31044: च्लेः सिच्

Padacheda: च्लेः | S | 6 | 1 |

सिच् | S | 1 | 1 |

Sutrartha

च्लि-विकरणस्य सिच्-आदेशः भवति ।

लुङ्लकारस्य विषये च्लि लुङि (3.1.43) इत्यनेन ‘च्लि’ इति विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य अनेन सूत्रेण सिच्-आदेशः विधीयते । ‘सिच्’ इत्यत्र इकारचकारौ इत्संज्ञकौ स्तः, अतः तयोः लोपः भवति, सकार एव अवशिष्यते । यथा, पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → पठ् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → पठ् + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ पठ् + स् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ पठ् + स् + त् [इतश्च (3.4.100) इति इकारलोपः] → अ पठ् + इट् स् + त् [आर्द्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते (7.3.96) इति ईट्-आगमः] → अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः (7.2.7) इति वैकल्पिकवृद्धिः] → अ पठ्/पाठ् + इ + ई + त् [इट ईटि (8.2.28) इति सकारलोपः] → अपठीत् / अपाठीत् [ <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] [ <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ] ज्ञातव्यम् - अनेन सूत्रेण ‘औत्सर्गिकरूपेण’ च्लि-इत्यस्य सिच्-आदेशः विधीयते । अस्य अपवादरूपेण भिन्नैः सूत्रैः क्स/चङ्/अङ्/चिण् एते प्रत्ययाः च्लि-प्रत्ययस्य आदेशरूपेण आगच्छति । एतेषां कस्यापि प्रसक्तिः नास्ति चेत् वर्तमानसूत्रेण ‘सिच्’ प्रत्ययः विधीयते ।

Sutrartha (English)

The च्लि विकरण is converted to सिच्.

Vasu English Summary

Of च्लि , सिच् is the substitute.

Vasu English Translation

Of च्लि , सिच् is the substitute. The इ of सिच् is for the sake of pronunciation, the च is for accent, and the real affix is स्; as अकार्षीत् ‘he did’. When सिच् is added, the terminations of the Aorist assume the following forms.

Parasmaipada.

  • 1st person, सं, स्व, स्म

  • 2nd person, सीः, स्तं, तं, स्त, त

  • 3rd person, सीत्, स्तां, तां, सुः

Atmanepada.

  • 1st person, सि, स्वहि, स्महि

  • 2nd person, स्थाः, थाः, साथां, ध्वं

  • 3rd person, स्त, त, सातां, सत

The substitution of सिच् is optional in the Aorist of the roots स्पृश् ‘to touch’, मृश् ‘to rub’, कृष् ‘to plough’, तृप् ‘to become satisfied’, and दृप् ‘to light’. Thus the Aorist of स्पृश् has three forms; अस्प्राक्षीत्; अस्पार्क्षीत्, or अस्पृक्षत्. Similarly मृश् has अम्राक्षीत्, अमार्क्षीत् or अमृक्षत्; कृष्, अकार्षीत् अक्राक्षीत् or अकृक्षत्; तृप्, अतार्प्सीत्, अत्राप्सीत्, or अतृपत्; दृप्, अद्राप्सीत्, अदार्प्सीत् or अदृपत् ।

Bhashya

च्लेः सिच् (661) (414 च्लेः सिजादेशविधिसूत्रम् ॥ 3.1.4 आ. 2) (चकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थश्चकारः?। विशेषणार्थः। क्व विशेषणार्थेनार्थः?। सिचिवृद्धिः परस्मैपदेषु इति। सौ वृद्धिः इतीयत्युच्यमाने अग्निर्वायुरित्यत्रापि प्रसज्येत ॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। परस्मैपदेष्वित्युच्यते। न चात्र परस्मैपदं पश्यामः ॥ (प्रयोजनभाष्यम्) स्वरार्थस्तर्हि। चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात् ॥ (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। अनच्कोयम् तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। (प्रयोजनसाधकभाष्यम्) इति कृते साच्को भविष्यति ॥ (प्रयोजनबाधकभाष्यम्) तत्र प्रत्ययाद्युदात्तत्वेनेट उदात्तत्वं भिविष्यति ॥ (प्रयोजनसाधकभाष्यम्) न सिध्यति। आगमा अनुदात्ता भवन्तीति अनुदात्तत्वं प्राप्नोति। (समाधानभाष्यम्) अत उत्तरं पठति - - (1830 प्रयोजनबाधकवार्तिकम् ॥ 1 ॥) - अर्थवत्तु चित्करणसार्मथ्याद्धीट उदात्तत्वम्- (भाष्यम्) नैष देषः। अर्थवत्तु सिचश्चित्करणम्। कोऽर्थः?। सिचः चित्करणसार्मथ्याद्धि इट उदात्तत्वं भविष्यति ॥ (नाप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वमारभ्यते तद्यथैव प्रत्ययस्वरं बाधते एवं स्थानिवद्भावादपि या प्राप्तिस्तामपि बाधेत ॥) (1831 वार्तिकद्वितीयखण्डम् ॥) - तस्माच्चित्करणम्- (भाष्यम्) तस्माच्चकारः कर्तव्यः ॥ (सिच इकारोच्चारणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथेदित्करणं किमर्थम्?। (1832 प्रयोजनवार्तिकम् ॥ 3 ॥) - इदित्करणं नकारलोपाभावार्थम्- (भाष्यम्) इदित्करणं क्रियते। नकारलोपो मा भूदिति। अमंस्त अमंस्थाः अनिदितां हल उपधायाः क्ङितीति। (1833 प्रयोजननिराकरणवार्तिकम् ॥ 4 ॥) -न वा हन्तेः सिचः कित्करणं ज्ञापकं नकारलोपाभावस्य- (भाष्यम्) न चैतत्प्रयोजनमस्ति। किं कारणम्?। यदयं हनः सिच् इति हन्तेः सिचः कित्त्वं शास्ति तज् ज्ञापयत्याचार्यः न सिजन्तस्य नकारलोपो भवतीति ॥ (प्रयोजनसाधकभाष्यम्) नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥ किम्?। सिच्येव नकारलोपो यथा स्यात्, परस्मिन्निमित्ते माभूदिति। (विशेषप्रश्नभाष्यम्) कः पुनरत्र विशेषः। सिचि वा नलोपे सति परस्मिन्निमित्ते वा। (विशेषप्रदर्शकोत्तरभाष्यम्) अयमस्ति विशेषः - -सिचि नलोपे सति नलोपस्यासिद्धत्वादकारलोपो न भवति। परस्मिन्पुनर्निमित्ते सति नकारलोपे कृते अकारलोपः प्रसज्येत ॥ समानाश्रयमसिद्धम्। व्याश्रयं तु सिद्धमेव। व्याश्रयं चेदम् ॥ (विशेषाभावसाधकभाष्यम्) ननु च परस्मिन्नपि निमित्ते नकारलोपे सति अकारलोपो न भवति। कथम्?। असिद्धं बहिरङ्गमन्तरङ्ग इति ॥ (प्रागुक्तप्रयोजननिराकरणदाढर्य भाष्यम्) तदेतद्धन्तेः सिचः कित्करणं ज्ञापकमेव न सिजन्तस्य नकारलोपो भवतीति ॥ (1834 उपायान्तरवार्तिकम् ॥ 5 ॥) -इदिद्वा स्थानिवत्त्वात्- (भाष्यम्) अथाऽप्यनेनेदिताऽर्थः स्यात्। इदितोऽयमादेशः स्थानिवद्भावादिदिद्भविष्यति ॥ (1836 सिज्विधिवार्तिकम् ॥ 6 ॥) -स्पृशमृशकृषतृपदृपां सिज्वा - (भाष्यम्) स्पृशमृशकृषतृपदृपां सिज् वेति वक्तव्यम्। स्पृश - -अस्पृक्षद् अस्प्राक्षीत्। मृश - -तृप - -अतृपद् अत्राप्सीत् दृप - अदृपद् अद्राप्सीत् ॥ किं प्रयोजनम्। सिच् यथा स्यात् ॥ (अनुयोगभाष्यम्) अथ क्सः सिद्धः ॥ (उत्तरभाष्यम्) कथम्?। शल इगुपधादनिटः क्सः इत्येव ॥ (वार्तिकवैर्यथ्यभाष्यम्) सिजपि सिद्धः ॥ कथम्?। च्लेः चित्करणं प्रत्याख्यायते। तत्र च्लावेव झल्लक्षणेऽमागमे कृते विहतनिमित्तत्वात् क्सो न भविष्यति ॥ (दूषणभाष्यम्) यद्येवमन्त्यस्य सिजादयः प्राप्नुवन्ति ॥ (1836 दूषणपरिहारवार्तिकम् ॥ 7 ॥) - सिद्धं तु सिचो यादित्वात्- (भाष्यम्) सिद्धमेतत्। कथम्? यादित्वात् ॥ यादिः सिच् करिष्यते। सः अनेकाल् शित्सर्वस्य इति सर्वादेशो भविष्यति ॥ किं पुनर्न श्रूयते यकारः?। लुप्तनिर्दिष्टो यकारः ॥ (आक्षेपभाष्यम्) चङङोः कथम्। (1837 समाधानभाष्यम् ॥ 8 ॥) - चङङोः प्रश्लिष्टनिर्देशात्सिद्धम्- (भाष्यम्) चङङोरपिप् सिद्धम्। कथम्?। प्रश्लिष्टनिर्देशात्।) प्रश्लिष्टनिर्देशोऽयम् - - च अङ्चंङ्। अ अङ् अङ्। सः अनेकाल् शित्सर्वस्य इति सर्वादेशो भविष्यति ॥ (अनुयोगभाष्यम्) चिणः कथम्। (1838 समाधानवार्तिकम् ॥ 9 ॥) ॥ चिणोऽनित्त्वत्- (भाष्यम्) चिणः चकारस्य अनित्त्वात्सिद्धम् ॥ किमिदमनित्त्वादिति?। अन्त्यस्यायं स्थाने भवन्नप्रत्ययः स्यात्। असत्यां प्रत्ययसंज्ञायामित्संज्ञा न। असत्यामित्संज्ञायां लोपो न। असति लोपे अनेकाल्। यदाऽनेकाल् तदा सर्वादेशः। यदा सर्वादेशस्तदा प्रत्ययः। यदा प्रत्ययः तदेत्संज्ञा। यदेत्संज्ञा तदा लोपः ॥ (वार्तिकसिद्धान्तभाष्यम्) एष च तत्र वार्तिककारस्य निर्णयः सप्रयोजनं चित्करणमिति ॥ (चकारस्यानित्त्वे दूषणान्तरभाष्यम्) अपि च त्रैशब्द्यं न प्रकल्प्यते। अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षादिति। सिचि पुनः सति विभाषा सिच् सिध्यति झल्लक्षणोऽमागमो विभाषा ॥ (सिज्विधेरावश्यकताभाष्यम्) यस्य खल्वपि अमा अङो निमित्तं न विहन्यते स स्यादेव ॥ तस्मात् सुष्ठूच्यते स्पृशमृशकृषतृपदृपां सिज्वेति ॥ च्लेः सिच् ॥ 44 ॥

Kashika

च्लेः सिजादेशो भवति। इकार उच्चारणार्थः, चकारः स्वरार्थः। अकार्षीत्। अहार्षीत्। आगमानुदात्तत्वं हि प्रत्ययस्वरमिव चित्स्वरमपि बाधेतेति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्यते॥ स्पृशमृशकृषतृपदृपां सिज् वा वक्तव्यः॥ अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्। अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्। अक्राक्षीत्, अकार्क्षीत्, अकृक्षत्। अत्राप्सीत्, अतार्प्सीत्, अतृपत्। अद्राप्सीत्,अदार्प्सीत्। अदृपत्॥

Siddhanta Kaumudi

इचावितौ ॥

Laghu Siddhanta Kaumudi

इचावितौ॥

Balamanorama

च्लेः सिच् - च्लेः सिच् । इचाविति । चित्स्वरश्चित्त्वस्य प्रयोजनम् । इदित्त्वस्यतु अमंस्तेत्यत्रअनिदितां हल उपधाया॑ इत्युपधालोपस्याऽप्रवृत्तिः प्रयोजनम् ।

Tattvabodhini

च्लेः सिच् - इचाविताविति । तत्रेदित्त्वे प्रयोजनममंस्तेत्यत्रअनिदिता॑मित्युपधालोऽभावः॥

Padamanjari

च्लेः सिच्॥ इकार उच्चारणार्थ इति। न त्वनुबन्धः। यद्येवम्, असंस्तेत्यत्र सिजन्तस्याङ्गस्यात्मनेपदं ङ्तिमपेक्ष्य ठनिदिताम्ऽ इति नलोपः प्रपानोति? ज्ञापकात्सिद्धम्, यदयम्,’हनः सिच्’ इति हन्तेः परस्य सिचः कित्वं शास्ति, तज् ज्ञापयति - न सिजन्तस्योपधालोपो भवतीति। यथा चैतज्ज्ञापकं तथा तत्रैवोक्तमिति तत्रैवावधार्यम्। चकारः स्वरार्थः इति। अन्तोदातार्थः। ननु सिचोऽनच्कत्वात् कथं चकाराः स्वरार्थः, इति कृते साच्को भवति? एवमपि प्रत्ययस्वरेण सिद्धम्। न सिद्ध्यति, नाप्राप्ते स्वरान्तरे विधीयमानमागमानुदातत्वं प्रत्ययस्वरं बाधेन? एवं तर्हि च्लेश्चित्वात्स्थानिवद्भावाच्चित्स्वरो भविष्यति, तत्राह - आगमानुदातत्वं हीति। चित्स्वरमपि बाधेतेति। स्थानिवद्भावकृतम्। ननु च यदि मा हि लावीदित्यत्रागमानुदातत्वं स्यात्, च्लेश्चिक्तरणमनर्थकं स्यात्? एवं मन्यते - च्लेश्चकारो मन्त्रेघसादिसूत्रे सामान्यग्रहणे चरितार्थः; अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यात्, न लिटः, ततश्च ठामःऽ इत्यत्र निरनुबन्धकस्य लेरसम्भवाल्लेरिति नानुवर्तेत, ततश्च परत्वादन्तरङ्गत्वाच्च तिबादिषु कृतेषु पश्चाल्लुकि कारयामित्यस्य प्रत्ययलक्षणेन तिङ्न्तत्वाद् देवदतः कारयाञ्चकारेति तस्य च निघातः, तस्माच्चानिघातः स्यात्। तस्मादाम इत्यत्र लेरित्यनुवर्तनीयम्। तस्य च तत्रानुवृत्तिः पूर्वत्रसामान्यग्रहणे सत्युपपद्यते। तस्माच्च्लेश्चकारस्य चरितार्थत्वात्स्थानिवद्भावात्प्राप्तं चित्स्वरमपि बाधेतेति सम्भावने लिङ्, सम्भाव्येत बाधनमित्यर्थः। अनुबन्धान्तरेणापि सामान्यग्रहणसिद्धे चकारानुरोधेन चित्स्वर एव भविष्यतीति शक्यते वक्तुमिति भावः। स्पृशभृशेति।’स्पृश स्पर्शने’ ‘मृश आमर्शने’ ‘कृष विलेखने’ - इत्येतेभ्यः क्से आप्ते’तृप प्रीणने’ ‘द्दप हर्षविमोचनयोः’ - आभ्यां पुषादित्वादङ् प्रिप्ते सिजपि पक्षेऽभ्यनुज्ञायते। अस्पृक्षदिति। व्रश्चादिषत्वे’षढोः कः सि’ कत्वम्। कास्प्राक्षीदिति। ठनुदातस्य चर्दुपधस्य चऽ इति पक्षे अमागमः, ऋकारस्य यण,’वदव्रज’ इत्यादिनाकारस्य वृद्धिः, अमभावपक्षे ऋकारस्यैव वृद्धिः। एवमुतरत्रापि॥

Nyaas

इकार उच्चारणार्थः इति। एतेनेहोच्चारणादन्यप्रयोजनं नास्तीति दर्शयन्नित्संज्ञायां अभावमाह। ननु चासतीकारेऽनुबन्धे अनिदिताम् (6.4.24) इत्यनेनामंस्तेत्यत्रानुनासिकलोपः प्राप्नोति, ततस्तत्प्रतिषेधार्थोऽयमित्संज्ञकः कस्मान्न भवति? एवं मन्यते - असत्यपीकारेऽनुबन्धेनैव सिजन्तस्यानुनासिकलोपेन भवितव्यम्; हन सिच् (1.2.14) इति कित्करणाज्ज्ञापकात्। तथा हि हन्तेः कित्करणस्यैतत् प्रयोजनम् - आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिजन्तस्यानुनासिकलोपः स्यात् हन्ते सिचः कित्करणमनर्थकं स्यात्। चकारः स्वरार्थः इति। अन्तोदात्तार्थः। ननु च सिचोऽनच्कत्वाच्चकारस्य स्वरार्थता नोपपद्यते? इटि कृते साच्को भवतीत्यदोषः। नन्वेवमपि लुङ्यत्राडागमस्योदात्तत्वे सतिशिष्टस्वरेणाद्युदात्तत्वेन भवितव्यम्, किमर्थश्चकारः? यत्र तर्हि न माङयोगे (6.4.74) इत्यडागमः प्रतिषिध्यते तत्र चकारस्य स्वरार्थता भविष्यति। ननु तत्रापि तिङङतिङः (8.1.28) इति निघातेन भवितव्यम्? तर्हि यत्र हि च (8.1.34) इति निघातः प्रतिषिध्यते - मा हि लावीदित्यादौ , तत्र स्वरार्थो भविष्यति। ननु च च्लेस्तत्र स्थानिवद्भावादेव चित्सरो भविष्यत#ईतिकिमादेशे चकारोऽनुबध्यते? इत्याह - आगमानुदात्तत्वं हि इत्यादि। यासुट उदात्तवचनेनागमानुदात्तत्वं ज्ञापयिष्यते। तच्च नाप्राप्ते स्वरान्तरे विधीयते। तथा हि - ये प्रकृतिभक्ता आगमा अडानुकप्रभृततयस्तेषां प्रकृतिस्वरः प्राप्नोति, ये च प्रत्ययभक्ता इडादयस्तेषां प्रत्ययस्वरः; तस्मादगमानुदात्तत्वं सर्वस्य स्वरान्तरस्य बाधकम्। ततश्चैव तद्यथा प्रत्ययस्वरं बाधते तथा चित्स्वरमपि स्थानिवद्भावकृतं बाधेत। तस्मादादेशेऽपि चकारोऽनुबध्यते। हि-शब्दोयस्मादर्थे,इतिशब्दस्तस्मादर्थे। यस्मादेवं चितस्वरमपि बाधेत तस्मात् स्थानिन्यादेशेऽपि द्विश्चकारोऽनुबध्यते। ननु च मा हि लावीत्यादावागमानुदात्तत्वं यदि स्यात् च्लेश्चित्करणमनर्थकं स्यात्, प्रयोजनाभावात्; तस्मात् च्लेश्चित्करणसामर्थ्यादागमानुदात्तत्वेन चित्स्वरो न बाधिष्यते - इत्यपार्थकं सिचश्चित्करणम्? नापार्थकम्; पक्षे सार्थकत्वात्। कथम्? इह हि यथा व्यक्तिपदार्थपक्षमाश्रित्य सरूपाणामेकशेषः (1.2.64) इत्येतत्सूत्रमारब्धम्, तथा व्यक्तिपदमार्थक्षाश्रयत्पद्विश्चकारोऽनुबध्यते। व्यक्तौ हि पदार्थे यथा चित्स्वरलक्षमं प्रतिलक्ष्यं प्रवर्तते तथागानुदात्तत्वज्ञापकमपि यासुट उदात्तवचनम्। ततश्च मा हि लावीदित्यत्रागमानुदात्तत्वं तेन ज्ञापितमेव। तथा च - यथेह चित्स्वरो भवति तथागमानुदात्तत्वेनापि भवितव्यम्; अन्यथा ह्रेतद्विषयस्य ज्ञापकस्य वैयथ्र्यं स्यात्। न च द्वयोरप्यनुदात्तयोर्यौगपद्यं सम्भवतीति पर्यायः स्यात्। तत्र पक्षे स्थानिनश्चकारस्य पक्षान्तर आगमानुदात्तत्वेन बाध्येत। द्विरनुबध्यमाने तु चकारे यद्यपि पक्षेऽनुदात्तोऽभिनिर्वर्तते, तथाप्यभिनिर्वृत्ते तस्मिन् द्विश्चकारा4नुबन्धकरणसामर्थ्यात् पुनश्चित्स्वरोऽभिनिर्वर्तते, अतो न दोषः।स्पृशमृश इत्यादि। स्पृशिमृशिकृषिभ्यः शल इगुपधादनिटः क्सः (3.1.45) इति क्से प्राप्ते, तृपिदृपिभ्यां पुषादित्वादङि प्राप्ते सिज्वा वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम् - क्सविधौ विदांकुर्वन्त्वित्यन्यतस्याम् (3.1.41) इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, पुषादिसूत्रेऽपि आत्मनेपदेषु (3.1.54) इत्यतः। सा च व्यवस्थित विभाषितोभयत एव विज्ञायते। तेन स्पृशिमृशिकृषिभ्यो विकल्पेन क्सो भविष्यति, अन्येभ्यस्तु नित्यम्। तृपिदृपिभ्यामन्यतरस्यामङ् च भविष्यति, अन्येभ्यस्तु पुषादिभ्यो नित्यमेव। तेन यस्मिन् पक्षे क्साङोरभावस्तस्मिन् पक्षे सामान्यविहितः सिजेव भवति। अस्पृक्षत् इति। स्पृश संस्पर्शे (धातुपाठः-1422), क्सः, व्रश्चादिना (8.2.36) षत्वम्, षढोः कः सि (8.2.41) इति कत्वम्, आदेशप्रत्ययोः (8.3.59) इति षत्वम्। अस्प्राक्षीत् इति। अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (6.1.59) इत्यमागमः; वदव्रज (7.2.3) इत्यादिना वृद्धिः, ऋकारस्य यणादेशः। अस्पाक्षीत् इति। सिच्। यदाऽमागमो नास्ति तदा ऋकारस्यैव वृद्धिः।एवं मृश आमर्शने (धातुपाठः-1425), कृष विलेखने (धातुपाठः-1286) इत्येतयोरपि रूपद्वयं, वेदितव्यम्। अतु पत् इति। तृप प्रीणने (धातुपाठः-1195)। अत्राप्सीत्, अताप्सीत् इति। पूर्ववत्। एवं `दुप हर्षणमोचनयोःट (धातुपाठः-1196) इत्यस्यापि रूपत्रयं वेदितव्यम्॥

Prakriyasarvasvam

च्लेः सिजादेशः स्यात् । *इदुवत्यर्थः । चकार इटि सति स्वरार्थः । भू स् त् ।

Vartika

स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः ।