Sutras 41 - 60¶
- 31041: विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
- 31042: अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि
- 31043: च्लि लुङि
- 31044: च्लेः सिच्
- 31045: शल इगुपधादनिटः क्सः
- 31046: श्लिष आलिङ्गने
- 31047: न दृशः
- 31048: णिश्रिद्रुस्रुभ्यः कर्तरि चङ्
- 31049: विभाषा धेट्श्व्योः
- 31050: गुपेश्छन्दसि
- 31051: नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः
- 31052: अस्यतिवक्तिख्यातिभ्योऽङ्
- 31053: लिपिसिचिह्वश्च
- 31054: आत्मनेपदेष्वन्यतरस्याम्
- 31055: पुषादिद्युताद्यॢदितः परस्मैपदेषु
- 31056: सर्त्तिशास्त्यर्तिभ्यश्च
- 31057: इरितो वा
- 31058: जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च
- 31059: कृमृदृरुहिभ्यश्छन्दसि
- 31060: चिण् ते पदः