11043: सुडनपुंसकस्य¶
Padacheda: सुट् | S | 1 | 1 |
अनपुंसकस्य | S | 6 | 1 |
Sutrartha¶
नपुंसकलिङ्गभिन्नशब्दात् विहितानाम् ‘सुँ’, ‘औ’, ‘जस्’, ‘अम्’, ‘औट्’ प्रत्ययानाम् ‘सर्वनामस्थान’ इति संज्ञा भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘सर्वनामस्थान’ इति संज्ञा । अनेन सूत्रेण पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् च विहितानाम् सुट्-प्रत्याहारस्य प्रत्ययानाम् ‘सर्वनामस्थान’ इति संज्ञा दीयते । सुट्-इति कश्चन प्रत्याहारः । स्वौजसमौट्… (4.1.2) अस्मिन् सूत्रे ये २१ प्रत्ययाः पाठ्यन्ते, तेषु विद्यमानाः प्रारम्भिकाः पञ्च प्रत्ययाः - ‘सुँ, औ, जस्, अम्, औट्’ - एतेषां ग्रहणम् ‘सुट्’ अस्मिन् प्रत्याहारे कृतम् अस्ति । एते प्रत्ययाः यदा पुंल्लिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा विधीयन्ते, तदा एतेषाम् ‘सर्वनामस्थान’ इति संज्ञा भवति ।
प्रयोजनम्
सर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । द्वे उदाहरणे एतादृशे - 1. नकारान्तस्य अङ्गस्य उपधावर्णस्य सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन दीर्घादेशः भवति -
राजन् + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः । राजन् इति पुंलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति ।]
--> राजान् + औ [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन उपधादीर्घः]
--> राजानौ
ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन गुणः भवति -
मातृ + अम् [द्वितीयैकवचनस्य 'अम्' प्रत्ययः । 'मातृ' इति स्त्रीलिङ्गशब्दात् विहितः अयं प्रत्ययः सर्वनामस्थानसंज्ञकः भवति ।]
→ मातर् + अम् [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः]]
→ मातरम्
Sutrartha (English)¶
The सुँ, औ, जस्, अम्, and औट् प्रत्ययाः attached to a non-नपुंसकलिङ्ग word are called ‘सर्वनामस्थान’.
Vasu English Summary¶
The first five case affixes comprised in the प्रत्यहार सुट् (i.e. the three case-terminations of the Nominative, and the singular and dual of the Accusative) are also called सर्वनामस्थान , except the case-affixes of the neuter gender.
Vasu English Translation¶
The first five case affixes comprised in the प्रत्यहार सुट् (i.e. the three case-terminations of the Nominative, and the singular and dual of the Accusative) are also called सर्वनामस्थान , except the case-affixes of the neuter gender. This defines further the word sarvanamasthana. The case-terminations in Sanskrit are 21 as arranged below:-
Nominative प्रथमा सु (स्) औ जस् (अस्)
Accusative द्वितीया अम् औट् शस् (अस्)
Instrumental तृतीया टा (आ) भ्याम् भिस्
Dative चतुर्थी ङे (ए) भ्याम् भ्यस्
Ablative पंचमी ङसि (अस्) भ्याम् भ्यस्
Genitive षष्ठी ङस् (अस्) ओस् आम्
Locative सप्तमी ङि (इ) ओस् सुप् (सु)
The above are the 21 vibhaktis, the ज् of जस्, the श् of शस्, the ट् of औट् &c. are indicatory. All these vibhaktis are included in the pratyahara सुप् formed by taking the first vibhakti and the last letter of the last vibhakti. Similarly the first five terminations (सु. औ, जस्, अम् and औट्) are represented by सुट् and are called sarvanamasthana in the masculine and feminine genders. In the declension of nouns, it will be seen, that some nouns have two bases, one before these sarvanamasthana and the other before the rest.
Thus the word राजन् ‘king’ has the base राजान् before the सुट् vibhaktis, while in the remaining cases, the base is राज्ञ् and राज as:-
Nominative राजा राजानौ राजानः
Accusative राजानम् राजानौ राज्ञः
Instrumental राज्ञा राजभ्यां राजभिः
But in the neuter nouns there is no such difference.
Bhashya¶
सुडनपुंसकस्य ॥ शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः ॥ शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः प्राप्नोति। कुण्डानि तिष्ठन्ति। वनानि तिष्ठन्ति। असमर्थसमासश्चायं द्रष्टव्योऽनपुंसकस्येति। न हि नञ्ञो नपुंसकेन सार्मथ्यम्। केन तर्हि ? भवतिना। न भवति नपुंसकस्येति। यत्तावदुच्यते - शि सर्वामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेध इति। ॥ नाप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः - नपुंसकस्य नेति। किं तर्हि ? पर्युदासोऽयम् - यदन्यन्नपुंसकादिति। नपुंसके न व्यापारः। केनचित् यदि प्राप्नोति, तेन भविष्यति। पूर्वेण च प्राप्नोति। ॥ अप्राप्तेर्वा । अथवा - अनन्तरा प्राप्तिः सा प्रतिषिध्यते। कुत एतत् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। नोत्सहते प्रतिषिद्धा सती पूर्वां बाधितुम्। यदप्युच्यते - असमर्थसमासश्चायं द्रष्टव्य इति। यद्यपि वक्तव्यः। अथवैतर्हि बहूनि प्रयोजनानि। कानि? असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मण इति।
Kashika¶
सुडिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिर्न प्रतिषेधः, तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव। राजा, राजानौ, राजानः। राजानम्, राजानौ। सुडिति किम्? राज्ञः पश्य। अनपुंसकस्येति किम्? सामनी। वेमनी॥
Siddhanta Kaumudi¶
सुट् प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥
Laghu Siddhanta Kaumudi¶
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥
Balamanorama¶
सुडनपुंसकस्य - तत्र किं सर्वनामस्थानमित्यत आह — सुडनपुंसकस्य ।शि सर्वनामस्थान॑मित्यतःसर्वानामस्थान॑मित्यनुवर्तते । अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः । तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे — सुडिति प्रत्याहार इति ।सु॑इत्यत्र औटष्टकारेणे॑ति शेषः । नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात् ।
Tattvabodhini¶
सुडनपुंसकस्य - सुडनपुंसकस्य ।सुट् स्त्रीपुंसयो॑रिति वक्तव्येऽनपुंसकस्येति वचनं ज्ञापकंप्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्ती॑ति कैयटः । तेनअसूर्यंपश्यानि मुखानी॑त्यादि सिद्धम् ।
Padamanjari¶
सुडिति पञ्च वचनानीति । अनेनौटष्टकारेण प्रत्याहारः, न टाशब्दस्येति दर्शयति । आदिरन्त्येनेत्यत्रान्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहारः । लकारे त्वकारस्येत्संज्ञाविधानसामर्थ्यात् प्रत्याहार इति भावः । नपुंसकादन्यत्रेति । अनेन पूर्युदासतां दर्शयति । प्रज्यप्रतिषेधे हि कुण्डानि तिष्ठन्तीति जसः शौ, पूर्वेण या प्राप्तिस्तस्या अपि प्रतिषेधशङ्कायाम् ‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा’ इति परिहर्तव्यं स्याद्, असमर्थसमासश्चाश्रयणीयः स्यात् । नपुंसके न विधिरिति । स्त्रीपुंससम्बन्धिनः सुट उपादानाद् । न प्रतिषेध इति । विधिप्रधानत्वात् पर्युदासस्य । तेनेत्यादि । यत एवं नपुंसकेनास्य व्यापारः तेन जसो यः शिस्तस्य पूर्वेण संज्ञा भवतीति । सामनी इति । नपुंसकाच्चेति शीभावः । ‘विभाषा ङिश्योः’ इत्यिल्लोपाभावे दीर्घो न भवति ॥
Nyaas¶
सुइति प्रत्याहाररग्रहणम्- सुशब्दादारभ्य आ औटष्टकारात्। तत्र पञ्चैव वचनानयन्तर्भवन्तीत्याह -सुडिति पञ्च वचनानि इत्यादि। नपुंसकादन्यत्र इत्यादि। अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति। प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदंवाक्यं स्यात् - नपुंसकस्य न भवतीति। ततश्च यावती काचित् सुटः सर्वनामस्थानसंज्ञा-प्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः स्यात्। एवं हि कुण्डानि तिष्ठन्ति इत्यत्र पूर्वेणापि संज्ञा न स्यात्। तस्यास्तु शसः शिरादेशोऽवकाशः। यद्यपि अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।त19) इत्येतत्समाश्रयेण प्रसज्यप्रतिषेधेऽप्येष दोष- शक्यते परिहर्तुम्, तथापि प्रतिपत्तिगौरवदोषः स्यात्। तथा हि- विधिप्रतिषेधयोर्विरोधादेकेन वाक्येन तावच्छक्यो न विधातुमिति वाक्यभेदः कर्तव्यः- `सुट् सर्वनामस्थानसंज्ञो भवति। नपुंसकस्य च न भवति इति। ततश्चासम्बद्धं प्रतिषेधवचन-मिति पूर्वस्या अपि प्राप्तेरयं प्रतिषेधः सम्भाव्येत। ततस्तत्परिहारेणाभीष्टार्थप्रतिपत्तौ साध्यायां नियतभावी गौरवदोषः प्रसज्येत। तस्मात् सुखावबोधार्थं -पर्युदास एवाश्रितः। नपुंसके न विधिः` इति। स्त्रीपुंसम्बन्धिनः सुट उपादानात्। न प्रतिषेधः इति। विधिप्रधानत्वात् प्रयुदासस्य। एतेन नपुंसकेऽस्य योगस्याव्यापारं दर्शयति- तेन इत्यादि। यत एव नुपंसके नास्य विधौ प्रतिषेधे वा व्यापारः, तेन जसो यः शिरादेशस्तस्य तेन पूर्वयोगेन संज्ञा भवत्येव; अप्रतिषिद्धत्वात्। राजा इति। पूर्वद्दीर्घः। हल्ङ्यादिलोपः। `सामनी,वमनी`इति। नपुंसकाच्च (7.1.19) इति औङःशीभावः। तत्र संज्ञाया अभावाद्दीर्घत्वं न भवति।
Sarala¶
सुडिति । प्रथमैकवचनमारभ्य औटष्टकारपर्यन्तं सुट् प्रत्याहारः, नतु सुडागमस्याऽत्र ग्रहणम्, सर्वनामस्थाने चाऽसम्बुद्धौ (६.४.८) इत्यादावसम्बुद्धाविति पर्युदाससामर्थ्यात् ॥
Sudha¶
सुडनपुंसकस्येति । शि सर्वनामस्थानम्**(1.1.42) इत्यतः सर्वनामस्थानमित्यनुवर्तते । सुट् इति - सु इत्यारभ्य औटष्टकारेण प्रत्याहारस्तदेतदाह - **स्वादिपञ्चवचनानोत्यादिना |