31059: कृमृदृरुहिभ्यश्छन्दसि¶
Padacheda: कृ-मृ-दृ-रुहिभ्यः | S | 5 | 3 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After the words कृ ‘to do’, मृ ‘to die’, दॄ (9P) ‘to tear’ and रुह ‘to rise’, अङ् is the substitute of च्लि when used in छन्दस् (Vedas).
Vasu English Translation¶
After the words कृ ‘to do’, मृ ‘to die’, दॄ (9P) ‘to tear’ and रुह ‘to rise’, अङ् is the substitute of च्लि when used in छन्दस् (Vedas). Thus अकरत् ‘he did’; अमरत् ‘he died’; अदरत् ‘he tore’; आरुहत् ‘he rose’. See Rig Veda (X. 85.17), (X. 44.6). The classical Aorist of these verbs are अकार्षीत्, अमृत, अदारीत् and अरुक्षत्.
Kashika¶
कृ मृ दृ रुहि इत्येतेभ्यः परस्य च्लेश्छन्दसि विषयेऽङादेशो भवति। शकलाङ्गुष्ठकोऽकरत्। अथोऽमरत्। अदरदर्थान्। सानु॒मारु॑ह॒त् (ऋ० १.१०.२)। अन्तरि॑क्षा॒द् दिव॒मारु॑हम् (शौ०सं० ४.१४.३)। छन्दसीति किम्? अकार्षीत्। अमृत। अदारीत्। अरुक्षत्॥
Siddhanta Kaumudi¶
च्लेरङ् वा । इदं तेभ्योऽकरं नमः (इ॒दं तेभ्यो॑ऽकरं॒ नमः॑) । अमरत् । अदरत् । यत्सानोः सानुमारुहत् (यत्सानोः॒ सानु॒मारु॑हत्) ॥
Padamanjari¶
कृमृद्दरुहिभ्यश्च्छन्दसि॥ अमरदिति। व्यत्ययेन परस्मैपदम्॥
Nyaas¶
डुकृञ् करणे (धातुपाठः-1472), मृङ प्राणत्यागे (धातुपाठः-1403), दृ विदारणे (धातुपाठः-1493), हुह {बीजजन्मणि प्रादुर्भावे च धातुपाठः-} जन्मनि (धातुपाठः-859)। तत्राद्यानां त्रयाणां सिचि प्राप्ते, रुहेश्च शल इगुपधादनिटः (3.1.45) इति क्से प्राप्ते। अकरत् इति। पूर्ववद्गुणः। अमरत् इति। व्यत्ययेन परस्मैपदम्। भाषायां तु अकार्षीत्, अमृत, अदारीत्, अरुक्षदिति भवति॥
Prakriyasarvasvam¶
एभ्यश्च्लेरङ् स्यात् । यथा नो अदितिः करत् । ऋदृशोऽङि गुणः’ (७-४-१६) अमरत् । अदरत् । पयोधा अरुहद्रुनम् ।