्यास एव। हन्तेर्घत्वमिति सप्तमे परिहारं वक्ष्यति ॥57 ॥

Kashika

पूर्वेणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते। आदेशः स्थानिवद् इति वर्तते। अच इति स्थानिनिर्देशः। परस्मिन्निति निमित्तसप्तमी। पूर्वविधाविति विषयसप्तमी। अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्थानिवद् भवति। पटयति। अवधीत्। ब॒हु॒ख॒ट्वकः॑। पटुमाचष्ट इति णिचि टिलोपे कृते तस्य स्थानिवद्भावाद् अत उपधायाः (७.२.११६) इति वृद्धिर्न भवति। अवधीत्। अतो लोपस्य स्थानिवद्भावाद् अतो हलादेर्लघोः (७.२.७) इति हलन्तलक्षणा वृद्धिर्न भवति। ब॒हु॒ख॒ट्वक॑ इति आपोऽन्यतरस्याम् (७.४.१५) इति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्तेऽन्त्यात्पूर्वम् (६.२.१७४) इति स्वरो न भवति। अच इति किम्? प्रश्नः। आक्राष्टाम्। आगत्य। प्रश्न इति प्रच्छेर्नङ्प्रत्यये च्छ्वोः शूडनुनासिके च (६.४.१९) इति छकारस्य शकारः परनिमित्तकस्तुकि न स्थानिवद् भवति। आक्राष्टामिति झलो झलि (८.२.२६) इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि (८.२.४१) इति ककारे कर्तव्ये न स्थानिवद् भवति। आगत्येति वा ल्यपि (६.४.३८) इत्यनुनासिकलोपः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद् भवति। परस्मिन्निति किम् ? युवजानिः। वधूटीजानिः। वैयाघ्रपद्यः। आदीध्ये। युवजानिरिति जायाया निङ् (५.४.१३४) न परनिमित्तकस्तेन यलोपे न स्थानिवद् भवति। वैयाघ्रपद्य इति न परनिमित्तकः पादस्यान्तलोपः पद्भावं न प्रतिबध्नाति। आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् यीवर्णयोर्दीधीवेव्योः (७.४.५३) इति लोपो न भवति। पूर्वविधाविति किम् ? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौरिति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति। बाभ्रवीया इति बाभ्रव्यस्यामीच्छात्रा इति वृद्धाच्छः (४.२.११४) इति छः । हलस्तद्धितस्य (६.४.१५०) इति यकारलोपे कर्तव्येऽवादेशो न स्थानिवद् भवति। नैधेयः। आतो लोप इटि च (६.४.६४) इत्याकारलोप इतश्चानिञः (४.१.१२२) इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति॥

Siddhanta Kaumudi

अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिवद्भावे प्राप्ते ॥

Laghu Siddhanta Kaumudi

परनिमित्तोऽजादेशः स्थानिवत् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्वान्न वृद्धिः। अवधीत् । अहनिष्यत् ॥ {$ {! 3 यु !} मिश्रणामिश्रणयोः $} (धातुपाठे (02.0027)) ॥

Laghu Shabdendushekhar

अचः पर । आदेशग्रहणमनुवर्त्तते (स्थानिवदादेशोऽनल्विधौ (१.१.५६)) । तदनुरोधात् अच इति स्थानषष्ठी, परस्मिन्नित्यादेशविशेषणं तदाह - परनिमित्त इत्यादि । अच एवादेश इत्यर्थः । तेन मरुतमाचष्टे “मारयति” इत्यादौ वृद्धिः । अत्र सूत्रे प्रयोगे योऽच् तत् स्थानिक इत्यर्थः । न तु सूत्रे स्थानित्वेनोपात्ताच्स्थानिक इत्यर्थः । तेन णिलोपादेरनेन स्थानिवत्त्वं सिद्ध्यति । अत एव चङ्परनिर्ह्रासे ण्यन्तात् णिचि “अवीवदत्” इत्यादिसिद्ध्यर्थो निषेधः सार्थकः । अच इति किम् ? “आगत्य” । मलोपस्य स्थानिवत्त्वात् ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति तुग्न स्यात् । परस्मिन्निति किम् ? “युवजानिः” । निङः स्थानिवत्त्वेन मलोपो न स्यादिति । पूर्वविधाविति किम् ? “नैधेयः” । निपूर्वाद्धाञः किप्रत्यये आतो लोपे तस्य स्थानिवद्भावात् त्र्यच्त्वव्यपदेशविरोधात्स्वाश्रयद्व्यच्त्वनिवृत्तौ ढगनापत्तेरिति दिक् । अत्र स्थानिनि सति यद्भवति तदादेशेऽपि भवति, स्थानिनि यन्न भवति तदादेशेऽपि नेति भावाभावयोरुभयोरप्यतिदेशः । तत्र भावोदाहरणं “निगाल्यते” इति । अन्त्योदाहरणं “पटयति” इत्यादि । स्थानिनिमित्तकं भवति आदेशनिमित्तकं नेति च तदर्थः । लघूपधत्वसम्पादनद्वारा लोपनिमित्तिका वृद्धिरित्याहुः । स्थानिभूतादच इति । सूत्रे श्रवणाद्व्याख्यानाच्च तस्यैव पूर्वत्वेऽवधित्वमिति भावः । “पूर्वविधौ” इत्यस्य पूर्वसम्बन्धिन्येव शास्त्रविधेये कर्त्तव्ये इत्यर्थः, तेन पूर्वपरयोर्विधौ न । तेन “आरतुः” इत्यादौ ऋच्छत्यॄताम् (७.४.११) इति गुणस्य सर्वणदीर्घे न स्थानिवत्त्वम् । वस्तुतोऽत्र पूर्वविधिशब्दे तन्त्रम् । एकस्योक्तोर्थः । द्वितीये भावे किः । सम्बन्धसामान्यषष्ठ्यन्तपूर्वशब्देन समासः । विधिर्भावः पूर्वसम्बन्धिभावे तत्स्थितौ स्थानिवदित्यर्थः । अत एव “ऐनेय” इत्यादौ यस्येति च (६.४.१४८) इति लोपे तस्य स्थानिवत्त्वात्सन्नियोगशिष्टन्यायप्राप्तनिवृत्तिप्रतिबन्धेन नकारस्थितिः । अत एव न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) सूत्रे पञ्चेन्द्राण्यो देवता अस्य “पञ्चेन्द्र” इति लुकि न स्थानिवत् इत्यस्योदाहरणं उक्तं भाष्ये । अन्यथा तत्र पूर्वत्वेन दृष्टस्य सम्बन्धिनः कस्यचित् विधेयस्याभावात्स्थानिवत्त्वाप्राप्तिरेवेति तदसङ्गतिः स्पष्टैव । प्रकृतसूत्रेऽपि भाष्ये कर्मसाधनस्य विधिशब्दस्योपादाने न सर्वमिष्टं संगृहीतमिति भावसाधनो विज्ञास्यते पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति स्थानिवत् इत्युक्तम् । तत्र भावसाधन इत्यस्य सोऽपीत्यर्थः । पूर्वत्वञ्च व्यवहिताव्यवहितसाधारणम् । अव्यवहितग्रहणे मानाभावात्स्वरे निषेधाच्च । तेन “पटयति” इति सिद्धम् । प्रकृते च द्वित्वनिषेधे स्थानिवत्त्वप्राप्तिः ॥

Balamanorama

अचः परस्मिन् पूर्वविधौ - ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भावः । तद्गुत्तरसूत्रेण तु स्थानिवत्त्वं स्यादेवेति शङ्कामुद्भावयिष्यंस्तथाविधमुत्तरसूत्रमाह-अचः परस्मिन् । स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-अल्विध्यर्थमिति । अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः । तेन वव्रश्चेति सिध्यति ।ओ व्रश्चू च्छेदने॑ । लिटि तिपि णलि द्वित्वम् ।लिठभ्यासस्ये॑ति अभ्यचासे रेफस्य सम्प्रसारणम् । ऋकारः । पूर्वरूपम् । उरदत्वम् । रपरत्वम् । हलादिश्शेषः । तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न, ञकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतयान सम्प्रसारणे सम्प्रसारणम् इति निषेधात् । पूर्वसूत्रेण त्वत्र स्थानिवद्भावो न सम्भवति — सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति-अच आदेश इति । परहस्मिन्निति सति सप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह — परनिमित्तोऽजादेशैति । विधीयत इति बिधिः=कार्यम् । पूर्वस्य विधिः पूर्वविधिः । पूर्वत्वं च यद्यपि सावधिकम्, त्रयं चात्र संनिहितं-स्थानी आदेशः परनिमित्तं चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति, तस्यादेशेनापहारात् । नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात्तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयटादेशे कर्तव्ये यणादेशस्य स्थानिवद्भावेनाऽच्त्वापत्तेः । तथापि स्थान्यपेक्षयैवाऽत्र पूर्वत्वं विवक्षितं, स्थानिन आदेशे नापह्मतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह — स्थानिभूतादचः पूर्वत्वेनेत्यादि । अत्र स्थानिनि सति यद्भवति तदादेशे ।ञपि भवति, यन्न भवति तदादेसेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याऽभावस्य अतिदेशो भवति । तत्राद्ये वव्रश्चेत्युदाहृतमेव, तत्रन सम्प्रसारणे सम्प्रसारण॑मिति निषेधकार्यस्य शास्त्रीयत्वात् । द्वितीये तु गणयतीत्युदाहरणम् । गण संख्यान इति चुरादौ अदन्तधातुः । तस्माण्णिच् । अतो लोपः । तिप् शप् णेर्गुणः, अयादेशः । गणयतीति रूपम् । अत्र णिचि परत उपधाभूतस्य गकारादकारस्य ‘अत उपधायाः’ इति न भवति, प्रकृतसूत्रेणाऽल्लोपस्य स्थानिवद्भावात् । अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्यभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्य भावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम्, णकारेण व्यवधानादिति वाच्यम्, पूर्वत्वं ह्यत्र व्यवहिताऽव्यवहितसाधारणम्, उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात् । तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् । इति यण इति । अनेन सूत्रेण सुध् य् इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः ।

Tattvabodhini

अचः परस्मिन् पूर्वविधौ - अचः परस्मिन्पूर्वविधौ । अचः किम् । आगत्य ।वा ल्यपी॑त्यनुनासिकलोपस्तुकि कर्तव्ये न स्थानिवत् । परस्मिन् किम् । आदीध्ये । नित्यत्वादिट्, एत्वम्, तच्च न परनिमित्तम्, तेनयीवर्णयो॑रिति लोपे कर्त्तंव्ये तन्न स्थानिवत् । पूर्वविधौ इति किम् , नैधेयः । निपूर्वाद्धाञःउपसर्गे घोः किः॑आतो लोपः॑,द्व्यचः॑इतश्चानिञः॑ इति ढक् । आकारस्य स्थानिवत्त्वे तु त्र्यच्त्वव्यपदेशेन द्व्यच्त्वं विरुद्धत्वाद्वाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं व्यर्थम्, पूर्वस्येति षष्टआ कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेन्नः, पूर्वस्य विधिः, पूर्वस्माद्विधिरिति समासद्वयलाभार्थं विधिग्रहणात् । यद्यप्यत्र पञ्चमीसमासपक्षो मूले नोक्तः, तथापिपूर्वस्मादपि विधौ स्थानिवद्भाव॑ इति पक्षे तुअड्व्यवाये॑ इत्येवात्र णत्वमितिपद्द॑न्नादिप्रघट्टके स्वीकृतः सः । अल्विध्यर्थमिदमिति । तेनवव्रश्चे॑त्यत्र वस्य सम्प्रसारणं न, उरदत्त्वस्य स्थानिवत्त्वेन सम्प्रसारणतयान सम्प्रसारणे॑ इति निषेधात् । न चोरदत्त्वं परनिमित्तं नेति वाच्यम्, अङ्गाक्षिप्ते प्रत्यये परे तद्विधानात् । पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षस्य तु प्रयोजनम्-तन्वन्ति, तन्वते । इह यणादेशस्य स्थानिवद्भावान्नेट् । अत्र हितनित्यङ्ग॑नेमित्तम्, तच्च स्थानिभूतादुकारात्पूर्वमिति । नन्विदं न प्रयोजनम्, बहिरङ्गस्य यणोऽसिद्धत्वादिडागमस्यात्राऽप्रसक्तेः । न च नाजानन्तर्ये॑ इति निषेधः ।यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य॑मिति हरदत्तादिमते निषेधप्रवत्तावपिउत्तरकार्ये यत्राच आनन्तर्यमाश्रितं तत्र बहिष्ट्वप्रकॢप्तिर्ने॑ति कैयटमते तदभावात् । न चैवमपीपचन्निति प्रयोजनं भवत्येव, इह हि अन्तेरकारस्य चङकारस्य चअतो गुणे॑ इति पररूपे तस्य च परादिवद्भावाज्झिग्रहणेन ग्रहणे सतिसिजभ्यस्ते॑ति जुस् प्राप्नोति, णिलोपस्य एकादेशस्य वा स्थानिवद्भावान्न भवतीति वाच्यम्, वेत्तेर्हि लडयेवानन्तरो झिः सम्भवतीति तत्साहचर्यादभ्यस्तादपि लङ एव झेर्जुस्विधानात् । न च सिचा साहचर्याल्लुङ एव ग्रहणमस्त्विति शङ्क्यम् ,विप्रतिषेधे पर॑मिति परसाहचर्यस्य वलीयस्त्वात् । न चैवमपिअदभ्यस्ता॑दित्यदादेशस्य निवारणाय पञ्चमीसमासपक्ष आवश्यक इति वाच्यम्, चङकारस्य अन्तेरकारेण चअतो गुणे॑ इति पररूपे कृते झस्याभावददादेशाप्रसक्तेः । अत्र त्वेकादेशस्य परादिवद्भावाज्झग्रहणेन ग्रहणं न भवति; अल्विधौ अन्तादिवद्भावाऽप्रवृत्तेः । अन्यथाअयजे इन्द्र॑मित्यादौ सवर्णदीर्घो दुर्वार एव स्यात् । अस्तु वा परादिवद्भावस्तथापि झकारस्य अत्स्यादित्यदादेशे कर्तव्येऽन्तादेशो न स्थानिवत्, अल्विधित्वात् । तस्मात्पञ्चमीसमासपक्षो निरर्थक एवेति चेदत्राहुः-पञ्चमीसमासप्रयोजनतया अरीतचन्नित्युदाहरतो भगवतस्तु नेह साहचर्यं नियामकतया संमतम् ।द्वित्रिश्चतुर्-॑ इति सूत्रे कृत्वोर्थग्रहणाज्ज्ञापकात्साहचर्यं न सर्वत्राश्रीयते । एवं च भवतेर्यङ्लुकि अब्यस्ताश्रयस्य जुसः प्रवृत्त्याअबोभूवु॑रिति रूपं सिध्यति,आत॑ इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरतया माधवादिभिव्र्याख्यातत्वात् । अत एवअभ्यस्ताश्रयो जुस्, नित्यत्वाद्वुक्, अबोभूवुः॑, इति मूले यङ्लुङन्तेषूक्तम् । तथा चाऽपीपचन्नित्येतत्सिद्धये पञ्चमीसमास पक्ष आश्रयणीय इति । अन्येत्वाहुः-पञ्चमीसमासपक्षप्रयोजनतया भाष्येबेभिदिता॑माथितिकः॑ इत्यस्याप्युदाहृतत्वान्न तस्य वैयथ्र्यशङ्का कार्या । यद्यपि यङोऽकारलोपस्य स्थानिवद्भावं विनापिएकाच उपदेशेऽनुदात्ता॑दित्यत्र विहितविशेषणाश्रयणादेव इण्निषेधाप्रवृत्तौ भिदेर्यङन्तातृचि॒बेभिदिते॑ति रूपं सुसाधम्, तथापिमाथितिक॑ इत्यादिसिध्द्यर्थं स पक्षोऽभ्युपगन्तव्यः । न च मथितं पण्यमस्य माथितिक इत्यत्रापितदस्य पण्य॑मिति ठकि इकादेशे च कृतेयस्येति चे॑ति लोपात्इसुसुक्तान्तात् इति इकः स्थाने प्रसज्यमानो यः कादेशः सोऽप्यल्लोपस्य स्थानिवद्भावं विनैव सुपरिहरः,,ठस्येकः॑ इत्यत्रस्थान्यादेशयोरकार उच्चारणार्थः॑ इत्यभ्युपगमे अल्विधित्वेन स्थानिवद्भावाऽप्रवृत्त्या ठस्थानिक इकादेशष्ठो न भवतीति कादेशाऽप्रसक्तेर्माथितिक इति रूपसिद्धौ किमनेन पञ्चमीसमासपक्षाश्रयणेनेति वाच्यम्, मथितयते क्विपि टिलोपाणिलोपयोर्वेरपृक्तलोपे च-मथित्, तेन चरति माथितिक इत्यत्रचरति॑ इति ठकि तस्येकादेशसिद्धये तत्पक्षस्यावश्यकत्वात् । न ह्यत्र स्थानिवद्भावं विनापि इकादेशापवादः कादेशः सुपरिहारः, नाप्येतादृशकल्पनायां मानाऽभावः शङ्कयः,माथितिक॑ इति भाष्योदाहरणस्यैव मानत्वादिति । स्यादेतत्,-पूर्वत्वस्य सावधित्वेन संनिहतस्यैवावधित्वमुचितं, संनिहितं चेह त्रयं, — स्थानी आदेशो निमित्तं च, तत्र तावत्स्थानी नाऽवधिः । तस्यादेशेनापहारात् । नाप्यादेशनिमित्ते,वैयाकरण॑ इत्यत्रैकारस्यायादेशापत्तेरित्याशङ्कायाह-अचः पूर्वत्वेन दृष्टस्येति । पूर्वत्वमुपलक्षणं न तु विशेषणमिति भावः॥

Nyaas

किमर्थमिदमुच्यते? अनल्विधौ स्थानिवद्भावः उक्तः, अल्विध्यर्थमिदम्। पटयतीत्यादौ अत उपधायाः (7.2.116) इति वृद्धिरलाश्रया; अकारस्योपधाया अल्त्वात्। तस्मात् पूर्वेण न प्राप्नोतीत्येके एव परनिमित्तक एव पूर्वविधावेव कर्तव्ये स्थानिवद् भवतीति नियमार्थमित्यन्ये।अचेति स्थानिनिर्देशः इति। अचः इत्यनेन स्थानषष्ठन्ततां दर्शयति। परस्मिन्निति सप्तमीति इति। न परसप्तमी, परशब्देनैव परस्योक्तत्वादित्यभिप्रायः। पूर्वविधौ इति, विषय इति। प्रकृतत्वात् स्थानवद्भावस्येति गम्यते, पूर्वविधौ विषये स्थानिवद्भवति, नान्यस्मिन्नित्यर्थः। पूर्वस्य विधिः पूर्वविधिः। विधि-शब्दश्चायं कर्मसाधनः - विधियत इति विधिः। भावसाधनो वा - विधानं विधिरिति। कर्म-साधने ह्रेतस्मिन् पूर्वस्येति शेषलक्षणा षष्ठी। पूर्वस्य व्यवस्थितस्य लब्धसत्ताक-स्य सम्बन्धिनि कार्ये कर्तव्य इत्यर्थः। भावसाधने तु पूर्वस्य ` इति कृद्योग-लक्षणा कर्मणि षष्ठी। पूर्वस्यापरिनिष्पन्नस्य विधाने कर्तव्य इत्यर्थः। पूर्वस्मिन् विधातव्य इति यावत्। पूर्वत्वं पुनरिहादेशापेक्षम्, अजपेक्षम्, निमित्तापेक्षं वा; एषामेवादेशा-दीनामिह सन्निधानात्। तत्रादेशः स्वरितत्वात् सन्निहितः, इतरयोस्त्वत्रैव सूत्र उपादानात्। ननु च त्रिष्वप्येषु दोषः, तत्कथमादेशाद्यपेक्षया पूर्वत्वं शक्यमाश्रयि-तुम्, आदेशापेक्षे हि पूर्वत्व आश्रीयमाणे `पटयति इत्यादौ स्थानिवद्भावो न सिध्यति; लोपो हि तत्रादेशः, न च तेन पूर्वपरता सम्भवति; तस्याभावरूपत्वात्।स्यादेतत्- लोपस्य यः स्थानी तदपेक्षया पौर्वापर्यमस्तीतित तद्द्वारेणादे-शापेक्षयाप्यौपचारिकं तद् भविष्यतीति वार्तमेतत्; बहुखद्वकादिषु मुख्ये पौर्वा-पर्ये सत्यौपचारिककल्पनाया अयुक्तत्वात्। व्यक्तिः पदार्थः इत्यस्य दर्शनस्याश्रयणाददोषः। व्यक्तौ हि पदार्थे प्रतिलक्ष्यं लक्षणं प्रवर्तते। तत्र यदि पटयतीत्या-दिष्वौपचारिकत्वात् पौर्वापर्यस्य स्थानिवद्भावो न स्यात्, यदेतद्विषयं लक्षणं -तस्यानवकाशत्वाद् वैयथ्र्यं स्यात्, अयं तर्हि दोषः प्रथमस्तावत्पक्षोऽयुक्तः। द्वितीये तु काममेष दोषो न भवति। तथा हि - तत्र योऽचः पूर्वस्तस्य विधौ कर्तव्ये स्थानिवद्भवतीत्येषः सूत्रार्थः, इह च न य्वाभ्यां पदान्ताभ्याम (7.3.3) इतिवचनात् प्रगेवैजागमाद् यणादेशेन भवितव्यम्। तेन नास्त्यैचोरजपेक्षं पूर्वत्वमिति न भवति स्थानिवद्भावः, तदभावादैचोरायावावपि न प्राप्नुतः; किन्त्वत्र अचः इत्येतदा-देशविशेषणार्थं षष्ठन्तं प्रतिज्ञातम्, न तु पञ्चम्यन्तम्। तदा चाचः तदा पञ्चम्य-न्तं सम्पद्यते। अयं तर्हि दोषः - इह तन्वन्ति इत्युप्रत्ययस्य यणादेशकृत इट्प्राप्नोति, न ह्यत्राचः पूर्वस्य व्यवस्थितस्य किञ्चित्कार्यं विधीयते; यतो यणादेशस्य स्थानिवद्भावादिडागमो न स्यात्। तृतीये तु पक्षे यणादेश एव निमित्तात् पूर्वः। तस्य व्यवस्थितस्येटि विधातव्ये स्थानिवद्भावो लभ्यत इति न भवति तन्वन्तीत्यत्रेट्प्रसङ्गः; किन्त्वाद्ये पक्षे यो दोषः, स इहापि प्रसज्येत। वैयाकरणः, सौवआम् इत्यत्रापि य्वौ निमित्तात् पूर्वौ भवत इति। ननु च निमित्तात् पूर्वस्य कार्ये विधातव्ये स्थानिवद्भाव उच्यते, न चेह निमित्तात् पूर्वयोर्व्योः किञ्चित् कार्यं विधीयते। न ह्रायावादेशौ य्वोः कार्यम्, किं तर्हि? ऐचः,नैतदस्ति; ऐचो हि यत् कार्यं तद् य्वोरपि सम्बन्धि भवत्येव, तयोस्तद्भक्तयोस्तदवयवभूतत्वात्।अत्रोच्यते - आद्यन्तयोः पक्षयोर्यो दोष उक्तः, स तावन्न भवति; यस्माद् बहिरङ्गावैचौ, तद्धितश्रयत्वादङ्गाश्रयत्वाच्च; अन्तरङ्गावायावौ, तद्धितनिरपेक्षत्वाद् वर्णाश्रयत्वाच्च। असिद्धं बहिरङ्गमन्तरङ्गे (व्या।42) इत्यसिद्धत्वादैचोरायावौ नभ भविष्यतः। इतरस्मिन्नपि पक्षे यो दोष उक्तः, सोऽपि न भवत्येव; तत्र कर्मसाधने सर्वमिष्टं न सिध्यतीति भावसाधनोप्याश्रीयते। तेन तन्वन्तीत्यत्रेट एवापरिनिष्पन्न-स्याचः पूर्वस्य विधाने कर्तव्ये स्थानिवद्भावः सिद्धो भवति। कर्मसाधनेऽप्यदोषः; यणादेश एवात्राचः पूर्वः, तस्य विधाने कर्तव्ये एव। न हि यणादेशात् पूर्वस्यव्यवस्थितस्य कस्यचिदिड् विधीयते, किं तर्हि? यणादेशस्यैव। भावसाधने तु तस्मिन्नदोषः; यणादेशात् पूर्वस्यापरिनिष्पन्नस्येट एव विधानात्। तस्मात् तत्रापि पक्षे भावसाधन एव विधिशब्दोऽङ्गीकर्तव्यः।पटयति इति। तत्करोति तदाचष्टे इति णिच्, णाविष्ठवत् प्रातिपदिकस्य`(वा।813)इति टिलोपः। ननु चात्र व्यवधानात् पूर्वत्वं न सम्भवति; नैष दोषः; व्यवहितेऽपि हि पूर्वशब्दो वर्तते, यथा-`मथुरायाः पूर्वं पाटलिपुत्रम् इति। ननु च द्वितीया समर्थाण्णिजुत्पद्यते, तत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां जश्त्वे सति पडयतीति भवितव्यम्। टिलोपस्य स्थानिवद्भावाज्जश्त्वं न भवतीति चेत्, न; जश्त्वविधौ स्थानिवद्भावप्रतिषेधात्, नैष दोषः; तदाचष्टे इत्यत्र हि तदिति न द्वितीयासमर्थादिति, कुतस्तर्हि? कर्मणि इति। कुत एतत्? अर्थनिर्देश-परत्वात्। एतदुक्तं भवति- कर्मसंज्ञकात् तदाचष्ट इत्यस्मिन्नर्थे णिज् भवतीति। तस्मादसुबन्धाण्णिजुत्पत्तेः पदसंज्ञाया अभावाज्जश्त्वं न प्रवर्तते। अवधीत् इति। हन्तेर्लुङ, हनो वध लुङि (2.4.42) इति वधशब्दोऽदन्त आदेशः, अतो लोपः (6.4.48) , आर्धधातुकस्येट् (7.2.35) , अस्तिसिचोऽपृक्त (7.3.96) इतीट्,िट ईटि` (8.2.28) इति सिचो लोपः। हलन्तलक्षण इति। वदव्रज (7.2.3) इत्यादेः सूत्राद्धल्ग्रहणानुवृत्तेः अतो हलादेर्लघोः (7.2.7) इति वृद्धिर्हलन्तलक्षणा। बहुखट्वकः इति। ननु च स्वरविधिं प्रति न स्थानिवद्भवति इति प्रतिषेधं वक्ष्यति,अतः स्थानिवद्भावस्य प्राप्तिरेव नास्तीत्ययुक्तमेतदुदाहरणम्, नैतत्; विशेषे हि स प्रतिषेधः - स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवतीति। न चायं लोपाजादेशः स्वरो न भवतीति खकाराकारस्योदात्तत्वं न भवति। कपि पूर्वम् (6.2.173) इत्युत्तर-पदान्तोदात्तत्वमेव भवति। प्रश्नः इति। यजयाचयतवितच्छप्रच्छ (3.3.90) इत्यादिना नङ। तुकि न स्थानिवद्भवति इति। तुकि कर्तव्ये न स्थानिवद्भवतीत्यर्थः। यदि हि स्याच् छकारमात्रस्य शादेशे कृते स्थानिवद्भावाद्विहितस्य तुकः श्रवणं स्यादित्येके, एतच्चायुक्तम्; अत्र ह्रन्तरङ्गत्वात् छे च (6.1.71) इति तुकैव प्राग् भवितव्यम्।न चात्रेद-मस्ति वार्णादाङ्गं बलीयः (व्या।परि।39) इति, नानाश्रयत्वात। यत्र ह्रेकं निमित्तमाश्रित्ययुगपद् वार्णमाङ्गं च प्राप्नोति, तत्रेदमुपतिष्ठते, यता - इयाय इति।अत्राकारमाश्रित्याभ्यासेकारस्य इको यणचि (6.1.77) इति यण् प्राप्नोति, अभ्यास-स्यासवण्र्ये (6.4.78) इतीयङ च। तत्र वार्णादाङ्गं बलीयः (व्या।परि।39) इत्यस्योपस्थानादियङेव भवति। प्रश्न इत्यत्र तु शादेशमनुनासिकमाश्रयति, तुक् पुनश्छकारम्;अतो नानाश्रयत्वान्नोपतिष्ठते। तस्मात् तुकात्र भवितव्यमेव। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा च्छ्वोः शूडनुनासिके च (6.4.19) इत्यत्र यद्वक्ष्यति वृत्तिकारः - अन्तरङ्गत्वात् `छे च (6.1.71) इति तुकि कृते सतुक्कस्यायमादेशः` इति, तद्विरुध्यते।अन्ये तु व्याचक्षते - च्छवोः शूडनुनासिके च (6.4.19) इति सूत्रे सतुक्क-स्य च्छकारस्य निर्देशः इत्येव केनचिदाचार्येण शिष्याः प्रतिपादिताः, केनचित्तु तुग्विरहितस्य शुद्धस्य इत्येवम्, उभयं चैतत् प्रमाणम्। द्वैतत्वे तत्राङ्गेन वा च्छ्वौ विशेष्येते, छकारवकाराभ्यां वाङ्गमिति। तत्राद्ये पक्षेऽङ्गस्य यश्छस्तस्य शादेश इति। वाक्यार्थः; सतुक्कस्य च स्थानित्वेनोपादानात्। अन्तरङ्गे तुकि कृते`नानार्थके अलोऽन्त्यविधिः` (व्या।प।62) इति तदन्तविध्यभावात् समुदायस्यैवादेशो भवति। यदा शकारविधौ सतुक्कस्य च्छकारस्य निर्देशः, प्रश्न इत्येतत् तदानीमज्ग्रहण-स्याप्रत्युदाहरणमेव; तुकः पुनः प्रसङ्गाभावात्। यदा तु च्छकारवकाराभ्यामङ्गं विशेष्यते, तदा छकारान्तस्याङ्गस्य स्थानित्वम्। अस्मिन् पक्षे शविधौ शुद्ध एव छकार उपात्तो वेदितव्यः। अन्तरङ्गत्वात् तु पूर्वं तुकि कृते पश्चादलोऽन्त्यपरिभाषाया उपस्थानात् उपस्थानात् छकारमात्रस्य शकारः। तस्मिन् कृते निमित्ताभावात् तुको निवृत्तिः; यथा - स्थातेत्यत्र षत्वनिवृत्तौ ष्टुत्वस्य। अत्र पक्षे प्रश्न इत्येतत् प्रत्युदाहरणमज्ग्रहणस्य। यद्यत्र स्थानिवद्भावः स्यात्, तुकः प्रत्यावृत्तिर्भवेत्; निमित्तसद्भावात्, यथा - प्रत्यष्ठात् इत्यत्र ष्टुत्वस्य। तुकि नस्थानिवद्भवति इत्यस्यायमर्थः- योऽसौ निमित्ताभावान्निवृत्तस्तुगासीत्, तमेव पश्चात् प्रत्यावर्तमानं प्रति न स्थानिवद्भवतीति पुनः प्रत्यावृत्तिरेव।पूर्वविधिः इति। ननु च यद्यत्र तुकः प्रत्यावृत्तिः स्यान् नङो ङित्करणम-र्थकं स्यात्। तद्धि प्रच्छः प्रसारणार्थ वा विच्छेर्गुणप्रतिषेधार्थ वा क्रियते।तत्र प्रच्छेर्नङि सम्प्रसारणेन न भवितव्यम्; प्रश्ने चासन्नकाले (3.2.117) इति निपातनात्। यदि च स्थानिवद्भावे सति तुकः प्रत्यावृत्तिः स्यात्र् ततो गुणप्रतिषेधार्तमपि स्यात्, अलघूपधत्वादेव गुणो न भविष्यति, ततश्चानर्थकमेवैतत् स्यात्? नानर्थकम्; अनित्यमागमशास्त्रम् (व्या।प।99) इति ज्ञापनार्थत्वात्। अनित्यत्वज्ञपाने त्वागमशासनस्य स्नक्रमोरनात्मनेपदनिमित्ते (7.2.36) इत्यत्र यद्वक्ष्यति - क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः इति, तन्न वक्तव्यं इति। उछि उञ्छे (धातुपाठः-215), विछ गतौ (धातुपाठः-1424), सनाद्यन्ता धातवः (3.1.32) इत्येवमादयो निर्देशाश्चोपन्ना भवन्ति।आक्राष्टाम् इति। कृष विलेखने (धातुपाठः- 990) आङ्पूर्वाल्लुङ; च्लिः, स्पृशमृशकृषतृपदृपां सिज् वा (वा।207) इत्युपसंख्यानात् क्सस्यापवादः पक्षे सिच्, ततस्ताम् अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (6.1.59) इत्यमागमः, यणादेशः,`वदव्रजः` (7.2.3) इत्यादिना वृद्धिः।वैयाघ्रपद्यः इति। व्याघ्रस्यैव पादावस्येति बहुव्रीहिः। पादस्य लोपोऽहस्त्यादिभ्यः (5.4.138) इत्यन्तलोपः। व्याघ्रपादिति स्थिते गर्गादित्वाद् यञ्, पादः पत् (6.4.130) इति पद्भावः। आदीध्ये इति। अदादित्वाच्छपो लुक्। अथात्रटेरेत्त्वात् प्रागेव कस्माल्लोपो न भवति? स्यात्, यदि परस्मिन् इत्युच्यमाने तु स्थानिवद्भावाभावात् कृते टेरेत्त्वे न प्राप्नोतीत्यनित्यो लोपः। टेरेत्त्वं तु कृताकृतप्रसङ्गित्वान्नित्यम्। तस्मात् तदेव पूर्वं भवति।हे गौः`इति। `गोतो णित् (7.1.90) इति णित्त्वात् सर्वनामस्थानस्य अचो ञ्णिति (7.2.115) वृद्धिः। सम्बुद्धिलोपे कर्तव्ये इति। एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इत्यनेन। बाभ्रव्यस्य इति। बभ्व्रोरपत्यमिति मधुबभ्व्रो-र्बाहृणकौशिकयोः (4.1.106) इति यञ्, ओर्गुणः (6.4.146) वान्तो यि प्रत्यये (6.1.79) इति वान्तादेशः, आदिवृद्धिः, बाभ्रव्य इति स्थिते वृद्धाच्छः (4.2.114) यस्येति च (6.4.148) इत्यकारलोपः। अवादेशो न स्थानिवद्भवति इति। ननु चासत्यपि स्थानिवद्भावे सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य (व्या।परि।12) इति न भवितव्यमेवात्र यलोपेन, तथा हि - यकारादववादेशेनात्मलाभः प्रतिलब्धः इति नोत्सहते स तं बाधितुम्; नैतदस्ति; सङ्घातो ह्यत्र सन्निपातलक्षणः, नावयवो हल्; सत्यपि वा तस्यसन्निपातलक्षणत्वे न भवत्येव दोष-; अनित्यत्वात् सन्निपातलक्षणपरिभाषायाः। अनित्य-त्वं तु न लोपः सुप्स्वर (8.2.2) इत्यादौ सूत्रे ज्ञापयिष्यतते। नैधेयः इति। निपूर्वो डुधाञ् (धातुपाठः-1092), उपसर्गे घोः किः (3.3.92) , आतो लोपः,निधि इति स्थिते द्वयचः इतश्चानिञः (4.1.122) इति ढक्। ननु पूर्वस्माद् विधिः पूर्वविधिरिति पञ्चमीसमासस्याप्यभीष्टत्वात् पूर्वस्मादपि विधौ कर्तव्ये स्थानिवद्भावेन भाव्यम्, तथा हि ठस्येकः (7.3.50) इत्यत्र वक्ष्यति- मथितं पण्यमस्य माथितिक इत्यत्रयस्येति लोपे कृते `इसुसुक्तान्तात्कः (7.3.51) इति स्थानिवद्भावादिकस्य कादेशःप्राप्तः; सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति,अकारलोपस्य स्थानि-वद्भावत्वात्; पूर्वस्मादपि विधौ स्थानिवद्भवति` इति। तदेवं यस्मात् पूर्वस्मादपिविधौ स्थानिवद्भावोऽनेन भवति, तस्मात् ` हे गौः` इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदारणानि, नैष दोषः; इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदाहरणानि, नैष दोषः; पूर्वस्माद् विधौ कर्तव्येयः स्थानिवद्भावाः,तस्यानिवत्वात्। अत एव चानित्यत्वादप्रधानभूतोऽसाविति वृत्तावस्य सूत्रस्य पूर्वस्मादिति न प्रतिपादितस्तदेवा प्राधान्यस्य दर्शयितुम्। कुतः पुनस्तस्यानित्यत्वमवसितम्? निष्ठायां सेटि (6.4.52) इत्यत्र सेड्ग्रहणात्।तदेवमर्थं क्रियते- इटि कृते णिलोपो यथा स्यादिति। यदि ह्रकृत एव तस्मिन् णिलोपः स्यात्, कारितमित्यत्रेडागमो न स्यात्; एकाच इति प्रतिषेधात्। तथा च तत्रवक्ष्यति - ` सेडिति किम? संज्ञापितः पशुः सनीवन्तर्ध (7.2.49) इति ज्ञपेरिड्विकल्प्यते। यस्य विभाषा इति निष्ठायामिट्प्रतिषेधः। अथ पुनरेकाचेति तत्रानुवर्तते, तत्र निष्ठायाम् अत्र भवितव्यमिडागमेन इति। सेड्ग्रहणमनर्थकंस्यात्; तत् क्रियते कालावधारणार्थम्। इडागमे कृते णिलोपो यथा स्यात्` इति। अकृते तस्मष्टिलोपे सति कारितमित्यत्र एकाच उपेदेशेऽनुदात्तात् (7.2.10) इति प्रतिषेधः इटः प्रसज्येत। यदि च रपूर्वस्माद् विधौ कर्तव्ये नित्यं स्थानिवद्भावः स्यात्, णिलोपस्य स्थानिवद्भावे सत्यनेकाचत्वादिट्प्रतिषेधस्य प्रसङ्ग एव नास्तीति सेड्ग्रहणम् न कुर्यात्, कृतं च; ततोऽवसीयते - पूर्वस्माद् विधानित्यः स्थानि-वद्भावः इति। तेन गौरित्यादिषु पूर्वस्माद् विधौ कर्तव्ये स्थानिवद्भावो न भवति।अथ विधिग्रहणं किमर्थम्, यावता पूर्वस्येत्येवं सिद्धम? तथा हि, कार्यापे-क्षया षष्ठी भविष्यति-पूर्वस्य विधौ कर्तव्य इति, नैतदस्ति; असति हि विधिग्रहणे यदि पूर्वस्येत्युच्येत, पूर्वस्येत्युच्येत, पूर्वस्माद् विधौ स्थानिवद्भावो न स्यात्। अथ पूर्वस्मादित्युच्येत, पूर्वस्य विधौ न स्यात्। विधिग्रहणे सति षष्ठीसमासः पञ्चमीसमासश्च लभ्यत इति सर्वत्र सिध्यति। तस्मात् समासद्वयार्थं विधिग्रहणं कर्तव्यम्॥

Praudhamanorama

अल्विध्यर्थमिति। तेन वव्रश्चेत्यत्र वस्य सम्प्रसारणं न । उरदत्वस्य स्थानिवत्वेन संप्रसारणतया न संप्रसारण- (6.1.37) इति निषेधात्। न चोरदत्वं परनिमित्तं नेति वाच्यम्। अङ्गाक्षिप्ते प्रत्यये परे तद्विधानात्, ‘प्रागभ्यासविकारेभ्योऽङ्गाधिकारः’ इति पक्षं दूषयित्वा ‘आसपातमसमाप्तेः’ इति पक्षस्यैव आकरे सिद्धान्तितत्वात्। किं च पूर्वसूत्रेण स्थानिप्रयुक्तमतिदिश्यते नत्वादेशप्रयुक्तं वार्यते, ‘नायकः’ ‘पावकः’ इत्यादौ एचोऽयवायावः (6.1.78) इत्यादीनामप्रवृत्तिप्रसङ्गात्। अनेन तु वार्यते, शब्दाधिकारमाश्रित्य भावाभावयोरुभयोरप्यतिदेशोऽयमिति स्वीकारात्। न पदान्त (1.1.58) इति सूत्रे यलोपदीर्घादिग्रहणं चेह लिङ्गम्। अत एव ‘गणयति’ इत्यादौ न वृद्धिः। स्थानिनि सत्यभवन्त्यास्तस्या आदेशेऽप्यभावातिदेशात्। उक्तं च ‘काममतिदिश्यतां वा सच्चासच्चापि नेह भारोऽस्ति’ इति। स्यादेतत्। पूर्वत्वस्य सावधित्वेन सन्निहितस्यैव अवधित्वमुचितम्। सन्निहितं चेह त्रयम् स्थानी, आदेशो, निमित्तं च। तत्र न तावत् स्थानी अवधिस्तस्यादेशेनापहारात्। नाप्यादेशनिमित्ते, ‘वैयाकरण’ इत्यत्र ऐकारस्यायादेशापत्तेरित्याशङ्क्याह— अचः पूर्वत्वेन दृष्टस्येति। पूर्वत्वमुपलक्षणं न तु विशेषणमति भावः। एतेन ‘अचः पूर्वत्वविज्ञानादैचोः सिद्धम्’ इति वार्तिकं व्याख्यातम्॥