31053: लिपिसिचिह्वश्च

Padacheda: लिपि-सिचि-ह्वः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha

लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति ।

लुङ्लकारस्य विषये धातोः च्लि लुङि (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा 1) लिप् + लुङ् [लुङ् (3.2.110) इति लुङ्] → लिप् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → लिप् + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + लिप् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + लिप् + अ + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ + लिप् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → अलिपत् 2) षिच् (क्षरणे) → सिच् [धात्वादे षः सः (6.1.64) इति षकारस्य सकारादेशः] → सिच् + लुङ् [लुङ् (3.2.110) इति लुङ्] → सिच् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → सिच् + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + सिच् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + सिच् + अ + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ + सिच् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → असिचत् 3) ह्वेञ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → ह्वे + + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → ह्वे + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → ह्वा + अ + ल् [आदेश उपदेशेऽशिति (6.1.45) इति आकारादेशः] → ह्व् + अ + ल् [आतो लोप इटि च (6.4.64) इति आकारलोपः] → अट् + ह्व् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + ह्व् + अ + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ + ह्व् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → अह्वत् ज्ञातव्यम् - लिप्, षिच्, तथा ह्वेञ् एते त्रयः धातवः उभयपदिनः सन्ति । वर्तमानसूत्रेण एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः द्वयोः अपि पदयोः भवति । परन्तु आत्मनेपदस्य विषये आत्मनेपदेष्वन्यतस्याम् (3.1.53) इत्यनेन अयमादेशः केवलं विकल्पेनैव भवति ।

Sutrartha (English)

For the verb roots लिप् , सिच् and ह्वे , the च्लि-प्रत्यय is converted to अङ्.

Vasu English Summary

After the verbs लिप् ‘to paint’, सिच् ‘to sprinkle’ and ह्वे ‘to call’, अङ् is the substitute of च्लि when लुङ् (Aorist) follows signifying the agent.

Vasu English Translation

After the verbs लिप् ‘to paint’, सिच् ‘to sprinkle’ and ह्वे ‘to call’, अङ् is the substitute of च्लि when लुङ् (Aorist) follows signifying the agent. Thus अलिपत् ‘he painted or wrote’; असिचत्, ‘he sprinkled; and आहूत् ‘he called or challenged’.

Kashika

लिप उपदेहे , षिच क्षरणे, ह्वेञ् स्पर्धायाम् एतेभ्यश्च परस्य च्लेरङादेशो भवति। अलिपत्। असिचत्। आह्वत्। पृथग्योग उत्तरार्थः॥

Siddhanta Kaumudi

एभ्यश्च्लेरङ् स्यात् ॥

Laghu Siddhanta Kaumudi

एभ्यश्च्लेरङ् स्यात्। असिचत्॥

Balamanorama

लिपिसिचिह्वश्च - लिपिसिचि । लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।च्लेः सि॑जित्यतश्च्लेरिति,अस्यतवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । तदाह — एभ्य इति । इदं परस्मैपदविषयम्, आत्मनेपदे विकल्पविधानात् । तदाह —

Tattvabodhini

लिपिसिचिह्वश्च - लिपिसिचि । लिप उपदेहे । षिच क्षरणे ।अलिपत् । असिचत् ।

Padamanjari

लिपिसिचिह्वश्च॥ लिपिसिचिसहितो ह्वा - इति’मयूरव्यंसकादयः’ इति समासः। समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वं स्यात्, इतरेतरयोगे बहुवचनम्। ङ्सौ ठातो धातोःऽ इत्याकारलोपः। योगविभाग उतरार्थ इति। ठस्यतिवक्तिख्यातिलिपिसिचिह्वःऽ इत्येकयोगे त्वस्यादीनामप्युतरत्रानुवृत्तिः स्यात्, ततश्च तेभ्योऽप्यात्मनेपदे विकल्पः स्यात्॥

Nyaas

अह्वत् इति। पूर्ववदाकारलोपः। अथ किमर्थो योगविभागः, न अस्यतिवक्तिख्यातिलिपिसिचिह्वश्च इत्येक एव योगः कियतामित्याह - पृथक् इत्यादि। उत्तरसूत्रे लिपिप्रभृतिभ्य एवात्मनेपदेष्वङ्विकल्पो यथा स्यादित्येवमर्थो योगविभागः। एक योगे ह्रस्यत्यादीनामप्युत्तरत्रानुवृत्तिः स्यात् तथा च तेभ्योऽपि विकल्पेनाङ् प्रसज्येत॥

Prakriyasarvasvam

एभ्यश्च्लेरङ् स्यात् । अह्वत् । अह्वताम् । एवं अलिपत् असिचत् ।

Sutra Prayogas

  • नैषीद्व्यलिपन्न (भट्टिकाव्यम्): लिपेः लिपि - सिचि ह्वश्च इत्यङ् ।

  • व्यलिपद् (भट्टिकाव्यम्): लिपि-सिचि ह्रश्च इति चलेरङ्।

  • अलिपत (भट्टिकाव्यम्): परस्मैपदेषु लिपि इत्यादिना नित्ये प्राप्ते आत्मनेपदेष्वन्यतरस्याम् इति विकल्पेनाङ्।

  • आह्वो (भट्टिकाव्यम्): लिपिसिचिह्वश्च इत्यङ् ।

  • अभ्यषिचंस् (भट्टिकाव्यम्): लिपिसिचि हृश्च इत्यङ्।

  • व्यलिपन् (भट्टिकाव्यम्): लिपिसिचि इत्यङ्।

  • आह्वन् (भट्टिकाव्यम्): लिपिसिचि इत्यादिनाङ्।

  • आलिपन् (भट्टिकाव्यम्): लिपिसिचिह्वश्च इत्यङ्।