31055: पुषादिद्युताद्यॢदितः परस्मैपदेषु¶
Padacheda: पुषादि-द्युतादि-ऌदितः | S | 5 | 1 |
परस्मैपदेषु | S | 7 | 3 |
Sutrartha¶
पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य परस्मैपदस्य प्रत्यये परे अङ्-आदेशः भवति ।
लुङ्लकारस्य विषये धातोः च्लि लुङि (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु परस्मैपदस्य प्रत्ययेषु परेषु पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य अनेन सूत्रेण ‘अङ्’ आदेशः विधीयते । क्रमेण पश्यामः - 1) पुषादिगणः - दिवादिगणे ‘पुषादि’नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 62 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्य गणस्य विषये द्वौ विशेषौ ज्ञातव्यौ - अ) तृप् तथा दृप् - एतौ द्वौ धातू पुषादिगणे स्तः, परन्तु अनेन सूत्रेण एतयोः परस्य च्लि-प्रत्ययस्य विकल्पेन एव अङ्-आदेशः भवति । पक्षे च्लेः सिच् (3.1.44) इति सिच्-आदेशः भवति । आ) ‘श्लिष्’ अयं धातुः पुषादिगणे अस्ति, परन्तु ‘आलिङ्गनम्’ अस्मिन् अर्थे अस्मात् परस्य च्लि-इत्यस्य श्लिष आलिङ्गने (3.1.46) इत्यनेन ‘क्स’ प्रत्ययः भवति । अन्येषु अर्थेषु तु वर्तमानसूत्रेण अङ्-आदेशः एव विधीयते । यथा, पुष्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया - पुष् + लुङ् [लुङ् (3.2.110) इति लुङ्] → पुष् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → पुष् + अङ् + ल् [**पुषादिद्युताद्यॢदितः परस्मैपदेषु (3.1.55) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + पुष् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + पुष् + अ + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + पुष् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → अपुषत् 2) द्युतादिगणः - भ्वादिगणे ‘द्युतादिगण’ नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 14 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्य गणस्य विषये एकः विशेषः स्मर्तव्यः - अस्य गणस्य सर्वे धातवः आत्मनेपदिनः सन्ति । तथापि द्युद्भ्यो लुङि (1.3.91) इत्यनेन एते सर्वे लुङ्-लकारस्य विषये विकल्पेन परस्मैपदिनः अपि भवन्ति । अस्यां स्थितौ एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा - द्युत् + लुङ् [लुङ् (3.2.110) इति लुङ् । द्युद्भ्यो लुङि (1.3.91) इति वैकल्पिकम् परस्मैपदम्] → द्युत् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → द्युत् + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + द्युत् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + द्युत् + अ + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + द्युत् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → अद्युतत् 3) येषु धातुषु ऌकारः इत्संज्ञकः अस्ति, ते सर्वे ऌदित-धातवः नाम्ना ज्ञायन्ते । धातुपाठे एतादृशाः 14 धातवः सन्ति । एतेषु येभ्यः परस्मैपदस्य प्रत्ययाः विधीयन्ते, तेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - गम् + लुङ् [लुङ् (3.2.110) इति लुङ् । द्युद्भ्यो लुङि (1.3.91) इति वैकल्पिकम् परस्मैपदम्] → गम् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → गम् + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + गम् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + गम् + अ + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + गम् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → अगमत् ज्ञातव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् परस्मैपदस्य प्रत्ययेषु परेषु अस्तीति स्मर्तव्यम् । आत्मनेपदेषु तु च्लेः सिच् (3.1.44) इत्यनेन सिच्-आदेशः एव विधीयते ।
Sutrartha (English)¶
For the verbs of पुषादिगण and द्युतादिगण, as well as for the ऌदित verbs, च्लि is converted to अङ् when followed by a प्रत्यय of परस्मैपद.
Vasu English Summary¶
अङ् is the substitute of च्लि after the verbs पुष् ‘to nourish’ and the rest; द्युत् ‘to shine’ and the rest; and the verbs having an indicatory ऌ , when the affixes of the परस्मैपद follow.
Vasu English Translation¶
अङ् is the substitute of च्लि after the verbs पुष् ‘to nourish’ and the rest; द्युत् ‘to shine’ and the rest; and the verbs having an indicatory ऌ , when the affixes of the परस्मैपद follow. The verbs classed as पुषादि, are a sub-division of the 4th conjugational verbs; and द्युतादि verbs belong to the Ist conjugation. As पुष्, अपुषत् ‘he nourished’; द्युत्, अद्युतत् ‘he shone’; गम्लृ, अगमत् ‘he went’. But not so in the Atmanepada; as व्यद्योतिष्ट, अलोतिष्ट.
Kashika¶
पुषादिभ्यो द्युतादिभ्य, ऌदिद्भ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतोऽङादेशो भवति। पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र् ्याद्यन्तर्गणः। पुष — अपुषत्। द्युतादि — अद्युतत्। अश्वितत्। ऌदिद्भ्यः — गम्ऌ — अगमत्। शक्ऌ — अशकत्। परस्मैपदेष्विति किम्? व्यद्योतिष्ट। अलोटिष्ट।
Siddhanta Kaumudi¶
श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् ।{$ {!716 जर्ज!} {!717 चर्च!} {!718 झर्झ!} परिभाषणहिंसातर्जनेषु$} ।{$ {!719 पिसृ!} {!720 पेसृ!} गतौ$} । पिपिसतुः । पपेसतुः ।{$ {!721 हसे!} हसने$} । एदित्त्वान्न वृद्धिः । अहसीत् ।{$ {!722 णिश!} समाधौ$} । तालव्योष्मान्तः । प्रणेशति ।{$ {!723 मिश!} {!724 मश!} शब्दे रोषकृते च $}। तालव्योष्मान्तौ ।{$ {!725 शव!} गतौ$} । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ।{$ {!726 शश!} प्लुतगतौ$} । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ ।{$ {!727 शसु!} हिंसायाम्$} । दन्त्योष्मान्तः । न शसदद - (SK2263) इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ ।{$ {!728 शंसु!} स्तुतौ$} । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् ।{$ {!729 चह!} परिकल्कने$} । कल्कनं शाठ्यम् । अचहीत् ।{$ {!730 मह!} पूजायाम्$} । अमहीत् ।{$ {!731 रह!} त्यागे$} ।{$ {!732 रहि!} गतौ$} । रंहति । रंह्यात् ।{$ {!733 दृह!} {!734 दृहि!} {!735 बृह!} {!736 बृहि!} वृद्धौ$} । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् ।{$ {!737 तुहिर्!} {!738 दुहिर्!} {!739 उहिर्!} अर्दने$} । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् ।{$ {!740 अर्ह!} पूजायाम्$} । आनर्ह ॥ अथ कृपूपर्यान्ता अनुदात्तेतः ॥{$ {!741 द्युत!} दीप्तौ$} । द्योतते ॥
Laghu Siddhanta Kaumudi¶
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥ इति परस्मैपदिनः ॥
Balamanorama¶
पुषादिद्युताद्यॢदितः परस्मैपदेषु - लुङि च्लेः सिचि प्राप्ते — पुषादि ।च्लेः सि॑जित्यतः च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । तत्र ह ‘मुष स्तेये’खच भूतप्रादुर्भावे॑ ‘हेठ च ‘ ‘ग्रह उपादाने’ इति चत्वार एव पठन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात् । अतः परिशेषाद्दिवाय एव गृह्यन्ते । तदाह — श्यन्विकरमेति । जर्ज चर्च झर्झेति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति ।ह्म्यन्तेत्यनेने॑ति शेषः । णिश समाधाविति । णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह — प्रणेशतीति ।शसु हिंसाया॑मित्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः । कृतानुस्वारस्य निर्देशः । ‘चह परिकल्पने’ इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति । न#आऽयमिदित् । रहि गताविति । अयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अवृहत् । अवर्हीदिति । इरित्त्वादङ्विकल्प इति भावः । उवोहेति । उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे ‘अभ्यासस्यासवर्णे’ इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । औहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि ‘अस्तिसिचः’ इति तकारस्य ईटिइट ईटी॑ति सिचो लोपेआडजादीना॑मिति आटि वृद्धिः । माङ्योगे तु मा भवानुहीत् । आनर्हेति । ‘अत आदेः’ इति दीर्घे नुट् । कृपूपर्यन्ता इति ।द्युते॑त्यारभ्य कृपूपर्यन्ता इत्यर्थः ।
Tattvabodhini¶
पुषादिद्युताद्यॢदितः परस्मैपदेषु - पुषादिद्युता । पुष धातुर्भ्वादौ दिवादौ क्र्यादौ चुरादौ च पठते । यदि तुपुष पुष्टा॑ विति भौवादिकधातुमारभ्य पुषादिगणो गृह्रेत तदा द्युतादिग्रहणमनर्थकं भवेत्, पुषेरुत्तरत्र द्युतादीनां पाठात् । नापि क्राद्यन्तर्गणः, तत्र हि पुषधातोरग्रेमुष स्तेये॑,खच भूतप्रादुर्भावे॑हेठ च॑ग्रह उपादाने॑ इति चत्वार एव पठन्ते । यदि तु त एव जिघृक्षिताः स्युस्तर्हि लाघवाल्लृदित एव क्रियेरन् । ग्रहेः स्वरितेत्त्वेऽपि ऌकारेणैव तन्निर्वाहादनेकानुबन्धासङ्गगौरवशङ्काया अप्यभावात् । नापि चुरादिः, णिचा व्यवधानेन ततोऽन्यतरस्य च्लेरसंभवात् । अतः परिशेषाद्दिवादय एव गृह्रन्त इत्याह — श्यन्विकरणपुषादेरिति । केचित्तुदिवाद्यन्तर्गत एव पुषादिर्गृह्रते, व्याख्यानादित्याहुः । चुरादीनां सर्वेषां णिज्वकल्प इति पक्षे चौरादिकपुषादेरपि परः च्लिः संभवतीति तेषामाशयः ।नन्दिग्रहिपचादिभ्यः॑ इतवत्पुषद्युताद्यलृदितः॑ इति सूत्रयितुमुचितम् । ननु पुषादयो द्युतादयश्च लृदित एव कुतो न कसृता इति चेत् । अत्राहुः — निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं ऌकारपाठे विपरीत गौरवं स्यात् । न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लृदित्करण#एऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्क्यम् । आदितामीदितामूदितां च तेषु सत्त्वात्ऌकारेण तत्तत्कार्यामामनिर्वाहादनेकानुबन्धासङ्गगौरवस्य दुर्निवारत्वादिति । जर्ज चर्च झर्झ । एषां परिभाषणादिभिः सह यथासङ्ख्यं नास्ति, व्याख्यानादित्याहुः । परिभाषणं सनिन्दोपालम्भः । त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो, न त्विहोष्मान्तेषु । णिश समाधौ । समाधिः — अन्तः करणनिरोधः । प्रणेशतीति ।उपसर्गादसमासेऽपीति णत्वम् । रोषकृते चेति । चकारात्समादौ । शश प्लुतगतौ ।नशसददे॑ति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे — शेशतुरिति । प्राचा तुशशशतु॑रित्युक्तं , तदयुक्तमिति भावः । अचहीदिति ।हयन्ते॑ति न वृद्धिः । रह त्यागे । अयं कथादावपि ।ज्ञप मिच्चे॑ ति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः । नेच्छन्तीति । व्याख्यानमेवात्रावलम्बनम् । माभवानुहदिति ।न माङ्योगे॑ इत्याडभावः ।इरितो वे॑त्यङ्वा । अत द्युतादिः । द्युत दीप्तौ ।
Padamanjari¶
पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ एकेनैवादिशब्देन प्रत्येकं सम्बन्धादेव सिद्धे द्वयोरुपादानं चिन्त्यप्रयोजनम्। दिवाद्यन्तर्गण इति।’पुष पुष्टौ’ ‘शुष शोषणो’ इत्येवमादिरा गणसमाप्तेः। यतु मध्ये’ष्णिह प्रीतौ वृत्’ इति वृत्करणं तद्रधादिपरिसमाप्त्यर्थम्। एतच्च ठस्यतिग्रहणमात्मनेपदार्थ पुषादित्वात्ऽ इति वार्तिकारवचनाद्विज्ञायते। न भूवादिरिति।’पुष पुष्टौ’ ‘श्रिषु श्लिषु प्रुषु प्लुषु दाहे’ इत्येवमादिः, अस्य यदि ग्रहणं स्यात्पुषाद्यनन्तरं पाठाद् द्यौतादीनां पृथग्ग्रहणं न कुर्यात्। र्क्याद्यन्तर्गणो वेति।’पुष पुष्टौ’ ‘मुष स्तेये’ इत्येवमादिः। तत्र हि चत्वार एव पठ।ल्न्ते, तत्र यदि ते जिघृक्षिताः स्युर्लृदित एव तान् कुर्यात्; स्वरितेत्वादेरपि नेनैव सिद्धत्वात्। अथ पुषादयो द्यौतादयश्च लृदित एव कस्मान्न पठिताः? अशक्यस्ते तथा पठितुम्; आदितामौदितामुदितामूदितां च तत्र भावात्। तद्यथा - पुषादिषु तावत्’ञिष्विदा गात्रप्रक्षरणे’ ‘मदी हर्षे’ ‘समु उपशमने’ ‘षिधू राद्धौ’ इति; द्यौतादिष्वपि’श्विता वर्णे’ ‘ञिमिदा स्नेहने’ ‘ञिक्ष्विदा स्नेहविमोचनयोः’ ‘स्रंसु ध्वंसु भ्रंसु अवस्रंसने’ ‘स्यन्दू प्रस्रवणे’ ‘कृपू सामर्थ्ये’ इति। अद्युत्, अश्वितदिति।’द्यौद्भ्यो लुङ्’ ईति पक्षे परस्मैपदम्। अलोटिष्टेति।’लुट लुठ प्रतिघाते’ ॥
Nyaas¶
ऌकार इद्येषां ते लृदितः। पुषादिरस्त्येव भावाद्यन्तर्गणः - पुष पुष्टौ` (धातुपाठः-700) श्रिषु श्लिषु प्रुषु प्लुषु दाहे` (धातुपाठः-701-704) इत्येवमादिः, अस्ति च दिवाद्यन्तर्गणः - पुष पुष्टौ (धातुपाठः-1182), शुष शोषणे (धातुपाठः-1183) इत्येवमादिः, अस्ति च क्र्याद्यन्तर्गणः - पुष पुष्टौ` (धातुपाठः-1529), मुष स्तेये (धातुपाठः-1530) इत्येवमादिः, तदिह कस्य ग्रहणमित्याह - पुषादिर्दिवाद्यन्तर्गणः इत्यादि। यदि भ्वाद्यन्तर्गणो गृह्रते, पुषाद्यनन्तरं द्युतादीनां पाठात् पृथग्ग्रहणं न कुर्यात्; पुषादिग्रहणेनैव गृहीतत्वात्, तस्मात् स तावन्न गृह्रते। क्र्याद्यन्तर्गणोऽपि नैव गृह्रते, तत्र हि चत्वार एव पठन्ते धातवः - पूर्वोक्तौ द्वौ खच भूतप्रादुर्भावे (धातुपाठः-1531), ग्रह उपादाने (धातुपाठः-1533) इत्येतौ, यदि चैते जिघृक्षिताः स्यर्लृदित यएवैतान् कुर्यात्, एवं पुषादिग्रहणं न कर्तव्यं भवति। तस्मात् पारिशेष्याद् दिवाद्यन्तर्गणानां पुषादीनां ग्रहणं विज्ञायते। अथ पुषादय लृदितः कस्मान्न कृताः? न; न हि ते लृदितः शक्यन्ते कर्त्तुम्। लृदित्वे हि तेषां उदित आदितश्च पठयन्ते तेषाम् उदितो वा (7.2.56) आदितश्च (7.2.16) इत्येतयोः कार्ययोरभावः स्यात्। अथ द्युतादयः कस्मात् लृदितो न कृताः? यत एव हेतोः पुषादय लृदितो न कृतास्तत एव द्युतादयश्च। तेष्वपि हि केचिदुदित आदितश्च पठन्ते। तत्र पुषादय आदिवादि परिसमाप्तेः। यत्तु ष्णिह प्रीतौ (धातुपाठः-1200) इत्यनन्तरं वृदिति वृत्करणं तद् रवादीनां परिसमाप्त्यर्थम्, न पुषादीनामित्याचार्याणां स्मृतिः। द्युतादयस्तु कृपू सामर्थ्ये (धातुपाठः-762) इत्येवंपर्यन्ताः, तदनन्तरं वृत्; घट चेष्टायाम् (धातुपाठः-763) इति वृत्करणात्। अद्युतत् इति। द्युद्भ्यो लुङि (1.3.91) इति पक्षे परस्मैपदम्। अआतत् इति। इआता वर्णे` (धा।पा॥742)। अगमत्, अशकत् इति। गम्लृ गतौ (धातुपाठः-982), शक्लृ शक्तौ (धातुपाठः-1261)। व्यद्योतिष्ट इति। अनुदात्तेत्त्वादात्मनेपदम्। अलोटिष्ट इति। रुट लुट् प्रतीघाते (धातुपाठः-747,748)॥
Prakriyasarvasvam¶
श्यन्विकरणपुषादेर्द्युतादेश्च लृदितश्च परस्य च्लेः परस्मैपदेषु अङ् स्यात् । ‘अनङि’ (६-४-९८) इत्युक्तेरुपधालोपो न । अङचङादिष्वदन्ताङ्गत्वात् सर्वं लङ्वत् । अगमत् अगमताम् । ‘अतो गुणे’ अगमन् । अगमः अगमतम् अगमत । ‘अमि पूर्वः’ । अगमम् । अगमाव अगमाम । कर्मणि अगामि ।
Sutra Prayogas¶
पुषः (किरातार्जुनीयम्): पुषादिद्युतादिॢदितः परस्मैपदेषु इति च्लेः अङ्।
समासदत् (शिशुपालवधम्): पुषादि- इत्यङ्।
प्रापत् (शिशुपालवधम्): पुषादि- इत्यादिना च्लेरङादेशः।
निरगमत् (शिशुपालवधम्): पुषादि- इत्यादिना गमेर्लुङि च्लेरङादेशः।
नाश्रमत् (शिशुपालवधम्): पुषादिद्युताद्यॢदितः परस्मैपदेषु इति च्लेः अङादेशः।
शारिमशकधिरोपयितुं (शिशुपालवधम्): पुषादिद्युताद्यॢदितः परस्मैपदेषु इति च्लेः अङादेशः।
नाशकत् (शिशुपालवधम्): पुषादिद्युताद्यॢदितः परस्मैपदेषु इति च्लेः अङादेशः।
प्रापन् (शिशुपालवधम्): पुषादिद्युताद्यॢदितः परस्मैपदेषु इति च्लेरङादेशः।
व्यगमन् (शिशुपालवधम्): पुषादिद्युताद्यॢदितः परस्मैपदेषु इति च्लेरङादेशः।
न्यक्षिपदाशु (भट्टिकाव्यम्): पुषादि इत्यङ्।
अपुषत् (भट्टिकाव्यम्): पुषादि इत्यङ्।
अपुषत् (भट्टिकाव्यम्): पुषादि इत्यङ्।
अतुषः (भट्टिकाव्यम्): पुषादि इत्यङ्।
अद्राक्षीद् (भट्टिकाव्यम्): पुषादि इत्यादिना अड्।