Sutras 141 - 160¶
- 33141: वोताप्योः
- 33142: गर्हायां लडपिजात्वोः
- 33143: विभाषा कथमि लिङ् च
- 33144: किंवृत्ते लिङ्लृटौ
- 33145: अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि
- 33146: किंकिलास्त्यर्थेषु लृट्
- 33147: जातुयदोर्लिङ्
- 33148: यच्चयत्रयोः
- 33149: गर्हायां च
- 33150: चित्रीकरणे च
- 33151: शेषे लृडयदौ
- 33152: उताप्योः समर्थयोर्लिङ्
- 33153: कामप्रवेदनेऽकच्चिति
- 33154: सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे
- 33155: विभाषा धातौ सम्भावनवचनेऽयदि
- 33156: हेतुहेतुमतोर्लिङ्
- 33157: इच्छार्थेषु लिङ्लोटौ
- 33158: समानकर्तृकेषु तुमुन्
- 33159: लिङ् च
- 33160: इच्छार्थेभ्यो विभाषा वर्तमाने