31054: आत्मनेपदेष्वन्यतरस्याम्

Padacheda: आत्मनेपदेषु | S | 7 | 3 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति ।

लुङ्लकारस्य विषये धातोः च्लि लुङि (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति । पक्षे च्लेः सिच् (3.1.44) इत्यनेन सिच्-आदेशः विधीयते । अङ्-प्रत्यये परे प्रक्रियाः अधः दत्ताः सन्ति । 1) लिप् + लुङ् [लुङ् (3.2.110) इति लुङ्] → लिप् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → लिप् + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + लिप् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + लिप् + अ + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः] → अलिपत 2) षिच् (क्षरणे) → सिच् [धात्वादे षः सः (6.1.64) इति षकारस्य सकारादेशः] → सिच् + लुङ् [लुङ् (3.2.110) इति लुङ्] → सिच् + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → सिच् + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + सिच् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + सिच् + अ + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः] → असिचत 3) ह्वेञ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → ह्वे + + च्लि + ल् [च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → ह्वे + अङ् + ल् [**लिपिसिचिह्वश्च (3.1.53) इति च्लि-इत्यस्य अङ्-आदेशः] → ह्वा + अ + ल् [आदेश उपदेशेऽशिति (6.1.45) इति आकारादेशः] → ह्व् + अ + ल् [आतो लोप इटि च (6.4.64) इति आकारलोपः] → अट् + ह्व् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + ह्व् + अ + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः] → अह्वत

Sutrartha (English)

For the verb roots लिप् , सिच् and ह्वे , the च्लि-प्रत्यय is optionally converted to अङ् when followed by a प्रत्यय of आत्मनेपद.

Vasu English Summary

After the verbs लिप् , सिच् and ह्वे अङ् is optionally the substitute of च्लि when the affixes of the आत्मनेपद follow.

Vasu English Translation

After the verbs लिप् , सिच् and ह्वे अङ् is optionally the substitute of च्लि when the affixes of the आत्मनेपद follow. Thus अलिपत or अलिप्त ‘he painted’; असिचत or असिक्त ‘he sprinkled’; आह्वत or आह्वास्त ‘he challenged’.

Kashika

पूर्वेण प्राप्ते विभाषारभ्यते। लिपिसिचिह्व आत्मनेपदेषु परतश्च्लेरङादेशो भवत्यन्यतरस्याम्। स्वरितञितः० (१.३.७२) इत्यात्मनेपदम्। अलिपत, अलिप्त। असिचत, असिक्त । अह्वत, अह्वास्त॥

Siddhanta Kaumudi

अतो लोपः (SK2372) । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥ अथ द्वौ परस्मैपदिनौ ॥{$ {!1009 वद!} व्यक्तायां वाचि $}। अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज - (SK2267) इति वृद्धिः । अवादीत् ।{$ {!1010 टुओश्वि!} गतिवृद्ध्योः$} । श्वयति ॥

Laghu Siddhanta Kaumudi

लिपिसिचिह्वः परस्य च्लेरङ् वा। असिचत, असिक्त॥॥ {$ {! 10 लिप !} उपदेहे $} (धातुपाठे (06.0169)) ॥ उपदेहो वृद्धिः। लिम्पति, लिम्पते। लेप्ता। अलिपत्, अलिपत, अलिप्त ॥ इत्युभयपदिनः । ॥ {$ {! 11 कृती !} छेदने $} (धातुपाठे (06.0171)) ॥ कृन्तति। चकर्त। कर्तिता। कर्तिष्यति, कर्त्स्यति। अकर्तीत्॥ {$ {! 12 खिद !} परिघाते $} (धातुपाठे (06.0172)) ॥ खिन्दति। चिखेद। खेत्ता॥ {$ {! 13 पिश !} अवयवे $} (धातुपाठे (06.0173)) ॥ पिंशति। पेशिता॥ {$ {! 14 ओव्रश्चू !} छेदने $} (धातुपाठे (06.0012)) ॥ वृश्चति। वव्रश्च। वव्रश्चिथ, वव्रष्ठ। व्रश्चिता, व्रष्टा। व्रश्चिष्यति, व्रक्ष्यति। वृश्च्यात्। अव्रश्चीत्, अव्राक्षीत्॥॥ {$ {! 15 व्यच !} व्याजीकरणे $} (धातुपाठे (06.0013)) ॥ विचति। विव्याच। विविचतुः। व्यचिता। व्यचिष्यति। विच्यात्। अव्याचीत्, अव्यचीत्। व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात्॥ {$ {! 16 उछि !} उञ्छे $} (धातुपाठे (06.0014)) ॥ उञ्छति। ‘उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्।’ इति यादवः॥ {$ {! 17 ऋच्छ !} गतीन्द्रियप्रलयमूर्तिभावेषु $} (धातुपाठे (06.0016)) ॥ ऋच्छति। ऋच्छत्यॄतामिति गुणः। द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट्। आनर्च्छ। आनर्च्छतुः। ऋच्छिता॥॥ {$ {! 18 उज्झ !} उत्सर्गे $} (धातुपाठे (06.0024)) ॥ उज्झति॥ {$ {! 19 लुभ !} विमोहने $} (धातुपाठे (06.0025)) ॥ लुभति॥

Balamanorama

आत्मनेपदेष्वन्यतरस्याम् - आत्मनेपदेषु । आतो लोप इति अह्वा अ त् इति स्थितेआतो लोप इटि चे॑त्यालोप इत्यर्थः । अह्वदिति । अह्वताम् । अहवन्नित्यादि । अह्वतेति । लुङि आत्मनपदे अङि रूपम् । अह्वेतामह्वन्तेत्यादि । अङभावपक्षे त्वाह — अह्वास्तेति । अह्वासातामह्वासत । इत्यादि । अह्वास्यत् अह्वास्यत । वद व्यक्तायां वाचीति । अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदतीति । ‘अच्छे’ त्यव्ययमाभिमुख्ये । अभिमुखं वदतीत्यर्थः । ‘अच्छ गत्यर्थवदेषु’ इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणमिति मत्वा आह — उवादेतिकिति लिटि तुवचिस्वपियजादीना॑मिति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह — ऊदतुरिति । उवदिथेति । द्वित्वे अभ्यासस्य संप्रसारणमिति भावः । ऊदथुः ऊद । उवाद — उवद ऊदिव ऊदिम । वदितेति । तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति । आशीर्लिङि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणमिति भावः ।अवादी॑दित्यत्र हलन्तलक्षमवृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथग्ग्रहणाद्वृद्धिरित्यभिप्रेत्याह — वदव्रजेति वृद्धिरिति । एतदर्थमेववदव्रजहलन्तस्ये॑त्यत्र वदधातोः पृथग्ग्रहणमिति भावः । टु ओ आईति । टुरोकारश्चेत् । आयतीति । शपि गुणाऽयादेशौ । लिटि तु अकिति णलादौलिटभ्यासस्ये॑त्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते, किति तु अतुसादौ द्वित्वात्प्राक्वचिस्वपी॑ति नित्यं संप्रसारणे प्राप्ते आह —

Tattvabodhini

आत्मनेपदेष्वन्यतरस्याम् - अच्छ वदतीति ।अच्छे॑त्यस्य वदयोगे गतित्वाद्धातोः प्राक् प्रयोगः ।

Padamanjari

आत्मनेपदेष्वन्यतरस्याम्॥ अलिप्त, असिक्तेति।’झलो झलि’ इति सलोपः,’लिङसिचावात्मनेपदेषु’ इति कित्वाद् गुणाभावः॥

Nyaas

स्वरितञिचः इत्यात्मनेपदम् इति। लिपिसिच्योः स्वरितेत्त्वात्, ह्वयतेस्तु ञित्त्वात्। अलिप्त, असिक्त इति। झलो झलि (8.2.26) इति सिचो लोपः, तस्या (8.2.26) सिद्धत्वाल्लघूपधगुणः प्राप्तः, स लिङ्सिचावात्मनेपदेषु (1.2.11) इति कित्त्वान्न भवति, चोः कुः (8.2.30) इति कुत्वम्॥

Prakriyasarvasvam

लिप्यादेः परस्य च्लेः कर्तरि तङि अङ् वा स्यात् । अह्वत१ । अह्वेताम् । अह्वन्त । सिचि अह्वास्त । लिपिसिच्योः अलिपत, अलिप्त । असिचत, असिक्त । स्वरितेतावेतौ । कर्मणि अह्वाये । कर्तर्यङ्क्तेरिह सिजेव । अह्वायिषाताम्, अह्वासाताम् । लिटि ।

Sutra Prayogas

  • अलिपत (भट्टिकाव्यम्): आत्मनेपदेष्वन्यतरस्याम् इति विकल्पेनाङ्।

  • आह्वन्त (भट्टिकाव्यम्): आत्मनेपदेष्वन्यतरस्याम् इति नः पक्षे अङ्।

  • आह्वता (भट्टिकाव्यम्): आत्मनेपदेष्वन्यतरस्याम् इत्यङ्।