31045: शल इगुपधादनिटः क्सः

Padacheda: शलः | S | 5 | 1 |

इगुपधात् | S | 5 | 1 |

अनिटः | S | 6 | 1 |

क्सः | S | 1 | 1 |

Sutrartha

यः शल्-वर्णान्तः इगुपधः अनिट्-धातुः, तस्मात् परस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति ।

लुङ्लकारस्य विषये धातोः च्लि लुङि (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य वर्तमानसूत्रेण ‘क्स’ आदेशः भवति । धातुपाठे एतादृशाः अनिट्-इगुपध-शलन्त-धातवः आहत्य सप्तदश सन्ति - [शकारान्ताः] - दिश्, विश्, रिश्, लिश्, मुश्, क्रुश् , रुश्, स्पृश् [षकारान्ताः] - त्विष्, द्विष्, श्लिष्, कृष् [सकारान्ताः न सन्ति ।] [हकारान्ताः] - मिह्, लिह्, दिह्, दुह्, रुह् । एतेषां सर्वेषां विषये अनेन सूत्रेण च्लि-इत्यस्य क्स-आदेशः भवति । धातुपाठे गुह्, गृह्, बृह्, तृह् स्तृह् - एते पञ्च वेट्-धातवः अपि इगुपध-शलन्ताः सन्ति । अतः एतेषां प्रयोगः यदा ‘अनिट्’ रूपेण क्रियते तदा एतेषां परस्य च्लि-प्रत्ययस्य क्स-आदेशः विधीयते । अत्र त्रयः बिन्दवः ज्ञातव्याः - 1. श्लिष आलिङ्गने (3.1.46) इत्यनेन श्लिष्-धातोः केवल् ‘आलिङ्गन’ अस्मिन् अर्थे एव क्स-आदेशः विधीयते, अन्येषु अर्थेषु न । 2. न दृशः (3.1.47) इत्यनेन दृश्-धातोः क्स-प्रत्ययः न भवति । 3. <! स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः !> । अनेन वार्तिकेन स्पृश्, मृश्, कृष्, तृप्, दृप् - एतेषां विषये च्लि-इत्यस्य विकल्पेन ‘सिच्’ आदेशः अपि भवति । (स्पृश्, मृश् कृष् - एतेषाम् विषये वर्तमानसूत्रेण च्लि-इत्यस्य क्स-आदेशे प्राप्ते अनेन वार्तिकेन विकल्पेन ‘सिच्’ आदेशः अपि भवति । तृप्, दृप् - एतयोः विषये पुषादिद्युताद्यॢदितः परस्मैपदेषु (3.1.55) इत्यनेन अङ्-आदेशे प्राप्ते तस्य अपवादत्वेन अनेन वार्त्तिकेन विकल्पेन ‘सिच्’ आदेशः अपि भवति ।) ‘क्स’ अयमादेशः ‘कित्’ अस्ति, अतः गुणवृद्धिनिषेधादीनि कार्याणि अस्मिन् प्रत्यये परे दृश्यन्ते । कानिचन उदाहरणानि एतानि - 1. लिह्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लिह् + लुङ् [लुङ् (3.2.110) इति लुङ्] → लिह् + च्लि + ल् [च्लि लुङि (3.1.43) इति च्लि-विकरणप्रत्ययः] → लिह् + क्स + ल् [शल इगुपधादनिटः क्सः (3.1.45) इति क्स-आदेशः । कित्वात् क्ङिति च (1.2.5) इति लघूपधगुणनिषेधः ] → लिह् + स + ल् [ककारस्य लशक्वतद्धिते (1.3.8) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → अट् + लिह् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ + लिह् + स + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + लिह् + स + त् [इतश्च (3.4.100) इति इकारलोपः] → अ + लिढ् + स + त् [हो ढः (8.2.31) इति हकारस्य ढकारः] → अ + लिक् + स + त् [षढोः क सि**(8.2.41) इति ककारः] → अ + लिक् + ष + त् [**आदेशप्रत्यययोः (8.3.59) इति षत्वम्] → अलिक्षत् । 2. द्विष् -धातोः लुङ्लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् - द्विष् + लुङ् [लुङ् (3.2.110) इति लुङ्] → द्विष् + च्लि + ल् [च्लि लुङि (3.1.43) इति च्लि-विकरणप्रत्ययः] → द्विष् + क्स + ल् [शल इगुपधादनिटः क्सः (3.1.45) इति क्स-आदेशः । कित्वात् क्ङिति च (1.2.5) इति लघूपधगुणनिषेधः ] → द्विष् + स + ल् [ककारस्य लशक्वतद्धिते (1.3.8) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → अट् + द्विष् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ + द्विष् + स + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → अ + द्विक् + स + त [षढोः क सि**(8.2.41) इति ककारः] → अ + द्विक् + ष + त [**आदेशप्रत्यययोः (8.3.59) इति षत्वम्] → अद्विक्षत 3. दिश्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - दिश् + लुङ् [लुङ् (3.2.110) इति लुङ्] → दिश् + च्लि + ल् [च्लि लुङि (3.1.43) इति च्लि-विकरणप्रत्ययः] → दिश् + क्स + ल् [शल इगुपधादनिटः क्सः (3.1.45) इति क्स-आदेशः । कित्वात् क्ङिति च (1.2.5) इति लघूपधगुणनिषेधः ] → दिश् + स + ल् [ककारस्य लशक्वतद्धिते (1.3.8) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → अट् + दिश् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ + दिश् + स + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + दिश् + स + त् [इतश्च (3.4.100) इति इकारलोपः] → अ + दिष् + स + त् [व्रस्चभ्रस्ज… (8.2.36) इति षत्वम्] → अ + दिक् + स + त् [षढोः क सि**(8.2.41) इति ककारः] → अ + दिक् + ष + त् [**आदेशप्रत्यययोः (8.3.59) इति षत्वम्] → अदिक्षत्

Sutrartha (English)

The च्लि प्रत्यय that follows a शल्-वर्णान्त, इगुपध and अनिट्-धातु is converted to ‘क्स.

Vasu English Summary

After a verb that ends in a शल consonant and has an इक् vowel for its penultimate letter and does not take इट् – एकाच उपदेशेऽनुदात्तात् (7.2.10), क्स is the substitute of च्लि।

Vasu English Translation

After a verb that ends in a शल consonant and has an इक् vowel for its penultimate letter and does not take इट् – एकाच उपदेशेऽनुदात्तात् (7.2.10), क्स is the substitute of च्लि। The forms of the terminations of the Aorist with क्स are as follow:

Parasmaipada.

  • 1st person, सं, साव, साम्

  • 2nd person, सः, सत, सत

  • 3rd person, सत्, सतां, सत्

Almanepada.

  • सि, सीवहि, सीमहि

  • सथाः, थाः, साथाम्, सध्वम्, ध्वम्

  • सत, त, सातां, सन्त

As, मृश and कृष् in the last sutra have their Aorist with क्स as अमृक्सत् and अकृषत्; so दुह ‘to milk’ forms अधुक्षत् ‘he milked’, लिड् ‘to lick’ अलिक्षत्.

Why do we say ‘when ending in श, ष, and ह’? Observe अभैत्सीत्, अच्छैत्सीत्; here सिच् is employed. Why do we say ‘having for its penultimate इ, उ, ऋ or लृ’? Observe अधाक्षीत्. Why do we say ‘not having an intermediate इ’? Observe अकोषीत् an अमोषीत्. See (7.2.4) and (8.2.28).

Bhashya

शल इगुपधादनिटः क्सः (662) (415 च्लेः क्सादेशविधिसूत्रम्॥ 3.1.4 आ. 3) (1839 आक्षेपवार्तिकम्॥ 1 ॥) - क्सविधान इगुपधाभावः च्लेर्गुणनिमित्तत्वात्- (भाष्यम्) क्सविधाने इगुपधत्वस्याभावः। किं कारणम्?। च्लेर्गुणनिमित्तत्वात्। च्लिर्गुणस्य निमित्तम्। तत्र च्लावेव गुणे कृते इगुपधात् - इति क्सो न प्राप्नोति॥ (1840) समाधानवार्तिम्॥ 2 ॥) - न वा क्सस्याऽनवकाशत्वादपवादो गुणस्य- (भाष्यम्) न वा एष दोषः। किं कारणम्?। क्सस्यानवकाशत्वात्। अनवकासः क्सो गुणं बाधिष्यते॥ (1841 आक्षेपवार्तिकम्॥ 3 ॥) - अनिड्वचनमविशेषणं च्लेर्नित्यादिष्टत्वात्- (भाष्यम्) अनिड्वचनमविशेषणम्। किं कारणम्। च्लेर्नित्यादिष्टत्वात्। नित्यादिष्टः च्लिः न क्वचित् श्रूयते। तत्र च्लेरनिट इति क्सो न प्राप्नोति। (1842 दूषणपरिहारवार्तिकप्रथमखण्डम्॥ 4 ॥) - न वा क्सस्य सिजपवादत्वात् तस्य चानिडाश्रयत्वादनिटि प्रसिद्धे क्सविधिः- (भाष्यम्) न वैष दोषः। किं कारणम्?। क्सस्य सिजपवादत्वात्। सिजपवादः क्सः। स चानिडाश्रयः। नचापवादविषयमुत्सर्गोऽभिनिविशते। पूर्वं ह्यपवादाः प्रवर्तन्ते पश्चादुत्सर्गाः प्रकल्प्य चापवादविषयमुत्सर्गो भिनिविशते। तन्न तावदत्र कदाचित् सिज् भवति क्समपवादं प्रतीक्षते। क्सस्य सिजपवादत्वात्॥ तस्य चानिडाश्रयत्वाद् अनिट् प्रसिद्धः। अनिटि प्रसिद्धे क्सविधिः । अनिटि प्रसिद्धे क्सो भविष्यति॥ सिजिदानीं क्व भविष्यति?। (1842 वार्तिकद्वितीयखण्डम्॥ 5 ॥) - शेषे सिज्विधानम्- (भाष्यम्) शेषे सिज्विधानं भविष्यति अकोषीद् अमोषीद् इति॥ शल इगुपधा॥ 45 ॥

Kashika

शलन्तो यो धातुरिगुपधः, तस्मात् परस्य च्लेरनिटः क्स आदेशो भवति। दुह — अधुक्षत्। लिह — अलिक्षत्। शल इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधादिति किम्? अधाक्षीत्। अनिट इति किम्? अकोषीत्। अमोषीत्॥

Siddhanta Kaumudi

इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥

Laghu Siddhanta Kaumudi

इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्। अधुक्षत्॥

Balamanorama

शल इगुपधादनिटः क्सः - शल इगुपधा । शलन्त इति । ‘धातोरेकाचः’ इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः । क्सादेशोऽदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः ।

Tattvabodhini

शल इगुपधादनिटः क्सः - शल इगुपधा ।शल॑ इति धातोर्विशेषणात्तदन्तलाभः । शल इति किम् । अतिप्त । इगिति किम् । अगाढ । अनिटः किम् । औहिष्ट । क्सस्याचि । अजादाविति । अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः ।तङी॑ति तु केषांचित्प्रक्षेपस्तस्य काशिकादावनुक्तत्वादित्याहुः । अन्ये तुलुग्वा दुहे॑त्यत्र आत्मनेपदे इत्यपकर्षणात्तङीति लभ्यते । तेनदृशे क्सः॑ इति वार्तिकोक्तक्सप्रत्ययस्य लोपो न भवति, सदृक्षा अन्यादृक्षा इत्यत्रेत्याहुः ।

Padamanjari

शल ङ्गुपधादनिटः क्सः॥ शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमितत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्?’क्सस्याचि’ इति विशेषणार्थम्।’सस्याचि’ इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः - अत्रापि प्राप्नोति? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः - तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्;’घोर्लोपो लेटि वा’ इति प्रकरणे - धातुप्रत्ययानां ग्रहणम्, किं च’लुग्वादुहदिह’ इत्यत्राचिऽ इत्यतः क्सस्येति वर्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपतिः। अघुक्षदित्यादि।’दादेर्द्धातोर्घः’ , ठेकाचो वशो भष्ऽ। अलिक्षदिति।’लिह आस्वादने’ ‘हो ढः’ ।’भिदिर्विदारणे’ ‘च्छिदिर्द्वैधीकरणे’ ‘कुष निष्कर्षे’ ‘मुष स्तेये’ ॥

Nyaas

अघुक्षत् इति। दुह प्रपूरणे (धातुपाठः-1014), दादेर्धातोर्घः (8.2.32) , एकाचो बशो भष् (8.2.37) इत्यनेन दकारस्य भष्भावेन धकारः, धकारस्य खरि च (8.4.54) इति चर्त्वम् - ककारः। अलिक्षत् इति। लिह आस्वादने (धातुपाठः-1016), हो ढः (8.2.31) इति ढत्वम्, पूर्ववत् षत्वकत्वे। अधाक्षीत् इति।` दह भस्मीकरणे` (धातुपाठः-991), पूर्ववत् ढत्वकत्वषत्वभष्भावचर्त्वानि। अकोषीत् इति। कुष निष्कर्षे (धातुपाठः- 1518) लघूपधगुणः॥

Prakriyasarvasvam

शलन्तादिगुपधादनिटः परस्य च्लेः क्सः स्यात् । क्सस्य कित्त्वादगुणः । षस्य कत्वम् । अद्विक्षत् । अद्विक्षताम् । झस्य अन्तादेशे कृते ।

Sutra Prayogas

  • न्यविक्षत (शिशुपालवधम्): शल इगुपधादनिटः क्सः इति लुङि क्सप्रत्ययः।

  • आदिक्षद् (भट्टिकाव्यम्): शल इगुपधात्… इत्यादिना चलेः क्सः ।

  • अदृक्षता (भट्टिकाव्यम्): शल इगुपधा इति प्रातस्य क्सादेशस्य।

  • न्यविक्षत (भट्टिकाव्यम्): विशे: शल इगुपधादनिटः क्सः इति क्सः।

  • घुक्षः (भट्टिकाव्यम्): शल इगुपधादनिटः क्सः इति क्सः ।

  • द्राक्षीर्मृषा (भट्टिकाव्यम्): शल इगुपधादनिटः क्सः इति क्सस्य निषेधः ।

  • न्यविक्षत (भट्टिकाव्यम्): शल इगुपधा- दनिट: क्सः इति क्सप्रत्ययः।

  • व्यक्रुक्षद् (भट्टिकाव्यम्): शल इगुपधादनिटः क्सः इति क्सः।

  • निरदिक्षच्च (भट्टिकाव्यम्): शल इगुपधादनिटः क्सः इति क्सः ।

  • समाश्लिक्षच्च (भट्टिकाव्यम्): शलः इति क्सः।