31060: चिण् ते पदः

Padacheda: चिण् | S | 1 | 1 |

ते | S | 7 | 1 |

पदः | S | 5 | 1 |

Sutrartha


Vasu English Summary

चिण् is the substitute of च्लि after the verb पद् ‘to go’ when the affix त follows.

Vasu English Translation

चिण् is the substitute of च्लि after the verb पद् ‘to go’ when the affix त follows. The affix त here means the third person singular tense-affix of the Atmanepada; as अपादि ‘he went’; but not so in the dual and plural; as अपसाताम् ‘they two went’; अपत्सत् ‘they went’; अट् + पद + चिण् + त = अ + पाद् + त = अपादि (the affix त being elided by rule (6.4.104)).

Bhashya

चिण्ते पदः (677) (420 च्लेश्चिणादेशविधिसूत्रम्॥ 3.1.4 आ. 8) (तप्रत्ययनिर्णयाधिकरणम्) (अनुयोगभाष्यम्) अयं तशब्दोस्त्येवात्मनेपदम्, अस्ति परस्मैपदम्, अस्त्येवैकवचनम्, अस्ति बहुवचनम्। कस्येदं ग्रहणम्?। (उत्तरभाष्यम्) यः पदेरस्ति। कश्च पदेरस्ति?। पदिरयमात्मनेपदी॥ चिण् ते॥ 60 ॥

Kashika

पद गतौ अस्माद् धातोः परस्य च्लेश्चिणादेशो भवति तशब्दे परतः। सामर्थ्यादा — त्मनेपदैकवचनं गृह्यते। उदपादि सस्यम्। समपादि भैक्षम्। त इति किम्? उदपत्साताम्। उदपत्सत॥

Siddhanta Kaumudi

पदश्च्लेश्चिण्स्यात्तशब्द परे । प्रणयपादि । अपत्साताम् । अपत्सत् ।{$ {!1170 खिद!} दैन्ये$} । खिद्यते । चिखिदे । खेत्ता । अखित्त ।{$ {!1171 विद!} सत्तायाम्$} । विद्यते । वेत्ता ।{$ {!1172 बुध!} अवगमने$} । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् ।{$ {!1173 युध!} संप्रहारे$} । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् ॥ [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] इति वा ।{$ {!1174 अनो!} रुध कामे$} । अनुरुध्यते ।{$ {!1175 अण!} प्राणने$} । अण्यते । आणे । अणिता । अनेति दन्त्यान्तोऽमित्येके ।{$ {!1176 मन!} ज्ञाने$} । मन्यते । मेने । मन्ता ।{$ {!1177 युज!} समाधौ$} । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता ।{$ {!1178 सृज!} विसर्गे$} । अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिङसिचौ - (SK2300) इति कित्त्वान्नगुणोनाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् ।{$ {!1179 लिश!} अल्पीभावे$} । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ॥ अथागणान्ताः परस्मैपदिनः ॥{$ {!1180 राधो!} ऽकर्मकाद्वृद्धावेव $}। एवकारो भिन्नक्रमः । राधौऽकर्मकादेवश्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायाम् (SK2532) इत्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च ।{$ {!1181 व्यध!} ताडने$} । ग्रहिज्या (SK2412) इति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् ।{$ {!1182 पुष!} पुष्टौ$} । पुष्यति । पपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादि (SK2343) इत्यङ् । अपुषत् ।{$ {!1183 शुष!} शोषणे$} । अशुषत् ।{$ {!1184 तुष!} प्रीतौ$} ।{$ {!1185 दुष!} वैकृत्ये$} ।{$ {!1186 श्लिष!} आलिङ्गने$} । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥

Laghu Siddhanta Kaumudi

पदश्च्लेश्चिण् स्यात्तशब्दे परे। अपादि। अपत्साताम्। अपत्सत॥ {$ {! 22 विद !} सत्तायाम् $} (धातुपाठे (04.0067)) ॥ विद्यते। वेत्ता। अवित्त॥ {$ {! 23 बुध !} अवगमने $} (धातुपाठे (04.0068)) ॥ बुध्यते। बोद्धा। भोत्स्यते। भुत्सीष्ट। अबोधि, अबुद्ध। अभुत्साताम्॥ {$ {! 24 युध !} संप्रहारे $} (धातुपाठे (04.0069)) ॥ युध्यते। युयुधे। योद्धा। अयुद्ध॥॥ {$ {! 25 सृज !} विसर्गे $} (धातुपाठे (04.0075)) ॥ सृज्यते। ससृजे। ससृजिषे॥

Balamanorama

चिण् ते पदः - चिण् ते पदः । पदश्च्लेरिति ।च्लेः सि॑जित्यत श्च्लेरित्यनुवर्तते इति भावः । तशब्दे इति । आत्मनेपदप्रथमैकवचनने इत्यर्थः । इदं च भाष्ये स्पष्टम् । प्रण्यपादीति । श्लेश्चिणि उपधावृद्धौचिणो लु॑गितितशब्दस्य लोपः ।नेर्गदे॑ति णत्वमिति भावः । विद सत्तायाम् । वेत्तेति । अनिडिति भावः । लिटि क्रादिनियमादिट् । एवं बुधष्टेति । ‘लिङ्सिचौ’ इति कित्त्वम् ।दीपजने॑ति चिण्विकल्पं मत्वा आह — अबोधि अबुद्धेति । कथं युध्यतीति । आत्मनेपदित्वादिति भावः । समाधत्ते — युधमिति । युध्शब्दो भावक्विबन्तः । युधमिच्थीत्यर्थे ‘सुप आत्मनः’ इति क्यजन्तात्परस्मैपदमित्यर्थः ।अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्य॑मिति समाधानं त्वनुचितं, तस्य भाष्याऽदृष्टत्वेनाऽप्रामाणिकत्वात् । अत एवव्यत्ययो बहुल॑मिति सूत्रभाष्येप्रतीपमन्य ऊर्मिर्युध्यती॑त्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुधेति । अनु इत्युपसर्गात्परो रुधधातुः कामे वर्तत इत्यर्थः । युज समाधौ । अनिट् । अकर्मक इति । चित्त्वृत्तेर्धात्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति,सृजियुज्योः सकर्मकयोः कर्मवद्भाव॑ इति कर्मवत्सूत्रवार्तिकात् । एतच्च कर्मकर्तृप्रक्र#इयायां वक्ष्यते । लिटआह — ससृजिषे इति । क्रादिनियमादिडिति भावः । रुआष्टेति ।सृजिदृशोर्झल्यमकिती॑त्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः । ष्टुत्वेन तकारस्य ट इति भावः । रुआक्ष्यते इति । पूर्वपदमि जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । आशीर्लिङि आह — सृक्षीष्टेति । अत्र लघूपधगुणमाशङ्क्याह -लिङ्सिचाविति । नाप्यमिति ।सृजिदृशोर्झल्य॑मित्यमपि नास्तीत्यर्थः । अकित्ये तद्विधानादिति भाव । लुङ्याह — असृष्टेति ।झलो झली॑ति सिचो लोपः ।लिङ्सिचावात्मनपदेषु॑ इति सिचः कित्त्वान्न गुणो नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति । ‘लिङ्सिचौ’ इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधा॑दिति क्सः । आगणान्तादिति । दिवादिगसमाप्तिपर्यन्तमित्यर्थः । राधोऽकर्मकाद्वृद्धावेवेति । श्य॑न्निति शेषः । राधधातोरकर्मकाद्वृद्धावेवाऽर्थे श्यनिति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरर्थान्तरे च श्यन् स्यात् । इष्यते हिअपराध्यती॑त्यादौ द्रोहाद्यर्थेऽपि श्यन् । तत्राह — एवकारो भिन्नक्रम इति । यस्मिन् कमे वृद्धावित्यत ऊध्र्वम एवकारः पठितः, ततोऽन्यः कमो यस्य स भिन्नक्रम इत्यर्थः ।वृद्धा॑वित्यत ऊध्र्वं पठित एवाकरोऽन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति — राधोऽकर्मकादेव श्यनिति । एवं चार्थान्तरेऽपि श्यन् सिध्यति ।शत्रुं हिनस्ती॑त्यर्ते शत्रुमपराध्नोतीत्यत्र सकर्मकत्वान्न श्यन्निति भाव- । तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्क्य अकर्मकक्रिया एवं विधेति प्रदर्शनार्थं तत्, नतु परिसङ्ख्यानार्थमित्याह — उदाहरणमाह — वृद्धावितीति । एवं च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः । तथाविधाऽर्थान्तराण्युदाहरति — यन्मह्रमित्यादिना ।क्रुधद्रुहे॑ति संप्रदानत्वम् । कृष्णाय राध्यतीति ।राधीक्ष्योर्यस्य विप्रश्नःर॑ इति संप्रदानत्वम् । दैवमिति । कृष्णस्य किमिदानां शुभमशुभं वेति पृष्टो दैवज्ञस्तस्य शुभाऽशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत् । ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह — दैवस्येति । ननुराधोऽकर्मकाद्वृद्धावेवे॑त्यत्र वृद्धिग्रहमस्यौपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकतवाद्रराधतुरित्यादौराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाऽभ्यासलोपौ स्यातामित्यत आह — राध इति । इह नेति.रराधतुरित्यादौ राधेर्हिंसार्थकत्वेराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः । कुत इत्यत आह — हिंसार्थस्येति । नोन्मिषत्येवैषा शङ्का, राधेरकर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाऽभावादुक्तशङ्काया अनुन्मेषादित्यर्थः । ननु राध्नोति राधयतीति कथमित्यत आह — अयं स्वादिश्चुरादिश्चेति । रराधिथ । क्रादिनियमान्नित्यमिट्, दीर्घाकारवत्त्वेन ‘उपदेशेऽत्वतः’ इत्यस्याऽप्रवृत्तेः, अजन्तोऽकारवानित्यत्र च ह्रस्वाऽकारस्यैव विवक्षितत्वात् । राद्धा । अरात्सीत् । व्यध ताडने इति । चतुर्थान्तोऽयम् । अनिट् । विध्यतीति । श्यनो ङित्त्वात्ग्रहिज्ये॑ति यकारस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न संप्रसारणं ,न संप्रासरणे संप्रसारण॑मिति निषेधात् । विव्याधेति । द्वित्वे कृते अभ्यासस्यलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । विविधतुरिति । परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वमिति भावः । भारद्वाजनियमात्थलि वेडित्याह — विव्यधिथ विव्यद्धेति ।लिटभ्यासस्ये॑ति संप्रसारणम् । अनिट्पक्षेझषस्तथो॑रिति धः । अव्यात्सीदिति । हलन्तलक्षणा वृद्धिः । पुष पुष्ठौ । अनिट् । पुपोषिथेति । अजन्ताऽकारवत्त्वाऽभावाक्रादिनियमान्नित्यमिट् । अपुषदिति । पुषाद्यङ् ।ङित्त्वान्न गुणः । शुष धातुरनिट् । अशुषदिति । पुषाद्यङिति भावः । एवमग्रेपि । तुष् दुष् श्लिष् — एतेऽनिटः । लुङि स्लिषश्च्लेः सिजादेशे प्राप्ते -

Tattvabodhini

चिण् ते पदः - चिण् ते पदः । तशब्द इति । सामर्थ्यादात्मनेपदप्रथमपुरुषैकवचनम् । तशब्दे किम् । अपत्थाः । प्रण्यपादीति ।चिणो लु॑गिति तशब्दस्य लुक् ।नेर्गदे॑ति णत्वम् । अबोधीति ।दीपजनबुधे॑ति चिण् । अनो रुध कामे । अनोः परो रुधधातुः कामे इच्छा । दिवादिषु पाठसामर्थ्यात्रुधादिभ्यः॑ इति श्नमं बाधित्वा श्यन् । नाप्यमिति ।सृजिदृशोर्झल्यमकिती॑त्यकित्येव विधानात् । लिश । आतपादिनाऽनल्पस्य अल्पभावोऽल्पीभावः । लिक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधे॑ति क्सः । राधोऽकर्मकात् । भिन्नक्रमं दर्शयति — अकर्मकादेवेति ।राधो वृद्धावेव श्य॑न्निति व्याख्यायामकर्मकादिति विशेषणं व्यर्थं स्यात्, वृद्धावस्याऽकर्मकत्वात् । अकर्मकात्किम् । शत्रुमपराध्नोति । हिनस्तीत्यर्थः । राध संसिद्धाविति स्वादौ ।राधो हिसाया॑मित्यनुवादार्द्धिसायामप्ययम् । उदाहरणमाहेति । अकर्मकत्वप्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः । अकर्मके श्यन्नन्तस्य प्रयोगान्दर्शयति- यन्मह्रमित्यादिना । कृष्णायेति । राधीक्ष्यो॑रिति चतुर्थी । अपुषदिति । ङित्तवाद्गुणाऽभावः । शुष । शोष्टा । शोक्ष्यति ।श्लिष आलिङ्गने॑ इति सूत्रं योगविभागेन व्याचष्टे - श्लिष इति ।

Padamanjari

चिण् ते पदः॥ सामर्थ्यादिति। धातोरात्मनेपदित्वात्परस्मैपदबहुवचनस्य स्थाने यस्तशब्दः’तस्थस्थमिपाम्’ इति विहितः, तस्यास्मिन्विषयेऽसम्भवः। सामर्थ्यादुदपादीति।’चिणो लुक्’ । उदपत्सतेति। ठात्मनेपदेष्वनतःऽ इत्यदादेशः। इह वेति निवृतम्; उतरत्रान्यतरस्यां ग्रहणात्॥

Nyaas

सामर्थ्यात् इत्यादि। तशब्दो। ञयमस्त्येवात्मनेपदैकवचम्, अस्ति च परस्मैपदमध्यमपुरुषबहुवचनं यस्यस्य स्थाने विधीयते; तत्रास्य धातोरात्मनेपदित्वात् परस्मैपदबहुवचनं न सम्भवति, अतः पारिशेष्यावात्मनेपदैकवचनस्य ग्रहणम्। इयमेव च पारिशेष्यसिद्धिः सामर्थ्यम्। उदपादि इति। चिणो लुक् (6.4.104) इति तशब्दस्य लुक्। उदपत्साताम् इति। आताम्, खरि च (8.4.54) इति चत्त्र्वम्। उदपत्सत इति। झे आत्मनेपदेष्वनतः (7.1.5) इत्यदादेशः। इह वेति निवृत्तम्। उत्तरत्रान्यतरस्यांग्रहणात्॥

Prakriyasarvasvam

एकवचने तशब्दे पदे पदश्च्लेः चिण् स्यात् । अपादि । अपत्साताम् । अपस्तत । ‘झलो झलि’ । अपत्थाः । अपद्ध्वम् । अपत्सि । अपत्स्वहि । लिटि पेदे । पेदिषे । पेदिध्वे । पत्सीष्ट । पत्ता । पत्स्यते । अस्य कर्मण्यपि न भेदः । असु क्षेपणे । अस्यति ।<!उपसर्गादस्यत्यूह्योर्वा!> (वा०) इति वा तङ् । निरस्यति, निरस्यते । लुङि ‘अस्यतिवक्ति—’ इत्यङ् । स च तङ्यपि स्यादित्युक्तम् ।

Sutra Prayogas

  • व्युदपादि (शिशुपालवधम्): चिण् ते पदः इति चिण्प्रत्ययः।

  • समपादि (शिशुपालवधम्): चिण् ते पदः इति चिण् प्रत्ययः।

  • आपादि (भट्टिकाव्यम्): चिण् ते पदः इति च्लेश्चिणादेशः।

  • आपादि (भट्टिकाव्यम्): चिण् ते पदः इति चिण्।