31043: च्लि लुङि

Padacheda: च्लि | S | | | 1

लुङि | S | 7 | 1 |

Sutrartha

लुङ्लकारे परे धातोः च्लि-प्रत्ययः भवति ।

लुङ्लकारस्य विषये धातोः ‘च्लि’ इति विकरणप्रत्ययः भवति । यथा - पठ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → पठ् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → … [सम्पूर्णा प्रक्रिया च्लेः सिच् (3.1.44) इत्यत्र द्रष्टव्या ।] → अपठीत् / अपाठीत् यद्यपि अनेन सूत्रेण लुङ्-लकारस्य विषये प्रारम्भे ‘च्लि’ इति प्रत्ययः विधीयते, तथापि च्लि-प्रत्ययः स्वयम् किमपि कार्यम् न करोति, अपितु तस्य अग्रे भिन्नानाम् धातूनाम् विषये भिन्नाः आदेशाः विधीयन्ते । ते एतादृशाः - 1. च्लेः सिच् (3.1.44) इत्यनेन औत्सर्गिकरूपेण च्लि-प्रत्ययस्य सिच्-आदेशः भवति । 2. ये धातवः इगुपधाः शल्-वर्णान्ताः च सन्ति, तेषां विषये शल इगुपधादनिटः क्सः (3.1.45) इत्यनेन च्लि-प्रत्ययस्य ‘क्स’ आदेशः विधीयते । अन्यासु अपि कासुचित् स्थितिसु च्लि-प्रत्ययस्य ‘क्स’ आदेशः भवति । 3. णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3.1.48) इत्यनेन ण्यन्त-धातुभ्यः तथा श्रि-द्रु-स्रु-एतेभ्यः परस्य च्लि-प्रत्ययस्य चङ्-आदेशः भवति । अन्यैः अपि कैश्चन सूत्रैः भिन्नेभ्यः धातुभ्यः च्लि-इत्यस्य चङ्-आदेशः विधीयते । 4. अस् (क्षेपणे), ब्रू, ख्या - एतेषां विषये च्लि-प्रत्ययस्य अस्यतिवक्तिख्यातिभ्यः अङ् (3.1.52) इत्यनेन अङ्-आदेशः भवति । अन्येषां धातूनाम् विषये अपि भिन्नैः सूत्रैः अयमादेशः भवति । 5. पद्-धातोः चिण् ते पदः (3.1.60) इत्यनेन तशब्दे परे चिण्-आदेशः भवति । अन्येभ्यः धातुभ्यः अपि च्लि-विकरणस्य चिण्-आदेशः भवति । ज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - च्लि-विकरणम् कर्तरि शप् (3.1.68) इत्यस्य अपवादरूपेण आगच्छति । एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशम् कृत्वा ततः विकरणप्रत्ययः आगच्छतीति स्मर्तव्यम् ।

Sutrartha (English)

In case of लुङ्लकार, धातु gets the च्लि विकरणप्रत्यय.

Vasu English Summary

When लुङ् (Aorist) follows, the affix च्लि is added to the verbal root.

Vasu English Translation

When लुङ् (Aorist) follows, the affix च्लि is added to the verbal root. The इ of च्लि is for the sake of articulation, the च is for the sake of accent (VI.I.162.) showing that an affix which has an indicatory च has udatta on its final. Then remains only लि, which after all, is to be replaced by other affixes, as we shall show below. In fact च्लि is the common name for all Aorist affixes.

Bhashya

च्लि लुङि (660) (413 च्लिविकरणविधिसूत्रम्॥ 3.1.4 आ .1) (च्लिग्रहणप्रयोजनाधिकरणम्।) (आक्षेपभाष्यम्) क्वाऽयं च्लिः श्रूयते॥ (आक्षेपबाधकभाष्यम्) न श्रूयते। एतस्य सिजादय आदेशा उच्यन्ते॥ (आक्षेपसाधकभाष्यम्) यदि न क्वचिच्छ्रुयते,किमर्थं च्लिरूत्सर्गः क्रियते। न सिजुत्सर्ग एव कर्तव्यः तस्य क्सादयोऽपवादा भविष्यन्ति॥ (समाधानभाष्यम्) अत उत्तरं पठति - (1825 प्रथमप्रयोजनवार्तिकम्॥ 1 ॥) -च्ल्युत्सर्गः सामान्यग्रहणार्थः- (भाष्यम्) च्लिरुत्सर्गः क्रियते। (किं प्रयोजनम्?) सामान्यग्रहणार्थः॥ क्वं सामान्यग्रहणार्थेनार्थः? मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्योलेः इति। तत्रावरतस्त्रयाणां ग्रहणं कर्तव्यं स्यात् - चङङोः, सिचश्चेति॥ (1826 द्वितीयप्रयोजनवार्तिकम्॥ 2 ॥) - क्सविधाने चानिड्वचने च्लिसंप्रत्ययार्थः- (भाष्यम्) क्सविधाने चानिड्वचने च्लिसंप्रत्ययार्थः चिरुत्सर्गः क्रियते च्लेरनिटः इति क्सः सिद्धो भवति॥ (1827 प्रयोजनान्तरवार्तिकम्॥ 3 ॥) - घस्लृभावे च - (भाष्यम्) घस्लृभावे च च्लावेव कृते लृदितः इत्यङ् सिद्धो भवति॥ (चकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ चित्करणं किमर्थम्? (1828 प्रयोजनवार्तिकम्॥ 4 ॥) - च्लेः चित्करणं विशेषणार्थम् - (भाष्यम्) च्लेश्चित्करणं क्रियते। किमर्थम्? विशेषणार्थम्। क्व विशेषणार्थेनार्थः? च्लेः सिच् इति। लेः सिच् इत्युच्यमाने लिङि्सटोरपि प्रसज्येत॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। लुङीत्युच्यते। न च लुङि लिङि्लटौ स्तः॥ (इकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथेदित्करणं किमर्थम्॥ (1829) प्रयोजनवार्तिकम्॥ 5 ॥) - इदित्करणं सामान्यग्रहणार्थम् - (भाष्यम्) इदित्करणं क्रियते। (किमर्थम्?) सामान्यग्रहणार्थम्। क्व सामान्यग्रहणार्थेनार्थः? मन्त्रे घसह्वरणशवृदहाद्वृचूकृगमिजनिभ्यो लेः इति, आमः इति च। (चकारप्रयोजनसाधकभाष्यम्) इकारे चेदानीं सामान्यग्रहणार्थे क्रियमाणे अवश्यं सामान्यग्रहणाविघातार्थश्चकारः कर्तव्यः॥ क्व सामान्यग्रहणाविघातार्थेनार्थश्चकारेण? अत्रैव (च्ल्युत्सर्गेपि प्रथमप्रयोजननिराकरणभाष्यम्) यत्तावदुच्यते - - च्लिरुत्सर्गः सामान्यग्रहणार्थ इति॥ क्रियमाणेऽपि वै च्ल्युत्सर्गे तान्येव त्रीणि ग्रहणानि भवन्ति - च्लि लुङि लेरिति॥ (च्ल्युत्सर्गे लाघवभाष्यम्) यदेतत् लेः इति, तत्परार्थे भविष्यति। कथम्? यदेतद् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचो ग्रहणम्। एतद् लेः इति वक्ष्यामि॥ (दूषणभाष्यम्) यदि लेरित्युच्यते धेटश्चातुः शब्द्यं प्राप्नोति - - अदधद् अधाद् अधासीद्। अदधादित्येतदपि प्राप्नोति॥ (दूषणपरिहारभाष्यवार्तिकम्॥) - न चङो लुकि द्विर्वचनम् - (व्याख्याभाष्यम्) न चङो लुकि द्विर्वचनेन भाव्यम्। किं कारणम्? चङि इत्युच्यते न चात्र चङं पश्यामः॥ (दूषणसाधकभाष्यम्) प्रत्ययलक्षणेन। (दूणषबाधकभाष्यम्) न लुमतातस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ॥ (दूषणभाष्यम्) बहुवचने तर्हि चातुः शब्द्यं प्राप्नोति - अदधत् अधुः अधासिषुः अधानित्यपि प्राप्नोति॥ (दूषणपरिहारभाष्यम्) नैष दोषः। आत इति जुस्भावो भविष्यति॥ (दूषणसाधकभाष्यम्) न सिध्यति। सिज्ग्रहणं तत्रानुवर्तते॥ (दूषणपरिहारभाष्यम्) सिज्ग्रहणं तत्र निवर्तिष्यते॥ (दूषणभाष्यम्) यदि निवर्तिते अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति॥ (दूषणपरिहारभाष्यम्) एवं तर्हि लुक् सिजपवादो विज्ञास्यते॥ (दूषणभाष्यम्) यदि लुक् सिजपवादो विज्ञायते। मा हि दातामित्यत्र आदिस्सिचो।?न्यतरस्याम् इत्येष स्वरो न प्राप्नोति। तस्मान्नैतच्छक्यं (वक्तृम्) - -लुक्सिजपवाद इति। (सिद्धान्तिभाष्यम्) न चेदेवमुच्यते अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति। तस्माद् आतः इत्यत्र सिज्ग्रहणमनुवर्तते। तस्मिंश्चानुवर्तामाने धेटश्चातुःशब्द्यं प्राप्नोति। तस्माह गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इत्यत्र सिज्ग्रहणं कर्तव्यम्। तस्मिंश्च क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति - च्लि लुङि च्लेः सिच् लेरिति॥ (द्वितीयप्रयोजननिराकरणभाष्यम्) यदप्युच्यते - क्सविधाने चानिड्वचने च्लिसंप्रत्ययार्थ इति॥ धातुमेवात्रानिट्त्वेन विशेषयिष्यामः - धातोरनिट इति॥ कथं पुनर्धातुर्नामानिट् स्यात्? धातुरेवानिट्॥ कथम्? अनिमित्तं वा इटः अनिट्॥ न वा तस्मादिडस्ति सोऽयमनिट् अनिडिति॥ (आक्षेपभाष्यम्) अथ धातो विशेष्यमाणे क्व योऽनिट् इति विशेषयिष्यते? यदि विज्ञायते - -निष्ठायामनिटः इति। भूयिष्ठेभ्यः प्राप्नोति। भूयिष्ठा हि शलन्ता इगुपधानिष्ठायामनिटः॥ अथ विज्ञायते लिटि योऽनिडिति। न कुतश्चित्प्राप्नोति। सर्वे हि शलन्ता इगुपधा लिटि सेटः॥ (समाधानभाष्यम्) किं पुनः कारणं धातौ विशेष्यमाण एतयोर्विशेषयोर्विशेषयिष्यते। न पुनर्यत्र सामान्येनेटो विधिप्रतिषेधौ? क्व सामान्येन? वलाद्यार्धधातुके॥ (तृतीयप्रयोजनप्रत्याख्यानभाष्यम्) यदप्युच्यते - घस्लृभावे चेति। आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु। तत्रार्धधातुकसामान्ये घस्लृभावे कृते लृदित इति अङ् भविष्यति॥ च्लिलुङि॥ 43 ॥

Kashika

धातोश्च्लिः प्रत्ययो भवति लुङि परतः। इकार उच्चारणार्थः, चकारः स्वरार्थः। अस्य सिजादीनादेशान् वक्ष्यति। तत्रैवोदाहरिष्यामः॥

Siddhanta Kaumudi

शबाद्यपवादः ॥

Laghu Siddhanta Kaumudi

शबाद्यपवादः॥

Balamanorama

च्लि लुङि - च्लि लुङि । च्लीति लुप्तप्रथमाकम् । लुङि परे धातोश्च्लिप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति । आदिना श्यनादिविकरणसङ्ग्रहः ।

Tattvabodhini

च्लि लुङि - ॒इकार उच्चारणार्थ॑ इति मनोरमा । न चमन्त्रे घसे॑ति सूत्रे लेरिति स्थाने ल इत्युच्यमाने च्लिभिन्नस्यापि लकारस्य लुक् स्यादिति शङ्क्यं,,गातिस्थे॑ति सूत्रात्सिच् इत्यनुवत्र्य सिच्स्थानिनः = स्थान्यर्हसय् लस्य लुगिति व्याख्यायामतिप्रसङ्गाऽभावद्विभाषानुवृत्तेर्लुको वैकल्पिकतया छन्दसि रूपान्तरस्याऽनापाद्यतया च सिजनुवृतिंत विनापि नातिप्रसङ्ग इत्याहुः । शबाद्यपवाद इति । आदिशब्दात्तत्त्दगणप्रयुक्तानां श्यन्नादीनां ग्रहणम्॥

Nyaas

इकार उच्चारणार्थः इति। उच्चारणमेवास्यार्थो नान्यत् किञ्चित् प्रयोजनमित्यर्थः। एतेनेत्संज्ञाकार्यं न भवतीति दर्शयति। चकारः स्वरार्थः इति। चितः (6.1.157) इत्यन्तोदात्तत्वं यथा स्यात्। अथ मन्त्रे घसह्वरणशववृदहाद्वृच्कृगमिजनिभ्यो लेः (2.4.80) इत्येकारः सामान्यग्रहणार्थः, चकारस्तदविघातार्थः कस्मान्न विज्ञायते? एवं मन्यते - मन्त्रेघसादिभ्यो नैवाभ्यो लिरस्ति यस्य सामान्यग्रहणार्थोऽयमिकारः स्यात्, तस्मश्चासति सामान्यग्रहणार्थे तदविघातार्थतापि चकारस्य नोपपद्यते। आमः (2.4.81) इत्यत्र तर्हीकारचकारौ कस्मान्न सामान्यग्रहणाविघातार्थौ भवतः, तत्र हि मन्त्रेघसादि (2.4.80) सूत्राल्लेरित्यनुवर्तते, तत्रेकारचकारयोरभावे निरनुबन्धकग्रहणे न सानुबन्धकस्य (व्या।प।53) इति तस्यैव ग्रहणं स्यात्, न लिङलिटोः? नैतदस्ति; अत्र मा भूल्लिग्रहणानुवृत्तिः,अविशेषेणापि प्रत्ययमात्रस्य लुग् भवष्यति; नैवं सति किञ्चिदनिष्टमापद्यते। न हि सोऽस्ति प्रत्ययो यस्य लुकि सति किञ्चिदनिष्टं भवेत्। सत्यामपि लिग्रहणानुवृत्तौ न दोषः, अनेकस्मिन् ग्राह्रे सति सामान्यग्रहणं भवति, न चामः परस्यानेकं ग्राह्रमस्ति। न हि क्वचिदामः परो लिटोन्यः प्रयोगोऽस्ति, तस्मादन्याभावाल्लिट एव ग्रहणम्। तत्र नार्थः सामान्यग्रहणार्थेनेकारेण,नापि तदविघातार्थेन चकारेण। ननु च पावयाङ्क्रियादित्यत्रान्योऽपि लिरस्ति? नैतदस्ति; निपातनादेव तत्सिद्धम्।तच्चावश्यं निपातनमाश्रयितव्यम्; अन्यथा क्रियमाणेऽपीकारे तदविघातारएथे च चकारे अब्युत्सादयामिति न सिद्ध्येत्। तस्मात् पूर्वोक्तमेव प्रयोजनं न्याय्यम्। यथोत्तरार्थश्चकारस्तथोत्तरत्र प्रतिपादयिष्यामः।अथ किमर्थं च्लिप्रत्ययमासज्य तस्य सिजादय आदिश्यन्ते, न सिचमेवोत्सर्गं विधाय तस्य क्सादय आदेशा विधीयेरन्निति?नैवं शक्यम्; एवं हि शल इगुपधादनिटः क्सः (3.1.45) इत्यत्र च्लेरभावादनिड्ग्रहणं धातोर्विशेषणं विज्ञायेत- धातोरनिट इति। तथा च गुहेर्न सिद्ध्येत - अघुक्षदिति।तस्य हि ऊदित्त्वात् स्वरत्यादिना (7.2.44) विकल्पेड्विधानान्नास्त्यनिट्त्वम्। च्लौ सत्यनिड्ग्रहणेन स एव विशिष्यते - च्लेरनिट इति। गुहेश्च परस्य च्लेर्विभाषितेट्त्वात् यदेण् नास्ति तदा च्लेरनिट्त्वात् क्सः सिद्धो भवति॥

Prakriyasarvasvam

धातोर्लुङि परे च्लिप्रत्ययः स्यात् । शबाद्यपवादः ।